कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 311, कुल 709 में से
संदर्भ में पढ़ें| २७२ | कादम्बरी- | [ कथायाम्- |
|---|
उत्-कूजित-चकोर-कादम्ब-हारीत-कोकिलम्, लालप्यमानं-शुकसारिकम्, इभपतिमद-परिमलामर्ष-जृम्भितैश्च निष्कूजद्भिः शिखरिणां जीवितैरिव गिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भास्यमानम्, उत्त्रस्यमानैः काञ्चनभवन-प्रभा-जनित-दावानल-शङ्कैलॉ-लतारकैर्भ्रमद्भिर्वने-हरिण-कदम्बकैलॉचनप्रभया शवलीकृतदिगन्तरम्, उद्दाम-केकारवानुमीयमान-मरकत-कुट्टिम-स्थितशिखण्डि-मण्डलम्, अतिशिशिर-चन्दन-विटपि-च्छाया-निषण्ण-निद्रायमाणगृह-सारसम्, अन्तःपुरेण च बालिकाजन-प्रस्तुत-कन्दुक-पञ्चालिकाक्रीडेन,
इभपतीति। इभपतयो गजेन्द्राः तेषां मदपरिमलैः दानवारिसुगन्धैः ये अमर्षाः कोपाः तैः जृम्भिताः पञ्जराभ्यन्तरेष्वेव घूर्णिताः तैस्तादृशैः, निष्कूजद्भिः शब्दायमानैः, शिखरिणां पर्वतानां जीवितैरिव प्राणैरिव, तद्गुहानिवासिभिः पर्वतवन्दरावस्थायिभिः गृहीतैः पर्वतकन्दरात् आदाय आनीतैः पञ्जरकेसरिभिः पञ्जरगस्तमृगेन्द्रैः उद्भास्यमानम् उत्कर्षेण विराजयमानम्, राजकुलम्। इह सिंहविषये 'निष्कूजद्भिः' इत्यसम्वद्धमेव स्यातविरुद्धतादोषसद्भावात् तस्मात् 'गर्जद्भिः' इति पाठं विधाय परिहर्त्तव्यम्।
उत्त्रास्येति। काञ्चनभवनानि सुवर्णरचितगृहाणि तेषां प्रभाभिः कान्तिभिः जनिता उत्पादिता दावानलशङ्का वनवह्निसन्देहो येषां तैः तादृशैः, अत एव उत्त्रास्यमानैः तयैव शङ्कया विशेषेण त्रासं प्राप्यमाणैः, अत एव च लोलतारकैः चञ्चलकनीनिकैः वर्त्तमानैः भ्रमद्भिः इतस्ततः पर्यटद्भिः, वनहरिणानां काननमृगाणां कदम्बकैः समूहैः, लोचनप्रभया नेत्रकान्त्या शवलीकृतानि विचित्रीकृतानि दिशामन्तराणि यस्य तत्तादृशम्। तेषां लोचनानामपि शवलत्वादित्याशयः।
इह काञ्चनभवनप्रभासु मृगाणां वनवह्निभ्रमाद्भ्रान्तिमानलङ्कारः। तथा नेत्रकान्त्या दिगन्तराणां विचित्रीकरणसम्बन्धाभावेऽपि तत्सम्बद्धप्रतिपादनादतिशयोक्त्यलङ्कारः। अनयोश्च परस्परनैरपेक्ष्येण विद्यमानत्वात्तिलतण्डुलवत्संसृष्टिरलङ्कारः।
उद्दामेति। उद्दामैः विस्तृतैः केकारवैः मयूरवाणीध्वनिभिः अनुमीयमानम् अनुमानविषयीक्रियमाणं मरकतकुट्टिमेषु अश्मगर्भबद्धभूमिषु स्थितम् उपविष्टं शिखण्डिमण्डलं मयूरसमूहो यत्र तत्तादृशम्। मरकतकुट्टिमानां शिखण्डिनाञ्च समानवर्णतया तत्रोपविशनां लोचनगोचराभावात् केवलकेकारवैरेवानुमानमित्याशयः।
अतिशिशिरेति। अतिशिशिराः अत्यन्तशीतलाः चन्दनविटपिनां चन्दनतरूणां छाया आतपाः तासु निषण्णा उपविष्टाः सन्तो निद्रायमाणाः प्रमीलां विदधतः गृहसारसाः भवनपोषितसारसपक्षिणो यस्मिंस्तत्तादृशम्।
अन्तःपुरेणेति। किञ्चेति चार्थः। 'अन्तःपुरेणे'ति 'समुपेताभ्यन्तरम्' इत्यग्रेतनपदार्थान्तःपतितायाः 'समुपेत' इति क्रियायाः कर्तृ पदम्। तथैह तृतीयाया एकवचनान्तानि पदानि 'अन्तःपुरेण' इत्यस्य विशेषणानि। बालिकाजनैः कन्याकावर्गैः प्रस्तुता आरब्धा कन्दुकैः गेन्दुकैः पञ्चालिकाभिः वसनरचितपुत्रिकाभिश्च क्रीडा खेला यत्र तेन तादृशेन।
'पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः।
थे, किसी किसी जगह चकोर, कलहंस, हारीत और कोकिल ऊँचे स्वर से शब्द (गान) कर रहे थे, किसी जगह शुक और सारिका (तोता-मैना) का आलाप हो रहा था। जो सिंहगण पहले पर्वतोंकी गुफाओंमें रहने से उनके जीवनके समान थे, वे सिंह इस राजभवनके अन्दर पकड़कर पिंजरोंमें बन्द कर दिए गए थे वे हाथियोंके मदजलकी सुगन्ध पाकर क्रोधसे पिंजरेके अन्दर ही घूमते हुए बड़ी गर्जना करते थे। पालतू हरिणगण, सुवर्णकी गृहदीवारोंकी प्रभा (चमक) को दावानल समझकर भीत होकर चञ्चलनयनसे इधर उधर विचरण करते हुए नेत्रोंकी प्रभासे वहाँकी सब दिशाओंको चित्रित करते थे। वहाँ मरकत मणि-मय भूमि पर रहनेवाले मयूरोंका अपनी केकारवसे ही पहचान होता था। अत्यन्त शीतल चन्दनवृक्षोंकी छायामें बैठे पालतू सारस (मैने) ऊँघने लगते थे। राजभवनके अन्दर अन्तःपुर (रनिवास) संलग्न था, वहाँ लड़कियाँ गेंद और कपड़ेके बने हुए
१. आलप्यमान... । २. क्वचित् 'इभ' इति पदं नास्ति । ३. क्वचित् 'मद' इति पदं नास्ति । .४भवन ।