कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 312, कुल 709 में से
संदर्भ में पढ़ेंराजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता २७३
अविरत-वाह्यमान॑-दोला२-शिखर-क्वणित-घण्टा-टङ्कार-पूरिताशामुखेन, भुजग-निर्मोक-शङ्कित-मयूर-ह्रियमाणहारेण, सौध-शिखरावतीर्णप्रचलित-पारावत-कुलतया स्थलोत्पलिनीवनशोभितेनेव, अन्तःपुरिकाजन-प्रस्तुत-नरपति-चरित-विडम्बनक्रीडेन, अश्वमन्दुरा-परिश्रष्टागतैर्बलुप्तभवन-दाडिमीफलैराखण्डिताङ्गन-सहकार-पल्लवैरभिभूत-कुब्ज-वामन-किरात-करतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीकृतेन॑, शुक-सारिका-प्रकाशित-सुरत-विस्रम्भालाप-लज्जितावरोधजनेन, प्रासाद-सोपान-समारोहणचलितैरवलानां
अविरतेति। अविरतं निरन्तरं वाह्यमानानां डोलनानन्दप्राप्तये तरुणीभिरारुह्य आन्दोल्यमानानां दोलानां डोलनयन्त्राणां शिखरेषु ऊर्ध्वप्रदेशेषु क्वणितानां सञ्चलनजवेषु शब्दितानां घण्टानां टङ्कारैः 'टंटम्' इति ध्वनिभिः पूरितानि भृतानि आशामुखानि दिग्भवनानि यस्मिंस्तेन तादृशेन ।
भुजगेति। भुजगनिर्मोकस्य अहिकञ्चुकस्य शङ्कितेन समुत्पन्नसन्देहेन हारं निरीक्ष्य भुजगनिर्मोकोऽयमिति भ्रान्तिमतेत्यर्थः, मयूरेण शिखण्डिना ह्रियमाणः गृह्यमाणः हारो मौक्तिकदाम यस्मिंस्तेन तादृशेन । इह हारे शिखण्डिनः भुजेगनिर्मोकभ्रमाद्भ्रान्तिमानलङ्कारः।
सौधेति। सौधशिखरात् अट्टालिकोर्ध्वदेशात् अवतीर्णं संप्रचलितं पारावतकुलं कपोतगणो यत्र तस्य भावस्तया कारणेन, स्थलोत्पलिनीनां सलिलशून्यस्थानगतसद्कल्कमललतानां वनेन समूहेन शोभितं राजितं तेनेव, तेषां पारावतानां कमलदलवत् ज्ञायमानत्वादित्याशयः। इह क्रियोत्प्रेक्षा ।
अन्तरिति। अन्तःपुरिकाजनैः अवरोधपुरस्थनारीलोकैः प्रस्तुता प्रारब्धा नरपतेः महाराजतारापीडस्य यच्चरितं नेपथ्यरचनाचारावलोकनक्रियाः तस्य विडम्बनम् अनुकरणमेव क्रीडा खेला यस्मिंस्तेन तादृशेन ।
अश्वेति। अश्वमन्दुगया वालिशालातः परिश्रष्टाः बन्धनादिमुक्ताः सन्तः आगताः प्राप्ताः तैस्तादृशैः। अश्वानां दृष्टिदोषप्रतिवन्धनार्थं वालिशालायां वानराः स्थाप्यन्त इति भूपतीनां व्यवहारः। अवलुप्तानि भिन्नानि, भवनदाडिमीफलानि गृहाङ्गनस्थदाडिमफलानि यैस्तैस्तादृशः। आखण्डितानि भिन्नानि अङ्गनसहकाराणां चत्वरवर्त्तिरसालतरूणां पल्लवानि किसलया यैस्तैस्तादृशैः । अभिभूताः तैरेव वानरैः आक्रम्य विजिता ये कुब्जवामनकिराताः तेषां करतलेभ्यः हस्ततलेभ्यः आच्छिन्नानि हठादाकृष्य गृहीतानि भूषणानि कटकाद्यलङ्कारान् विकिरद्भिः समन्ताद्विक्षिपद्भिः कपिभिः वानरैः आकुलीकृतेन व्यग्रीकृतेन । एवमेव हि कपिप्रकृतयः, तेनेह स्वभावोक्तिरलङ्कारः ।
शुकेति। शुकसारिकाभिः कीरपीतपादादिभिः शयनभवनायाताभिरिति भावः, प्रकाशिता अन्यजनसमीपे स्फुटमुच्चारिताः ये सुरतविस्रम्भालापाः सम्भोगसामयिकस्वच्छन्दवचनानुकरणवचनानि तैः लज्जिताः सञ्जातत्रपा अवरोधजना अन्तःपुरसुन्दर्यो यस्मिंस्तेन तादृशेन ।
प्रासादेति । प्रासादानां सौधानां सोपानेषु आरोहणेषु समारोहणेन उपरिष्टाद्गमनेन चलितैः स्पन्दितैः, अवलानां स्त्रीणां चरणेषु पादेषु अवसक्तैः विद्यमानैः मणिमयैः रत्नविकारैः, पदे पदे प्रतिपदक्षेपं रणद्भिः शब्दायमानैः तुलाकोटिवलयैः पादाङ्गदमण्डलैः 'पादाङ्गदं तुलाकोटिः' इत्यमरः, द्विगुणीकृतं निजशब्दैर्वर्द्धितं
दृष्टियोंसे खेलती थीं। युवतियाँ दिन-रात हिलते झूलों पर झूलती थीं, उन झूलोंके ऊपर भागमें घण्टियोंके 'ट ट' शब्दसे सभी दिशायें परिपूर्ण होती थीं। कोई मयूर एक हारको सर्पकी कंचुकी जानकर उसे खींच ले जाता था। महलोंके शिखरोंसे उतरकर नीचे चलते रहते कबूतरोंसे अन्दरका वह भाग ऐसा प्रतीत होता था मानो स्थलस्थित शोभामान कमलिनीका बन हो। अन्तःपुर (रनिवास) की सुन्दरियों महाराज तारापीडके चरित्रका अनुकरण करनेकी क्रीडामें लगी रहती थीं। वन्दरोंके झुण्ड अश्वशाला (अस्तवल) में से वहां आकर, घरके आंगनमें विद्यमान अनारके फलोंको कुतर कर, चत्वरस्थित आमोंके पल्लवोंको तोड़कर, कुब्ज, वामन और किरातको परास्त कर उन लोगोंके हाथोंसे वलपूर्वक (जवरदस्ती) आभूषणोंको छीनकर उन्हें इधर-उधर विखेर (फेंक) कर अन्तःपुरको व्याकुल करते थे। शयनगृहमें रहनेवाले शुक और सारिकागण (तोते और मैना) सम्भोगसमयके विस्रम्भालापको दूसरे लोगोंके सामने प्रकाशित कर अन्तःपुरकी सुन्दरियोंको लज्जित करते थे। पालतू कमहंसोंकी पङ्क्तियोंसे वहाँका आँगन सफेद प्रतीत होता था, इस तरह महलको सीढ़ियों पर चढ़ती हुई सुन्दरियोंके पैरोंमें पहने हुए
१. अनवरतसंवाह्यमान...। २. ...तोलो...। ३. स्थलोत्पलिनीवनेनेव । ४. ...आकुलीभूतेन ।