भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 315, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 315

२७६ कादम्बरी- [ कथायाम्-

मिव बाणयोग्यावासोपेतम्, पुराणमिव विभागावस्थापिते सकलभुवनकोशम्, सम्पूर्ण-चन्द्रो- दयमिव मृदुकरसहस्रसंवर्द्धितरत्नालयम्, दिग्गजमिवाविच्छिन्न-महादान-सन्तानम्, ब्रह्मा- ण्डमिव सकलजीवलोकव्यवहार-कारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगि-


विद्वैश्च शोभितं राजितम्। पक्षे पताकया 'व्यापि प्रासङ्गिकं वृत्ते पताकेत्यभिधीयते' इत्युक्तस्वरूपेण अर्थप्र- कृतिविशेषेण, अङ्गैः 'प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः' इत्यादिस्वरूपकैः परिच्छेदैश्च शोभितं राजितम्।

शोणितेति। शोणितपुरं तत्संज्ञकं बाणनाम्नो दैत्यस्य नगरं तदिव, बाणानाम् इषूणाम् इष्वाद्या- युधानामित्यर्थः, बाणस्य बाणनृपतेश्च योग्यैः समुचितैः आवासैः भवनैः उपेतं सहितम्।

पुराणमिति। पुराणं व्यासप्रणीतमत्स्यपुराणादिशास्त्रमिव, 'पुराणलक्षणञ्चोक्तममरकोशटीकायाम्-

'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् ॥'

अष्टादशपुराणानाञ्च संक्षेपेण नामानि चोक्तमन्यत्र-

'मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि जगुर्बुधाः ।।'

विभागेन पङ्क्तिक्रमरूपेण अवस्थापितः रचितः सकलभुवनकोशः समस्तसंसारे यावान् अर्थसञ्चयः सम्भवति तावान् अर्थसञ्चय इत्यर्थः, यत्र तत्तादृशम्। पक्षे विभागे अंसविशेषे अवस्थापितः कथनेन ज्ञापितः सकलानां समस्तानां चतुर्दशानां भुवनानां मण्डलं यत्र तत्तादृशम्, निखिलेष्वपि पुराणेषु समस्त- संसाराणां निरूपगोपलम्भादित्याशयः।

'कोशोऽस्त्री कुड्मले पात्रे दिव्ये खङ्गपिधानके। जातिकोशेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥' इति मेदिनी ।

सम्पूर्णेति । सम्पूर्णचन्द्रोदयमिव समस्तचन्द्रोद्गमनमिव राकापत्युदयमिवेत्यर्थः, मृदवः कोमलाः प्रजाभिरनायासेन समर्पिताः ये कराः राजदेयद्रव्याणि तेषां सहस्रेण समूहेन संवर्द्धिता वृद्धि प्रापिता- रत्नालयाः धनागाराणि यस्य तत्तादृशम्। पक्षे मृदुकरसहस्रेण कोमलरश्मिजालेन संवर्द्धिता वृद्धि प्रापिताः रत्नालयाः सागरा येन तं तादृशम्।

दिगिति । दिग्गजो दिग्हस्ती तमिव, अविच्छिन्नः विराममप्राप्तः धाराप्रवाहेण संयुक्त इत्यर्थः, महा- दानानाम् अत्यधिकद्रव्यवितरणानां सन्तानः परम्परा यत्र तत्तादृशम् । पक्षे अविच्छिन्नः महादानसन्तानः सातिशयपदसलिलधारा यस्य तं तादृशम् ।

ब्रह्माण्डमिति । ब्रह्माण्डं भुवनकोशमिव, सकलजीवलोकानां समस्तप्राणिवर्गाणां व्यवहारः विवा- दादिनिश्चयं एव कारणं हेतुः तस्मादुत्पन्नानि सञ्जातानि विवादनिश्चयसमये जनैः समर्पितानीत्यर्थः, हिर- ण्यानि द्रव्याणि गर्भे मध्ये यस्य तत्तादृशम्। पक्षे सकलजीवलोकानां व्यवहारः आचार एव कारणं तस्मा- दुत्पन्नः जनव्यवहारनिश्चयाय उत्पन्न इत्यर्थः, हिरण्यगर्भो ब्रह्मा यत्र तत्तादृशम् । जनानां सर्जनाय तद्- व्यवहारनिश्चयाय च तस्योत्पन्नत्वादित्याशयः ।

ईशानेति । ईशानस्य शङ्करस्य वाहूनां भुजानां वनं समुदायमिव, वाहूनां वृत्तसदृशविस्तृतत्वाद्धन- शब्दप्रयोगः महाभोगिनः सातिशयसुखिनो जनाः तेषां मण्डलानां समूहानां सहस्रेण अधिष्ठिता


चिह्नद्वारा शोभित था। शोणितपुर जिस प्रकार बाण राजाके योग्य भवनोंसे युक्त था, वह राजभवन भी उसी प्रकार बाण आदि अस्त्रोंके रखने योग्य-भवनोंसे युक्त था। पुराणशास्त्रमें जिस प्रकार चतुर्दश भुवनोंका वृत्तान्त वर्णित है, उस राजभवनमें भी उसी प्रकार समस्त संसारकी धनराशि अलग-अलग रूपमें कतार लगाकर रखी थी। सम्पूर्ण चन्द्रका उदय जिस प्रकार कोमल किरणोंसे समुद्रोंको बढ़ाता है, उस राजभवनमें भी उसी प्रकार प्रजाओं द्वारा विना परिश्रमके दिए हुए छोटे-छोटे करों (महसूलोंसे धनागार खजाने) की वृद्धि होती थी। दिग्गजोंकी विशाल मद-जलधारा जिस प्रकार अविच्छिन्न रूपसे बहती रहती है, उस राजभवनमें भी उसी प्रकार अत्यन्त धनवितरण अविच्छिन्नरूपसे (विना रुकावटके) होता रहता था। ब्रह्माण्डमध्यमें जिस प्रकार प्राणियोंके व्यवहार, निरूपण करनेके लिए हिरण्यगर्भ (ब्रह्मा) उत्पन्न हुए थे, उस राजभवनके मध्यमें भी उसी प्रकार सभी लोगोंके विवाद- मीमांसा होनेसे उसमें लोगों द्वारा दिया गया अधिकतर धन उत्पन्न हो गया था (अर्थात् लोगोंके अभियोग मुकदमों) का निर्णय (फैसला) होनेसे फीसका बहुत-सा धन एकत्रित हो गया था)। शङ्करकी भुजाओंके


१. यथाविभागावस्थापितः, अवस्थित ००० । २. पूर्ण००० ।