कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
२७८ कादम्बरी- [ कथायाम्-
न्तःप्रविष्ट-सपक्षभूमिभृत्-सहस्रसङ्कुलम्, उषानिरुद्धसमागममिव चित्रलेखा-दर्शितवि-चित्र-सकल त्रिभुवनाकारम्, बलियज्ञमिव पुराणपुरुष-वामनाधिष्ठिताभ्यन्तरम्, शुक्लपक्ष-प्रदोषमिव वितत-शशि-किरण-कलाप-धवलाम्बरै-वितानम्, नरवाहनदत्त-चरितमिव अन्त-
पुरा किल पर्वताः पक्षवन्तः सन्त उड्डीय यत्र तत्र नगर्यां पतन्तिस्म, तदा प्रजाविनाशमभिलक्ष्येन्द्रः पर्वतानां पक्षांश्चिच्छेद। तत्र मैनाकादयो हि तद्भयेन समुद्रमध्ये प्रविष्टा इति रामायणीया वार्त्ता।
उषेति। उषा बाणाख्यभूपतिदुहिता, अनिरुद्धः श्रीकृष्णपौत्रः तयोः समागमं सम्बन्धस्तमिव, चित्रलेखाभिः तत्तदालेख्यनिर्माणैः दर्शिताः प्रकटीता विचित्रा नानाप्रकाराः, सकलत्रिभुवनस्य समस्तलोकत्रयस्य तद्वर्त्तिनः पदार्थस्य आकाराः आकृतयो यत्र तत्तादृशम्। पक्षे—चित्रलेखया तन्नाम्न्या उषासहचर्य्या दर्शिता आलिख्य उपायै प्रदर्शिताः विचित्राः विशिष्टचित्रस्वरूपाः, सकलत्रिभुवनस्य समस्तलोकत्रयनिवासिनस्तत्तद्गणस्य आकाराः स्वरूपाणि यत्र तं तादृशम्।
पुरा उषानाम्नी वाणतनया स्वप्नेऽतिरमणीयं कर्माप तरुणं निरीक्ष्य तम्प्राप्तयेऽत्यन्तोत्सुका सञ्जाता। स हि क्व वर्त्तत इत्युपया प्रतिपादयितुमशक्यतया तस्या सहचरी चित्रलेखांमिधा सकलत्रिभुवनस्य समस्तानां तरुणानां स्वरूपाणि आलिख्य समानाय्य तस्यै दर्शयामास। ततस्तत्र हि अनिरुद्धस्वरूपं निरीक्ष्य स एवायमिति कथितवत्यां तस्यानुपायों चित्रलेखा नाय्या सुतं तमनिरुद्धमानीय उपया सह सम्मेलितवतीति हरिवंशकथा।
वलेति। वलेः बलिनामकभूपतेः यज्ञमिव, पुराणपुरुषैः वृद्धमानवैः वामनैः ह्रस्वस्वरूपिभिः पुरुषैः, पक्षे—पुराणपुरुषेण आदिपुरुषेण वामनेन गृहीतवामनावतारेण भगवता नारायणेन, अधिष्ठितम् आश्रितम् अभ्यन्तरं मध्यभागो यस्य तत् तादृशम्।
पुरा भगवान् वामनो बलेः प्रतारणाय तदीययनं प्रति गतवानासीदिति भागवतीया कथा।
शुक्लेति। शुक्लपक्षस्य सितदलस्य प्रदोषं रजनीमुखमिव, विततानि ऊर्ध्वं विस्तीर्णानि शशिकिरण-कलापवद् चन्द्ररश्मिसमूहवद् धवलानि शुभ्राणि अम्बरवितानानि वस्त्ररचितचन्द्रातपा यत्र तत्तादृशम्! पक्षे—विततैः विस्तृतैः शशिकिरणकलापैः धवलम् अम्बरं गगनमेव वितानं यत्र तं तादृशम्।
नरेति। नरवाहनदत्तस्य तत्तंज्ञकस्य वत्सराजोदयनसुतस्य चरितं चरित्रमिव, अन्तः अवरोधपुरे सम्वर्द्धिताः वृद्धि प्रापिताः प्रियदर्शनाः परमरमण्याः या राजदारिकाः प्रासाच्यान्याराजपुत्र्यः ताभिः गन्ध-र्व्वैभ्यो देवगायकेभ्यः दत्ता अत्यन्तरमणीयत्वादर्पिता उत्कण्ठा सम्मिलनोत्सुक्यं यत्र तत्तादृशम्। पक्षे—अन्तः सम्वर्द्धिता प्रियदर्शना नितान्तरमणीया, राज्ञः सागरदत्तस्य दारिका पुत्री या गन्धर्व्वदत्ता तदाख्या तस्या उत्कण्ठा नरवाहनदत्तस्य कृते औत्सुक्यं यत्र तत्तादृशम्। इहेतिहासश्च कथासरित्सागरे ज्ञेयम्—
'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः। तस्य गन्धर्वदत्ताख्या सुतास्ति न्यक्कताप्सराः।'
सा हि गन्धर्वदत्ता दूतवन्दिब्राह्मणादिभ्यो नरवाहनदत्तगुणातिशयं निशम्य तन्निमित्ते नितान्तो-त्सुका जातेति।
होनेसे वे लोग पक्षस्वी कहलाकर प्रसिद्ध थे। समुद्र जिस प्रकार इन्द्र द्वारा पंख कटने के भयसे क्रन्दरमें छुपे हुए पंखोंसे युक्त मैनाकादि पर्वतोंसे व्याप्त हो गया था, वह राजभवन भी उसी प्रकार शत्रुओंके भयसे क्रन्दरमें छुपे हुए सहायकयुक्त (मित्र भाव-सम्पन्न) राजाओंसे व्याप्त था। उषा-अनिरुद्धके समागममें जिसप्रकार उसकी सखी चित्रलेखानि समस्त त्रिभुवनके युवक पुरुषोंको आकृतिका चित्र खोदकर उषाको दिखाया था, उस राजभवनमें भी उसी प्रकार चित्रकारों द्वारा समस्त त्रिभुवनका सभी पदार्थोंके अनेक प्रकारकी आकृतिका चित्र दीवार पर खींच कर लोगोंको दिखाया गया था। बलि राजाका यज्ञस्थल जिस प्रकार आदिपुरुष (विष्णु) वामनद्वारा अधिष्ठित था, वह राजभवन भी उसी प्रकार वृद्ध और खर्वकृति (बौने) मनुष्यों द्वारा अधिष्ठित था। शुक्लपक्षका प्रदोषसमय जिस प्रकार चन्द्रके विस्तृत किरणोंसे (खिली हुई चाँदनीसे) धवलवर्ण आकाशरूप चन्द्रातपसे युक्त होता है, वह राजभवन भी उसी प्रकार चन्द्रकी किरणोंके (खिली हुई चाँदनीके) समान धवलवर्ण वस्त्रके बनाए हुए एवं ऊपरमें विस्तृत चन्द्रातप (तने शामियाने) से युक्त था। नरवाहनदत्त राजाकी कथामें जिसप्रकार अन्तः-पुरमें संवर्धित हुई परमसुन्दरी राजा सागरदत्तकी पुत्री गन्धर्वदत्ताको नरवाहनदत्तके विरहके कारण उससे समा-
१. मदात्प्रविष्ट । २. नृपतु । ३. विचित्रलेखा । ४. •••'धवलिते'••• । ५. नरवाहनदत्तकदेव ।
राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । २७६
संवर्द्धित-प्रियदर्शन-राजदारिका-गन्धर्वदत्तोत्कण्ठम्, महातीर्थमिव सद्योऽनेकपुरुषप्राप्ताभिषेक-फलम्, प्राग्वंशमिव नानासवपात्र-सङ्कुलम्, निशासमयमिवानेकनक्षत्रमालाालङ्कृतम्, प्रभातसमयमिव पूर्वदिग्भाग-रागानुमेय-मित्रोदयम्, गान्धिक-भवनमिव स्नान-धूप विलेपन-वर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृत-लवली-लवङ्गैला-कक्कोल-पत्रसञ्चयम्, प्रथम-वेश्या-
महेति । महातीर्थं भागीरथ्यादिकं तद्वदिव, सद्यः तारापीडादेशसमयमेव अनेके विविधा ये पुरुषाः विभिन्नदेशीयतृपात्मजाः तैः प्राप्तानि लब्धानि अभिषेकाः स्वस्वराज्याभिषेका एव फलानि यस्मात्तत्तादृशम् । अर्थात् यस्माद्राजभवनात् बहुभिः राजत्वं प्राप्तम् । पक्षे-सद्यः स्नानकाल एव अनेकपुरुषैः ज्ञानकर्तृः पूर्वलोकैः प्राप्तं लब्धम् अभिषेकात् स्नानात् फल स्वर्गदिप्राप्तिरूपं यस्मात्तत् तादृशम् ।
प्रागिति । यस्मिन् भवने होमसम्पादनाय हविः स्थाप्यते तस्मात् प्राग्दिक्स्याथि यजमानादिवा-नार्थं भवनं प्राग्वंश इत्युच्यते तथा चामरः-'प्राग्वंशः प्राग्हविर्गेहा' दित्यमरः, तमिव, नाना बहुभिः आसवपात्रैः शीधु ( मद्य ) भाजनैः 'मैरेयमासवः शीधुः' इत्यमरः । पक्षे-नानासवस्य यज्ञस्य पात्रैः सुक्स्रुवादिभिः यज्ञीयपात्रैः सङ्कुलं व्याप्तम् । "पात्रं तु भाजने योग्ये पात्रं तीरद्वयान्तरे । पात्रं सुवादौ पर्णे च राजमन्त्रिणि चेष्यते ॥” इति विश्वः । 'यज्ञः सवोऽध्वरो याग' इत्यमरः ।
निशेति । निशासमयम् रात्रिसमयभिव, अनेका नानाविधाः नक्षत्रमालाः सप्तविंशतिसंख्यक-मुक्ताफलगुम्फितस्रजः तारकापङ्क्तयश्च ताभिः अलङ्कृतं शोभितम् ।
'सैवं नक्षत्रमाला स्यात् सप्तविंशतिसंख्यकैः।' इत्यमरः ।
प्रभातेति । प्रभातसमयमिव प्रत्यूषावसरमिव, पूर्वदिग्भागे प्रागवस्थायां रागेण महाराजतारापीड-स्यानुरागावलोकनेन अनुमेयाः अनुमातुं योग्याः मित्राणां सुहृदाम् उदया अभ्युदया यत्र तत्तादृशम् ; तथा च जनैः यद्यद् मित्रं प्रति प्राक् राज्ञोरागोऽवलोकितः तस्य तस्यैव शीघ्रेण तदर्पितद्रव्यादिभिरभ्यु-दयो भविष्यतीत्यनुमितमिति स्पष्टार्थः। पक्षे-पूर्वदिग्भागे प्राच्यां दिशि रागेण लौहित्यदर्शनेन अनुमेयः मित्रस्य दिनकरस्य उदयो यत्र तत्तादृशम् ।
गान्धिकेति । गन्धद्रव्याणि विक्रीणीते यः स गान्धिकः तस्य भवनं निकेतनमिव, स्नानं स्नानीय-द्रव्यं सुगन्धितैलादि, धूपः विलेपनं श्रीखण्डचन्दनादिकम् , वर्णकम् अङ्गरागद्रव्यं कुङ्कुमादिकवर्तिवि-शेषश्च तरुज्ज्वलं दीप्तिमत्तत्तादृशम् । 'गात्रानुलेपनी वर्त्तिर्गन्धद्रव्यं विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्गरागके ॥' इति रभसः ।
ताम्बूलिकेति । ताम्बूलिकस्य नागवल्लीदलविक्रयविधायिनः भवनं गृहमिव, कृतो भोक्तुं विक्रेतुं च विहितः लवलीनां लवङ्गानां एलानां चन्द्र्वालानां पत्राणां दलानां ताम्बूलानाञ्चेति तात्पर्यम् , सञ्चयः एकत्रीकरणं यत्र तत्तादृशम् ।
प्रथमेति । प्रथम आद्यो यो वेश्यासमागमः गणिकासम्मिलनं तमिव, अविदितः अनन्तगाम्भीर्य-
गम करनेकी उत्कण्ठा सुननेमें आती है, उस राजभवनमें भी उसी प्रकार अन्तःपुर ( रनिवास ) में संवर्द्धिता परम-सुन्दरी राजपुत्रियाँ गन्धर्वोंको भी उत्कण्ठा उत्पन्न करती थीं ऐसा सुननेमें आता है । गङ्गादिक महातीर्थमें स्नान करने पर जिस प्रकार तत्काल ही स्नान करनेवालोंके पूर्व पुरुषोंको स्वर्गादिक फल प्राप्त होते हैं, उस राजभवनमें भी उसी प्रकार महाराज तारापीडकी अनुमति होने पर उस समयमें ही विभिन्नदेशीय राजपुत्रोंको अपने-अपने राज्यमें अभिषेक-रूप फल प्राप्त होते हैं । होमघरके पूर्वदिशामें यजमानादिकोंके रहनेके लिए विद्यमान घर जिस प्रकार सुक् और खुवादि अनेक प्रकारके यज्ञीय पात्रोंसे व्याप्त रहता है, वह राजभवन भी उसी प्रकार अनेक प्रकारके मद्यपात्रों (शराबके प्यालों ) से व्याप्त था । रात्रि समय जिस प्रकार अनेक नक्षत्रमालाओंसे शोभित होता है, वह राजभवन भी उसी प्रकार अनेक मुक्तामालाओंसे शोभित था । प्रातःकालमें जिस प्रकार पूर्वदिशामें लालिमा देखकर सूर्योदयका अनुमान किया जाता है, उस राजभवनमें भी उसी प्रकार मित्रोंके प्रति आरम्भमें ही महाराजका अनुराग देखकर उनलोगोंकी उन्नतिका अनुमान किया जाता था । गन्धद्रव्य बेचनेवालेके गृहके समान वह राजभवन, सुगन्धितैलादि स्नान करने योग्य द्रव्य, धूप, चन्दनादि अनुलेपन द्रव्य एवं कुङ्कुमादि अङ्ग-लेप द्रव्यसे उज्ज्वल दीखता था । पानबेचनेवाले (तमोली) के घरके समान उस राजभवनमें भी लवली-त्वंग
१. गन्धिक***। २. लेपन । ३. कङ्कोलि, कङ्कोल। ४. प्रधान ।
| २८० | कादम्बरी- | [ कथायाम्- |
|---|
समागममिव अविदित-हृदयाभिप्राय-चेष्टाविकारम् , कामुकजनमिव बहु-चाटु-संलाप-सुभाषित-रसास्वाद-दत्त-तालशब्दम् , धूर्त्तमण्डलमिव दीयमान-मणि-शत-सहस्रालङ्करण-कृत-लेख्यपत्रसञ्चयम् , धर्म्मारम्भमिवाशेषजन-मनःप्रह्लादनम् , महावनमिव विविधश्वापद-द्विजोपघुष्टम् , रामायणमिव कपि²-कथासमाकुलम् , माद्रीकुलमिव नकुलालङ्कृतम् , सङ्गीतभवन-
त्वात् केनाप्यनधिगतः हृदयाभिप्रायः चित्ताशयो याभ्यः तथोक्ताः चेष्टाः क्रियाः, विकाराः वदनलोचनादिभङ्गयश्च यत्र तत्तादृशम्। पक्षे—अविदितः अपरिचितत्वात् केनाऽप्युद्बुद्धः हृदयाभिप्रायो यासु तथोक्ताः चेष्टाः शृङ्गारचेष्टा विकारा भ्रूकटाक्षादयश्च यत्र त तादृशम्।
कामुकेति। कामुकजनमिव, बहूनि नानाविधानि चाटूनि नर्मवाक्यानि येषु तथोक्तैः संलापैः परस्परोक्तिभिः सुभाषितैः एकैकस्य रमणीयवचनैश्च यो रसास्वादः रसावगमः तेन दत्तः सम्मतिबोधनाय विहितः तालशब्दः करतलध्वनिः यत्र तत्त।दृशम्, पक्षे—येन तं तादृशम्।
धूर्त्तेति। धूर्त्तो द्यूतकारः तस्य मण्डलं समूहमिव, दीयमानानि तत्तत्प्रान्तीयराजभिरुपायनरूपेण वितीर्य्यमाणानि यानि मणीनां रत्नानां शतसहस्राणि तत्संख्याकानि अलङ्करणानि आभूषणानि च तेषां कृतः नियुक्तलिपिकर्त्तृभिर्विहितः लेख्यपत्रसञ्चयः तानि भूयो भूयो लिपीकृत्य तत्पत्रसंग्रहो यत्र तत्तादृशम्। पक्षे—दीयमानाय द्यूते स्वाविजयत्वेन दातव्याय मणिशतसहस्राय अलङ्करणाय च कृतः निजहस्ताक्षरैर्विहितः लेख्यपत्रसञ्चयः 'एतावत् काले दास्यामि' इति शृङ्गलेख्यपत्रसंग्रहो येन तत्तादृशम्।
धर्मेति। धर्मो यागादिकः तस्य आरम्भः कार्योपक्रमः तमिव, अशेषः समस्ता ये जना लोकाः तेषां मनःप्रह्लादनं हृदयानन्दोत्पादकम्, अत्यद्भुतत्वादित्याशयः। पक्षेऽपि तुल्यमेव।
महेति। महावनमिव, विविधैः नानाप्रकारैः श्वापदैः पोषितहिंस्रप्राणिभिः आरण्यकहिंस्रप्राणिभिश्च शार्दूलादिभिः, द्विजैः पोषितपतत्रिभिः विप्रैर्वा, पक्षे आरण्यकपतत्रिभिश्च उपघुष्टं शब्दितम्। 'दन्त-विप्राण्डजा द्विजाः' इत्यमरः।
रामेति। रामायणं रामचरितं महाकाव्यमिव, कपिभिः पोषितवानरैः कथाभिः विविधोपाख्यानैश्च, पक्षे—सुग्रीवह्वनुमत्प्रभृतीनां कथया उपाख्यानेन समाकुलं व्याप्तम्।
इतिहासो महाभारतादिरेव न तु रामायणं तस्य महाकाव्यत्वेन सर्वत्र व्यवह्रियमाणत्वात्।
माद्रीति। माद्री पाण्डोः कनिष्ठा पत्नी तस्याः कुलं सन्तानमिव, नकुलैः पोषितभुजङ्गारिभिः, नकुलेन तत्संज्ञकचतुर्थपाण्डवेन च अलङ्कृतं भूषितम्।
सङ्गीतेति। सङ्गीतस्य 'गीतं वाद्यं च नृत्यं च त्रयं सङ्गीतमुच्यते' इत्युक्तदिशा गीतनृत्य-
(लवंग), इलायची, कङ्कोल, एवं ताम्बूल इकट्ठे थे। वेश्याके प्रथम समागममें जिस प्रकार उसके मनका अभिप्राय व्यवहार और मुखचेष्टादिके भाव समझमें नहीं आते हैं, उस राजभवनमें भी उसी प्रकार लोगोंके मनका अभिप्राय, व्यवहार और मुखचेष्टादिके भाव समझगे नहीं आते थे। कामुक व्यक्तिके समान उस राजभवनके लोग भी अनेक प्रिय वाक्योंके द्वारा आपसमें आलापका एवं एक दूसरेके मनोहर वाक्यों का रसास्वादन कर करतलध्वनि (तालियाँ बजाया) करते थे। द्यूतकारगण (जुआरी लोग) जिस प्रकार जुएमें पराजित होकर बाजीमें शत-सहस्र रत्न एवं आभूषणोंके लिए लेख्यपत्र (बयान) लिख देते हैं, उस राजभवनमें भी उसी प्रकार छोटे-छोटे अधीन राजे लोग उपहारभावसे जो शत-सहस्र मणि और आभूषण देते थे, लेखकगण उनलोगोंके उन सभी चीजोंका लेख्यपत्र (तालिका) लिखकर देते थे (अथवा रानियोंके पहननेके लिए दिये गए मणिमय-आभूषणोंको लेखकगण (दीवान) कागज पर लिखते थे)। यागादि धर्मकार्यारम्भके समान वह राजभवन भी सब लोगोंके चित्तका आनन्द देनेवाला था। महावनके समान वह राजभवन व्याघ्रादि हिंसक जन्तुओं और पक्षियोंके शब्दसे शब्दायमान था। रामायण जिस प्रकार वालि-सुग्रीव और हनुमान् आदि वानरोंकी कथाओंसे परिपूर्ण है, वह राजभवन भी उसी प्रकार पालित वानर और अनेक स्थानोंमें प्रारम्भ की हुई कथाओंसे परिपूर्ण था। माद्रीका कुल जिसप्रकार नकुल (चतुर्थ पाण्डव) द्वारा भूषित था, वह राजभवन भी उसी प्रकार नकुल (नेवला-मिथिलाभाषामें विज्जी) द्वारा शोभित था। सङ्गीतशालामें जिस प्रकार स्थान-स्थान पर मृदङ्ग रक्खा रहता है उस राज-
१. कचिद् 'विविध' इति पदं नोपलभ्यते । २, कवि... ।
रावकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । २८१
मिवानकस्थानावस्थापितमृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्¹, ज्यौतिषमिव ग्रह-मोक्ष-कला भाग-निपुणम्, नारदीयमित्र, वर्ण्यमानं-राजधर्मम्, यन्त्रमिव विविध-शब्द-रस-लब्धा-स्वादम्, मृदुकाव्यमिवान्य-चिन्तित-स्वभावाभिप्रायवेदकम्³, महानदी-प्रवाहमिव सर्वदुरि-
वाद्यत्रयस्य भवनं गृहमिव, अनेकेषु विविधेषु स्थानेषु अवस्थापिता न्यस्ताः, मृदः अङ्गानि करचरणाद्यवयवा यासां ता मृदङ्गा मृत्युत्तलिकाः सुरजाश्च यत्र तत्तादृशम् ।
रघुकुलमिति । रघुकुलमिव, भरता नटाः तेषां गुणैः अभिनय कौशलैः, भरतस्य केकयीसुतस्य गुणैः दयादाक्षिण्यादिभिश्च आनन्दितं प्रमोदितम् ।
ज्यौतिषमिति । ज्यौतिषं ग्रहनक्षत्रादिबोधकं शास्त्रं तदिव, ग्रहो ग्रहणं प्रतिकूलाचरणानामाग्रह्दीकरणम्, मोक्षो निश्चितकालव्यतीते दण्डितानां तेषां कारागृहान्मोचनम्, कलानृत्यगीतादिचतुःषष्टिविद्याः, भागः शास्त्रमनतिक्रम्य धनविभक्तरूपं तेषु निपुण दक्ष जनेन इत्यर्थः यत्र तत्तादृशम्। पक्षे-ग्रहः सैंहिकेयेन चन्द्रसूर्ययोर्ग्रहणम्, मोक्षः तयोस्तस्मान्मुक्तिः, कला पञ्चपलात्मकः समयः, भागश्च पञ्चदण्डात्मकः समयः तेषु तत्प्रतिपादनेषु इत्यर्थः निपुणं दक्षम् ।
नारेति । नारदीयं नारमज्ञानं यति खण्डयतीति नारदः सुरर्षिः तेन प्रोक्तं पुराणं नारदीयं तदिव, वर्ण्यमाना निरूप्यमाणाः राजधर्मा यत्र तत्तादृशम् । नारदीयपुराणेऽपि राजधर्मनिरूपणोपलम्भात् ।
यन्त्रमिति । यन्त्रं वीणादिकमिव, विविधा नानाप्रकारा ये शब्दाः योजितवाक्यानि तेषां ये रसाः शृङ्गारादयः तेषां लब्धः काव्यकौशलैः प्राप्तः आस्वादश्रवणं यत्र तत्तादृशम्। पक्षे विविधा ये शब्दाः वीणोत्थितध्वनयः तेषां रसस्य साङ्गीत्यस्य लब्धः श्रवणकर्तृभिः प्राप्तः आस्वादश्रवणं यस्मात्तत्तादृशम् ।
मृद्विति । मृदु सुकुमारं प्रसादगुणयुक्तमित्यर्थः काव्यं कविकर्म तद्वदिव, अन्यैः अन्यस्यानस्थायिपुरुषैः चिन्तितः चिन्तामात्रविषयीकृतः न तु प्राप्त इत्याशयः, यः स्वभावः प्रकृतिः, अभिप्रायः तत्र स्थितपुरुषाणामाशयश्च तयोः आवेदकं बोधकम्, पक्षे-अन्यैः प्रतिपादकातिरिक्तैः पुरुषैः चिन्तितः केवलश्रवणेन ज्ञातः यः स्वभावः स्वार्थाभिप्रायः प्रतिपाद्यकस्याशयः तात्पर्यविषयीभूताशाय इति भावः, तयोरावेदकं द्योतकम्। प्रसादगुणविशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः ।
महेति । महानद्या वृहन्नदिन्याः गङ्गादेः प्रवाह ओघः तमिव, सर्वेषां समस्तानां दुरितानां दुष्टलोकदुर्व्यवहाराणाम् अपहरं तत्तत्त्वविदुषां सदुपदेशात् विनाशकम्। पक्षे-सर्वाणि यानि दुरितानि पापानि तेषाम् अपहरं स्नानाकरणेन नाशनजनकम् ।
भवनमें भी उसीप्रकार स्थान-स्थान पर मृत्तिकाकी पुतलिया रक्खी थी। रघुकुल जिसप्रकार भरतके गुण (दया-दाक्षिण्यादि) से आनन्दित हुआ था, वह राजभवन भी उसीप्रकार नटोंके गुण (अभिनयादि नैपुण्य) से आनन्दित था। ज्योतिषशास्त्र जिसप्रकार चन्द्र और सूर्यके ग्रहण और मुक्ति, कला (पञ्चपलात्मक समय), एवं भागके (पञ्चदण्डात्मक समयके) प्रतिपादनमें समर्थ है, उस राजभवनमें अनेक व्यक्ति (मन्त्री आदि) भी उसी प्रकार दुर्जनोंको बँधवानेमें, निर्दिष्ट समय बीत जाने पर उसे कारागार (जेल) से छुड़वानेमें, नृत्यगीतादि कलाविद्याओंका शास्त्रानुसार द्रव्यों का विभाजन करानेमें समर्थ थे। नारदीय पुराणमें जिस प्रकार समस्त राजधर्मो का वर्णन है, उस राजभवनमें भी उसी प्रकार सब राजधर्म रक्षित थे। वीणादिख वाद्ययन्त्रों से सुननेवाले जिस प्रकार अनेक प्रकार शब्दमाधुर्योके रसका आस्वादन पाते थे। उस राजभवन में काव्यों को जानने वाले भी उसी प्रकार अनेक प्रकारके काव्य-रसोंका आस्वाद पाते रहते हैं। प्रसाद गुणसे युक्त काव्य जिस प्रकार श्रवणमात्रसे ही साधारण मनुष्य चिन्तन कर सकें ऐसे अभिप्रायों और प्रकृतियोंके वर्णन को व्यक्त करता है, वह राजभवन भी उसी प्रकार दूसरेके केवल चिन्ताविषयीभूत अपनी असाधारण चमत्कारिता, और तत्तला बनोंका सदभिप्राय को व्यक्त करता है। गङ्गादि महानदियोंका प्रवाह जिस प्रकार समस्त पापोंको दूर करता है, वह राजभवन भी उसी प्रकार ज्ञानियोंके उपदेश द्वारा सद् लोगोंके दुराचरणों को दूर करता है।
१. भरतकुलानन्दितम्। २. लावण्यंमान ...। ३. अनन्य ...। ४. वेदकम्।
१८ का०
२८२ कादम्बरी- [ कथायाम्-
तापहरम्¹, धनमिव न कस्यचिन्नाकाङ्क्षणीयम्, सन्ध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षःस्थलमिव श्री-रत्न-प्रभा-भासित-दिगन्तम् बलभद्रमिव कादम्बरी-रस-विशेष-वर्णनाकुलमतिं, ब्रह्माणमिवं पद्मासनोपदेश-दर्शित-भूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गनाप्रचारमिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्,
धनमिति । धनं द्रव्यं तद्वदिव, कस्यचिन्नाकाङ्क्षणीयं नाभिलषणीयमिति किन्तु सर्वस्यैवाकाङ्क्षणीयमित्यर्थः ।
सन्ध्येति । सन्ध्यायाः सायंङ्कालस्य यः समयो वेला तमिव, दृश्यमानः प्रेक्ष्यमाणः चन्द्रापीडस्य तत्संज्ञकस्य नृपात्मजस्य उदय उपस्थितियंत्र तत्तादृशम् । पक्षे-दृश्यमानः अवलोक्यमानः चन्द्रः शशी एव सन्ध्याया एव आपीडः शिरोऽलङ्कारः तस्य उदय आविर्भावो यत्र तं तादृशम् । यद्वा-चन्द्रापीडो महेश्वरः तस्योदयो यत्र तं तादृशम् , सर्वदा सन्ध्याया नृत्यविधानादित्याशयः ।
नारायणेति । नारायणो विष्णुः तस्य वक्षःस्थलं भुजान्तरं तद्वदिव, श्रीसहितानि रत्नानि श्रीरत्नानि द्युतिविशिष्टमणयः तेषां प्रभाभिः कान्तिभिः भासिता दीपिता दिशां ककुभाम् अन्ताः शेषसीमा यस्य तत्तादृशम् । पक्षे-श्रिया लक्ष्म्या रत्नस्य कौस्तुभस्य च प्रभाभिः भासिता दिगन्ता यस्य तत्तादृशम् ।
बलेति । बलभद्रो वलरामः तमिव, कादम्बर्याः मद्यस्य रसविशेषवर्णने आकुला व्यग्रा मतिः लोकानां बुद्धिः यन्त्र तत्, यस्य च तं तादृशम् । राजकुलपक्षे—‘आकुलमति’ इति लिङ्गव्यत्ययो विधेयः ।
ब्रह्माणमिति । ब्रह्माणं ब्रह्मचारिणमिव, पद्मा राज्यश्रीः तस्याः आसनाय बहुकालपर्यन्तं स्थितये य उपदेश आचार्यैः तारापीडाय नीतिज्ञानदानं तेन दर्शितं प्रकटितं भुवः पृथिव्या मण्डलं व्यवहारो यत्र तत्तादृशम् । पक्षे-पद्मासनम्—
‘ऊरुमूले वामपादं पुनस्तु दक्षिणं पदम् । वामोरौ स्थापयित्वा तु पद्मासनमिति स्मृतम्’ ।
इत्यभिहितस्वरूपम् आसनविशेषः तस्य उपदेशः तज्ज्ञानप्रदानं दर्शितं तत्त्वज्ञानाय बोधितं भूमण्डलं यस्मै तं तादृशम् । ब्राह्मणमिति पाठे ब्राह्मणं द्विजमिव, पद्मासनोपदेशेन दर्शितभूमण्डलम् , पक्षे-पद्मासनो ब्रह्मा तस्योपदेशो वेदः तेन दर्शितं परेभ्यः प्रकाशितं भूमण्डलं येन स तं तादृशम् ।
स्कन्दमिति । स्कन्दः कार्त्तिकेयः तमिव, शिखिनः पोषितमयूराः तेषां क्रीडारम्भेण उद्धतनृत्योपक्रमेण चञ्चलं चहुलप्रायम् । पक्षे—शिखिनो वाहनीभूतमयूरस्व क्रीडारम्भेण नृत्यक्रीडोपक्रमेण चञ्चलः तदुपरि वर्त्तमानत्वेन स्पन्दितशरीरस्तम् ।
कुलेति । कुलाङ्गना कुलवधूः तस्याः प्रचारो बहिर्मार्गादौ गमनं तमिव, सर्वदा सर्वस्मिन् समये उपजाता सामान्यानां कुलाङ्गनायाश्च उत्पन्ना शङ्का भीतिः यन्त्र तत्, तच्च तादृशम् ।
वेद्येति । वेश्याजनो वाराङ्गनाजनः तमिव, उपचारे विद्यमानलीकाना सादरप्रार्थनायां चतुरं
धनके समान वह राजभवन भी सभी को अभीप्सित था। सन्ध्याकालमें जिस प्रकार सन्ध्याके शिरोभूषण चन्द्र का उदय देखनेमें आता है, उस राजभवनमें भी उसी प्रकार उस समय चन्द्रापीडका उदय देखनेमें आता था। नारायणका वक्षःस्थल जिस प्रकार लक्ष्मी और कौस्तुभ मणिकी प्रभाद्वारा दिशाओंको प्रकाशित करता है, वह राजभवन भी उसी प्रकार दीप्ति-संयुक्त मणियोंकी प्रभाद्वारा दिशाओंको प्रकाशित करता था। बलभद्रकी बुद्धि जिस प्रकार मद्यके रसमाधुर्य वर्णन करनेके लिए व्यस्त रहती थी, उस राजभवनके अनेक लोगोंकी बुद्धि भी उसी प्रकार मद्यके रसमाधुर्य वर्णन करनेके लिए व्यस्त रहती थी। ब्रह्मचारीको जिस प्रकार आचार्य तत्त्वज्ञानके लिए पद्मासनका उपदेश और जगत्तीनलके समस्त पदार्थोंको समझा देते हैं, उस राजधानीमें उसी प्रकार राजगुरुओंने राजलक्ष्मीको चिरस्थायिनी बनानेके लिए महाराज तारापीडको नीतिशास्त्रका उपदेश और भूमण्डलके आचार-व्यवहारोंको समझा दिया था। स्वामिकार्त्तिकेय जिस प्रकार अपने वाहन मयूरके नृत्यारम्भमें चञ्चल होते हैं, वह राजभवन भी उसी प्रकार पालतू मयूरोंके नृत्यारम्भसे चञ्चलप्राय होता था। कुलीन स्त्रियोंको जिस प्रकार प्रकाश्य-मार्ग (आम रास्ते) में चलनेके समयमें हर समय सन्देह उत्पन्न होता है, उस राजभवनमें भी उसी प्रकार साधारण मनुष्योंके हर समय सावधानता उत्पन्न कराई जाती थी। वेश्याके
१. दुरिततापहरम् । २. काङ्क्षणीयम् । काङ्क्षणीयं फलम् । ३. मतिम् ४. ब्राह्मणमिव ।
राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता २८३
दुर्जनमिवापगतपरलोकभयम्, अन्त्य्य-जनमिव अगम्यविषयाभिलापम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तक-भटगणमिव कृताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसानकल्याणकरम्, वासरारम्भमिव परिस्फुरत्पद्मरागारुणी-क्रियमाण-निशान्तम्, दिव्यमुनिगण-
कुशलम्, तत्यलोकानां कौशल्यवत्त्वस्यापि कौशल्यत्वमौपचारिकं बोध्यम् । पक्षेऽप्येवमेव ।
दुर्जनमिति । दुर्जनः खलः तमिव, अपगतं साधुतया रहितत्वेन दूरीभूतं परलोकात् वैरिजनात् भयं भीतिः यस्य तत्तादृशम् । पक्षे-अपगतम् अज्ञानावरणत्वात् दूरीभूतं परलोकात् इह जन्मकृतदुरित-जन्यजन्मान्तरक्लेशात् भयं त्रासो यस्य तं तादृशम् ।
अन्त्येति । अन्त्यजनः चण्डालादिनीचजनः तमिव, अगम्याः परैर्दुर्बोध्याः विषयाणां परराज्यानाम् अभिलापा नरपतेः मनोरथा यत्र तत्तादृशम्, तस्य मन्त्रगुप्तिस्थानेनोक्ता । पक्षे—अगम्ये सज्जनैः गन्तुम-शक्ये विषये देशे महाविपिनभूधरादौ अभिलापः वसतेः स्पृहा यस्य तं तादृशम् । इह यद्यपि ‘वेश्याजन-मिव’ इत्यारभ्य वाक्यत्रये उपमानस्य जुगुप्सितत्वेनानुचितार्थदोषः समापतति तथापि श्लेषोपमायामुप-मानान्तरप्रयोगे एवंविधविच्छित्तिविशेषस्यासम्भवत्वेन 'चण्डाल इव राजासौ सङ्ग्रामेऽधिकसाहसः’ इति दर्पगोदाहरणवन्न दोष इति समालोचनकुशलाः समालोचयन्ति ।
अगम्येति । अगम्ये अभोग्ये विषये गणिकासुरापानादौ आसक्तमपि प्रशंसनीयमिति विरोधः, अगम्ये परैर्गन्तुमप्यशक्ये विषये अन्यदीयराज्ये आसक्तं स्वोत्कर्षाय विहिताभिनिवेशमिति तत्परिहारः । अत एवेह विरोधाभासोऽलङ्कारः ।
अन्तकेति । अन्तको यमः तस्य भटगणमिव दूतसमूहमिव, कृताकृतयोः प्रजागणेन विहिताविहि-तयोः कर्मणोः सुकृतेन धर्मानुसारेण विचारे मीमांसायां निपुणं गुप्तचरैर्भ्यः समस्तज्ञानात् स्वाभाविकतेजः-शक्तेश्च कुशलम् । पक्षे—कृतयोः प्राणिवर्गेण सम्पादितयोः अकृतसुकृतयोः धर्माधर्मयोः विचारे मीमां-सायां निपुणम् ।
सुकृतमिति । सुकृतं धर्ममिव, आदिमध्यावसानेषु बहिर्देश-मध्यदेश-अवशिष्टदेशेषु कल्याणकरं निवासिनाम् आनन्दपूर्वकक्रमगत्वेन शुभसम्पादकम् । पक्षे—आदिमध्यावसानेषु त्रिष्वप्यवस्थासु कल्याणकरम् । तदुक्तम्—
‘धर्मेण हन्यते व्याधिर्धर्मेण हन्यते ग्रहः । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः ॥’
वासरेति । वासरारम्भः प्रत्यूषसमयः तमिव, परिस्फुरन्तो देदीप्यमानाः ये पद्मरागाः तत्संज्ञक-रक्तमणयः तैः अहङ्गीक्रियमाणानि रक्तीक्रियमाणानि निशान्तानि भवनानि यत्र तत्तादृशम् । पक्षे—परि-स्फुरन्ति विकसन्ति यानि पद्मानि कमलानि तेषां रागैः रक्तिमभिः अहङ्गोक्रियमाणः निशान्तः रजनी-शेषो येन तं तादृशम् ।
दिव्येति । दिव्यमुनिगणः महर्षिवसिष्ठादिसमूहः तमिव, कलापिसानाथैः मयूरपुत्रिकायुक्तैः श्वेत-
समान वह राजभवन भी अभ्यागत लोगोंका आदर-अभ्यर्थना करनेमें समर्थ था । दुर्जनको जिस प्रकार जन्मान्तर-भय नहीं रहता है, उन राजभवनको भी उसी प्रकार शत्रुओंसे भय नहीं था । चाण्डालादि नीचजनों को जिस प्रकार साधुओंके अगम्य महापर्वतादि स्थानमें रहनेके लिए इच्छा होती है, उस राजभवनमें भी उसी प्रकार दुर्गम पर-राज्योंका अपने अधीनमें करनेके लिए राजाको इच्छा होती थी । वह राजभवन, भोगके अयोग्य वेश्या और मद्यमें आसक्त होने पर भी प्रशंसनीय था (दूसरे लोगोंसे जानेमें दुर्लभ पर-राज्यमें विजय पानेके लिए उद्योग करता था, एवं प्रशंसनीय था) । यमदूत, जिस प्रकार जीवोंके सुकृत-दुष्कृत विचारनेमें प्रवीण हैं, वह राजभवन भी उसी प्रकार प्रजाने जो काम करनी है अथवा नहीं करनी हैं उनके विचार करनेने प्रवीण था । धर्म जिस प्रकार आदि, मध्य और अन्त सभी अवस्था में ही लोगोंका कल्याण करता है, वह राजभवन भी उसी प्रकार बाहर, बीच और अन्दर सभी स्थानोंमें ही रहनेवालोंका कल्याण करनेवाला था । प्रातःकाल जिस प्रकार चमकते कमलोंके रंगसे रात्रिके शेष भागको लाल लाल करता है, वह राजभवन भी उसी प्रकार देदीप्यमान पद्मराग-मणियोँ से भवनोंको लाल करता था। दिव्य मुनिगण जिस प्रकार कलापिनामक मुनिके साथ
१. वन्यज । २. क्वचिद् 'परिस्फुरत्' इति पदं नोपलभ्यते ।
२८४ कादम्बरी- [ कथायाम्-
$^१$मिव कलापि-सनाथ-श्वेतकेतु-शोभितन्$^२$, भारतसमरमिव कृतवर्म्मबाण$^३$-चक्र-सम्भार-भीषणम्, पातालमिव महाकञ्चुकिसहस्राध्यासितम्$^४$, वर्ष-पर्वतसमूहमिवान्तःस्थितापरि-मित-शृङ्गि-हेमकूटम्$^५$, महाद्वारमपि दुष्प्रवेशम्, अवन्तिविषयगतमपि मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नग्नलोकं राजकुलं विवेश।
केतुभिः धवलपताकाभिः शोभितं राजितम्। पक्षे—कलापी वैशम्पायनान्तेवासी ऋषिविशेषः तत्सनाथः तत्सहितः श्वेतकेतुः तदाख्य ऋषिः तेन शोभितम्।
भारतेति। भारतसमरं कौरवपाण्डवसङ्ग्राममिव, कृतो विहितो यो वर्मणां वाणानां चक्राणाञ्च सम्भार एकत्रीकरणं तेन भीषणं भयङ्करम्। पक्षे—कृतवर्मणः तत्संज्ञकयदुकुलीयमहावीरस्य बाणचक्रस्य इषुनिकरस्य सम्भारेण प्रयोगेण भीषणम्।
पातालमिति। पातालमिव, महान्तश्च ये कञ्चुकिनः अन्तःपुरचरवृद्धब्राह्मणाः तेषां निर्मोकवतां भुजङ्गानाञ्च सहस्रेण अध्यासितम् अधिष्ठितम्।
वर्षेति। सप्तद्वीपा वसुमती, तत्र जम्बुद्वीपे भारतादयो नवसङ्ख्यकाः खण्डाः तेषां सीमाकारिणः पर्वताः वर्षपर्वता इत्युच्यन्ते। तथा चोक्तम्—
‘हिमवान् हेमकूटश्च निषधो मेरुरेव च। चैत्रः क्रौञ्ची च शृङ्गी च सप्तैते वर्षपर्वताः ॥’
तेषां समूहो गणस्तमिव, अन्तर्मध्ये स्थितो विद्यमानः अपरिमितानाम् असङ्ख्येयानां शृङ्गिणां गवा-दिशृङ्गवत्पशूनां हेम्नां काञ्चनानाञ्च कूटः समूहो यस्य तत्तादृशम्। पक्षे—अन्तः स्थितौ मध्ये वर्त्तमानौ अपरिमितौ असङ्ख्येयौ शृङ्गिहेमकूटौ तत्संज्ञकाचलौ यस्य तं तादृशम्।
महेति। महान्ति विशालानि द्वाराणि अन्तःप्रवेशमार्गा यस्य तत्तादृशमपि दुष्प्रवेशमिति विरोधः, राज्ञः प्रतापात् साधारणैः प्रवेष्टुमशक्यमिति तत्परिहारः।
अवन्तीति। अवन्तिविषयो मालवदेशः तत्र गतं स्थितमपि मागधजनैः मगधदेशीयपुरुषैः अधिष्ठि-तम् आश्रितमिति विरोधः, मागधजनैः स्तुतिपाठकपुरुषैः अधिष्ठितमिति तत्परिहारः।
‘मागधो मगधोद्भूते शुक्लजीवकवन्दिनोः’। इति हैमः।
स्फीतमिति। स्फीतं सम्पत्तिसमृद्ध्या पीनं पूर्णमपि, भ्रमन्तः भ्रमणं कुर्वाणाः नग्नलोका निर्धनत्वेन वसनाभावाद्विवसनपुरुषा यत्र तदिति विरोधः, भ्रमन्तः इतस्ततो विचरन्तः नग्नलोकाः बौद्धभिक्षुका यत्र तदिति तत्परिहारः। ‘नग्नो वन्दित्तषणयोः पुंसि त्रिषु विवाससि।’ इति विश्वः। राजकुलं राजभ-वनम्, विवेश प्रवेशमकुर्वत।
‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च। भवने च...॥ इति मेदिनी।
श्वेतकेतु नामक मुनिसे शोभित हुए थे, वह राजभवन भी चित्रित मयूरसंयुक्त सफेद पताकाओं से शोभित था। कौरव-पाण्डवका युद्ध जिस प्रकार कृतवर्माके बाणों और चक्रके प्रहारसे भीषण हुआ था, वह राजभवन भी उसी प्रकार कवच, बाण और चक्रोंका संग्रह करनेसे भीषण था। पाताल जिस प्रकार महासपों द्वारा अधिष्ठित है, वह राजभवन भी उसी प्रकार अन्तःपुर (रनिवास) में भ्रमण करनेवाले अतिवृद्ध ब्राह्मणोंसे अधिष्ठित था। हिमालयादि वर्ष-पर्वतोंके बीचमें जिस प्रकार बहुत बड़े शृङ्गी और हेमकूट नामके दो पर्वत विद्यमान हैं, उस राजभवनके बीचमें भी उसी प्रकार शृङ्गयुक्त अगणित गो आदि पशु एवं सुवर्ण-समूह थे। इस प्रकार वह राजभवन बड़े बड़े दरवाजोंसे युक्त होने पर भी प्रवेश करनेमें कठिन था। परिहारपक्षमें—(दूसरेको सहसा प्रवेश करने में कठिन था)। उस राजभवनको अवन्ति (उज्जेन) देशमें रहने पर भी उसमें मगधदेशीय लोग रहते थे, परिहारपक्षमें:—(अनेक स्तुतिपाठक लोग रहते थे)। और वह राजभवन धन-समृद्धिसे परिपूर्ण होनेपर भी अर्थाभावके कारण सब लोग वस्त्र-रहित होकर भ्रमण करते थे, परिहार पक्षमें—(बौद्ध सन्यासी लोग भ्रमण करते थे।
१. क्वचित् 'चित्र' इत्यधिकः पाठ उपलभ्यते। २. ॰॰ उपशोभितन् ॰॰॰ ।- ३. ॰॰ श्छिलीमुख" । ४. महाकञ्चुक्याध्यासितम् । ५. ॰॰॰ "अपरिमित" शृङ्ग, शृङ्ग " ।
चन्द्रापीडस्य मातापितृदर्शनवर्णना-३० ] चन्द्रकला-विद्योतिनीसहिता । २८५
ससम्भ्रमोपगतैश्च कृतप्रणामैः१ प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च पूर्वकृतावस्थानेन दूर-पर्य्यस्त-मौलि-शिथिलित-चूडामणिमरीचि-चुम्बित-वसुधातलेन राज- लोकेन प्रत्येकशः प्रतीहार-निवेद्यमानेन सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तर-विनिर्गता- भिराचारकुशलाभिरन्तःपुरवृद्धाभिः क्रियमाणावतरणमङ्गलः, भुवनान्तराणीव विविध-प्राणि- सङ्घसङ्कुलानि सनकक्षान्तराण्यतिक्रम्य, अभ्यन्तरावस्थितम्, अनवरत-शस्त्रग्रहण-श्यामि- कालीढकरतलैः कर-चरण-लोचन-वर्जमसितलोहजालकावृतैःशरीरैः, आलानस्तम्भैरिव गज-
ससम्भ्रमेति । अपि चेति चार्थः । ससम्भ्रमं सत्वरम् उपगतैः निकटं प्राप्तैः प्रतीहारमण्डलैः द्वारपा- लवृन्दैः कृतप्रणामैः विहितनमस्कारैः सद्भिः उपदिश्यमानमार्गः उपदर्श्यमानपथः चन्द्रापीडः पितरम् अपश्यद् इत्यग्रिमेण सम्बन्धः । बहुभिर्हायनैः विद्याभ्यासं विधाय राजभवनागतत्वेन तथाविधभवनज्ञा- नाभावात्प्रतीहारमण्डलैः मार्गः प्रदर्शित इत्याशयः । अथवा पितुराह्वानजनितानन्दातिशयेन विस्मृतान्य- व्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति व्याख्याकर्त्तारः आशयं वर्णयन्ति !
सर्वत इति । सर्वतः समन्तात् प्रचलितेन प्राप्तेन पूर्वं कृतं चन्द्रापीडागमनप्रतीक्षया विहितम् अवस्थानम् अवस्थितिर्येन तेन तादृशेन, दूरादेव पर्यस्तैः नम्रैः मौलिभिः शिरोभिः शिथिलिताः शिथिली- कृता ये चूडामणयः शिरोरत्नानि तेषां मरीचिभिः रश्मिभिः चुम्बितं संस्पृष्टं वसुधातलं पृथ्वीतलं यस्य तेन तादृशेन, तथा प्रत्येकशः प्रतीहारनिवेद्यमानेन द्वारपालैर्दत्तपरिचयेन राजलोकेन भिन्नभिन्नदेशीय- सामन्तनृपमण्डलेन सादरम् आदरपूर्वकं यथा स्यात्तथा प्रणम्यमानः नमस्क्रियमाणः ।
पद इति । किञ्चेति चार्थः । अभ्यन्तरात् मध्यप्रदेशात् अन्तःपुरादित्यर्थः विनिर्गताभिः विनिःसृता- भिः, आचारकुशलाभिः देवकुलाचारनिपुणाभिः अन्तःपुरस्य वृद्धाभिः महत्तरिकाभिः नारीभिः पदे पदे प्रतिपदक्षेपं क्रियमाणानि विधीयमानानि अवतरणमङ्गलानि अभिनवागतस्य रथादवतरणसामयिकमङ्गल- व्यवहाराः धान्यदूर्वानिक्षेपप्रभृतयो यस्य स तादृशः ।
भुवनेति । भुवनान्तराणीव, अतिविस्तृतत्वादित्याशयः, विविधा नानाप्रकारा ये प्राणिनो व्याघ्रा- दयो जन्तवः तेषां सङ्घेन समूहेन सङ्कुलानि व्याप्तानि, कक्षान्तराणि प्रकोष्ठान्तराणि अतिक्रम्य अतिक्र- मणं विधाय । पूर्णोपमा ।
अभ्यन्तरेति । अभ्यन्तरे मध्यभवने अवस्थितं कृतावस्थानं पितरमिति अग्रेतनस्य विशेषणम् । अनवरतं निरन्तरं यच्छस्त्रग्रहणं आयुधोपादानं तेन याः श्यामिकाः कृष्णचिह्नानि त्रिणा इत्यर्थः, तैः आलीढानि आलिष्टानि करतलानि हस्ततलानि येषां तैस्तादृशैः । इत आरभ्य यानि तृतीयान्तानि पदानि तानि'शरीररक्षाधिकारनियुक्तैःपुरुषैः' इत्यस्य विशेषणानि । करचरणलोचनानि हस्तपादनेत्राणि वर्जयित्वा एतानि परित्यज्येत्यर्थः तत्तादृशम्, ग्रहगमनावलोकनार्थमित्याशयः, असितलोहजालकैः श्यामलवर्गलौह- कवचैः आवृतानि आच्छादितानि शरीराणि देहा येषां तैः तादृशैः अत एव गजमदस्य इभदानस्य परि-
चन्द्रापीडके प्रवेश करने पर द्वारपाल गण शीघ्रतासे समीपमें आकर प्रणाम-कर अन्दरमें प्रवेश करने के लिए मार्ग बताने लगे। अनेक देश के छोटे-छोटे राजा लोग, चन्द्रापीडकी आगमन-प्रतीक्षा करनेके लिए पहलेसे ही उस स्थान पर खड़े थे, अब एव उस समय वे सब दिशाओं से एकत्रित होकर एक-एक करके आदर सहित चन्द्रापीड को प्रणाम करने लगे। उस समय दूरसे ही मस्तक अवनत होनेके कारण उन लोगोंके ढीले चूडामणिकी किरणे धरनीका चुम्बन करने लगीं। एवं कोई द्वारपाल (दरवान) उन लोगोंके प्रत्येक का नाम और ग्राम को बताकर चन्द्रापीडके समीपमें परिचय कराने लगा । एवं अन्दरसे बाहर आ-आकर देशाचार और कुलाचारको जानने वाली अन्तःपुरकी बूढी स्त्रियाँ चन्द्रापीडके पद-पद पर सवारीसे उतरने का माङ्गलिक अनुष्ठान करने लगीं इस रीति से चन्द्रापीड अन्दर सात भुवनान्तरके समान विविध प्राणियोंसे परिपूर्ण सात बड़ी ड्योढ़ियों को पार कर, अभ्यन्तरमें दिन-हंसके समान सफेद पलंग पर बैठे हुए पिता को देखा। शरीर रक्षा कार्यमें नियुक्त अनेकों अधिकारी पुरुष उन्हें चारों ओर घेरकर खड़े थे। दिन रात अस्त्र धारण करनेसे उनकी हथेलियों कालो पड़ गई थीं, एवं हाथ पैर और नेत्रोंके अतिरिक्त उनका पूरा शरीर श्याम कवचसे ढँका हुआ
१. कृतप्रणामः । २. ...चलित... । ३. ...निवेद्यमाननाम्ना । ४. अवतारण; अवतरणक । ५. ...दुरुमह... । ६. ...विलोचन । ७. जालावृत ।
| २८६ | कादम्बरी- | [ कथायाम्- |
|---|
मद-परिमल-लोभ-निरन्तर¹-निलीन-मधुकर-पटल-जटिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महा-प्राणतया अतिकर्कशतया च दानवैरिव अतिशयाकारैः³ सम्भाव्यमानपराक्रमैः सर्वतः शरीर-रक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्, उभयतो वारविलासिनीभिरनवरतमुद्धूयमानधवल-चामरम्, अमलपुलिनतलशोभिनी सुरकुञ्जरमिव मन्दाकिनीवारिणि हंसधवल⁴-शयनतले निषण्णं पितरमपश्यत्।
'आलोकये'ति च प्रतीहारवचनानन्तरम्, अतिदूरावनतेन चलित-चूडामणिना शिरसा कृतप्रणामम्, 'एह्येहि' इत्यभिदधानैः⁵ दूरादेव प्रसारितभुजयुगलः, शयनतलादीषदू-र्ध्वसितै⁶-मूर्तिः, आनन्दजल-पूर्यमाण॑-लोचनः समुद्गतपुलकतया सीव्यन्निव, एकीकुर्वन्निव⁹
मल्लोभेन सुगन्धतृष्णाया निरन्तरनिलीनं निरवकाशोपविष्टं यन्मधुकरपटलं भ्रमरसमूहः तेन जटिलैः व्याप्तैः आलानस्तम्भैः हस्तिबन्धनस्तम्भैरिव विद्यमानैः। अनुरक्तैः कुलक्रमागतैः परम्परायातैः उदात्ता-न्वयैः उच्चवंशैःमहाप्राणतया नितान्तशक्तिशालितया अतिकर्कशतया अत्यन्तकठिनशरीरतया चकारणेन, दानवैरिव दनुजैरिव लवलोक्यमानैः। अतिशयाकारैः अत्यन्तविशालस्वरूपिभिः, अत एव सम्भाव्यमान-पराक्रमैः सम्भाव्यमानसाहसैः एतादृशः सर्वतः चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैः आत्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम्। इहं 'आलानस्तम्भैरिव दानवैरिव' इत्युभयत्राऽप्युपमालङ्कारः।
उभेति। उभयतः पार्श्वद्वये वारविलासिनीभिः गणिकाभिः अनवरतं निरन्तरम् उद्धूयमानानि वीज्यमानानि धवलानि निर्मलानि चामराणि यस्य तं तादृशम्, अत एव अमलाभ्यां स्वच्छाभ्यां पुलिन-तलाभ्यां पार्श्वद्वयवर्तिसिकतामयभागाभ्यां शोभते विराजते इति तस्मिन् तादृशे, मन्दाकिनीवारिणि वियद्गङ्गासलिले सुरकुञ्जरम् ऐरावतगजमिव, हंसवद्धवलं यत् शयनतलं शय्योर्ध्वदेशः तत्र निषण्णं उपविष्टम्। इह पार्श्वद्वये सिकतामयभागाभ्यां सह वीज्यमानचामराणाम्, वियद्गङ्गासलिलेन सह धवलशयनतलस्य ऐरावतगजेन च भूपतेरौपम्यमिति लुप्तोपमयोः अङ्गाङ्गिभावेन सङ्करालङ्कारः।
आलोकयेति। आलोकय 'कुमार! तातं निरीक्षस्व' इति प्रतिहारवचनानन्तरं सहायातद्वारपाल-कथनात्परम्, अतिदूरात् अतिदविष्ठदेशात् अवनतेन नम्रेण, अत एव चलितः कम्पितः चूडामणिः शिरो-रत्नं यस्य तेन तथोक्तेन शिरसा मस्तकेन, कृतो विहितः प्रणामो नतिर्येन तं तादृशं कुमारम्, एह्येहि आगच्छ आगच्छ इति वीप्सायां द्विवंचनम्। अभिदधानः ब्रुवाणः, दूरादेव प्रसारितं विस्तारितं भुजयुगलं बाहुद्वयं येन स. तादृशः। शयनबलात् शय्यातः, ईषच्च्वसितमूर्तिः किञ्चिदूर्द्ध्वीकृतशरीरः, आनन्दजलैः प्रमोद्वाष्पैः पूर्यमाणे म्रियमाणे लोचने नयने यस्य स तादृशः पिता तारापीडः, विनयावनतं विनयगुणेन नम्रीभूतं तं चन्द्रापीडम्, समुद्गतपुलकतया स्वशरीरोत्पन्नरोमाञ्चतया सीव्यन्निव स्वशरीरेण
था, अत एव हाथी के मदजलकी सुगन्ध के लोभसे निरन्तर बैठे (चिपटे) हुए भौरोंसे परिव्याप्त हाथी बाँधनेके स्तम्भके समान वे विराजमान थे और महाराजका वंशपरम्परागत शरीर-रक्षा कार्य करते आरहे थे, एवं उच्चकुलमें उत्पन्न हुए महाराजके प्रति विशेष अनुरक्त थे तथा महावीरता और अतिकर्कशताके कारण दानवगणके समान वे देखनेमें आ रहे थे, आकृति बहुत बड़ी होनेके कारण ही उनमें अत्यधिक पराक्रम है ऐसा समझ लिया जाता था। एवं वेश्याएँ महाराजके दोनों भागमें निरन्तर श्वेत चामर डुलाती थीं, उससे निर्मल पुलिन ( बालूकामय तट) से परिशोभित आकाशगङ्गाके जलमें ऐरावत हाथीके समान राजा देखनेमें आता था।
'कुमार! अपने पिताजी को देखिए'—इस प्रकार [साथ आए] द्वारपालके वचन सुननेके बादही चन्द्रा-पीडने माथा झुकाकर पिताको प्रणाम किया, उस समय उसका चूडामणि चलायमान हो गया। इतनेमें—'आओ आओ'—यों कहते-कहते पिता तारापीडने दूरसे ही भुजाओंको फैला कर, पलंग परसे शरीरको कुछ ऊँचा उठाकर, विनय से नम्र हुए पुत्र चन्द्रापीड का आलिङ्गन किया। उस समय महाराजकी आँखें आनन्दके आँसुओंसे भरी थीं, एवं समस्त शरीर में रोमाञ्च उत्पन्न (रोम खड़े) हो जानेके कारण राजा मानो अपने शरीर के
१. क्वचित् 'निरन्तर' इति पदं नास्ति।
२. महाप्राणतया।
३. अतिशयाकार, आश्रयाकारसम्मा-न्यमान..., अतिशयाकारसम्भाव्यमान...।
४. हंसधवले।
५. आदरेणामिधानः।
६. उद्भासित...।
७. ...मापूर्यमाण...।
८. ...पुलककण्टकतया।
९. एकीकुर्वन्निव तम् ।
चन्द्रापीडस्य मातापितृदर्शनवर्णनम्-३० ] चन्द्रकला-विद्योतिनीसहिता । २८७
पिबन्निव तं पिता विनयावनतमालिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृत- मुत्तरीयमात्मीयं^१ ताम्बूलकरङ्क^२वाहिन्या सत्वरमासनीकृतम् 'अपनये'ति शनैर्वदन्नग्र- चरणेन समुत्सार्य्य^३ चन्द्रापीडः क्षितितल एव निषसाद । अनन्तरं निहिते^४ चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्त्तमिव विस्मृतचामरोत्क्षेपनिश्शलानां वार- विलासिनीनां साभिलाषैरनिल-चलित-कुवलय-दत्त^५-दाम-दीर्घैराजिह्म^६-तरलतर-तारशारैरवलु- प्यमान इव दृष्टिपातैः स्थित्वा 'गच्छ, वत्स ! पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसाँः^७ यथाक्रमं सर्वा जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा, सविनयमुत्थाय निवारितपरिजानो
सह स्रुतं विदधदिव, एकीकुर्वन्निव अभिन्नं विदधदिव गाढारलेपगादित्यभिप्रायः, पिबन्निव सप्रेमाव- लोकनाविधानादित्याशयः आलिङ्ग परिषस्वजे । इह 'सीव्यन्निव' इत्यादि तिसृणां क्रियोत्प्रेक्षाणां परस्पर- नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।
आलिङ्गितेति । प्रथमम् आलिङ्गितः आश्लिष्टः पश्चान्मुक्तस्त्यक्तश्च राजकुमारः, ताम्बूलकरङ्कवाहिन्या नागवल्लीदलपेटिकाधारिण्या पितुरित्यर्थः, सत्वरं शीघ्रम् आत्मीयं स्वीयम्, पिण्डीकृतं सङ्कोचनेन स्तूपी- कृत्य राजकुमारस्य विष्टरीकृतमित्यर्थः उत्तरीय वस्त्रम्, अपनय एतद् दूरीकुरु गुरोः समीपे विष्टरोपवेशन- स्यायुक्तत्वादित्याशयः । शनैः मन्दं ब्रुवन् अग्रचरणेन पादाग्रेण तदुत्तरीयं समुत्सार्य दूरीकृत्य पितुश्चरण- पीठसमीपे तातपादासननिकटे क्षितितल एव भूमावेव निषसाद उपविवेश । अनेन विनयाधिक्यं व्यज्यते ।
अनन्तरमिति । वैशम्पायनश्च राज्ञा तारापीडेन सुतनिर्विशेषम् आत्मजसदृशम् उपगूढ आश्लिष्टः सन् अस्य राजकुमारस्य चन्द्रापीडस्य अनन्तरं पश्चात् निहिते स्थापिते आसने विष्टरे न्यषीदत् उपा- विशत् । वैशम्पायनस्य सचिवात्मजत्वेऽपि विप्रत्वाद्विष्टरे समुपवेशनं नायुक्तमित्यवधेयम् ।
मुहूर्त्तमिति । विस्मृताः राजपुत्रस्य अत्यधिकसौन्दर्यावलोकनोलपन्नविस्मयवशाद्विस्मरणमुपगता ये चामराणाम् उत्क्षेपा योजनानि तैर्निश्चलानां निस्पन्दानां वारविलासिनीनां वाराङ्गनानाम्, साभिलाषैः सस्पृहैः, अनिलचलितानां पवनान्दोलितानां कुवलयदलानां नीलोत्पलपत्राणां दाम माला तद्वद् दीर्घैः आयतः, अजिह्य नितान्तकुटिला तरलतरा अत्यन्तचपलाश्च यास्ताराः कनीनिकाः ताभिः शाराः चित्रिताः तैस्तादृशैः, दृष्टिपातैः नेत्रप्रान्तैः अवेलुप्यमानः पीयमानः इव राजकुमारः । मुहूर्त्तमिव कियत्समयं स्थित्वा तत्र राजनिटे स्थानं विधाय, हे वत्स, पुत्र ! गच्छ व्रज; पुत्रवत्सलां पुत्रहितां दर्शनलालसां त्वदवलोक- नोत्कण्ठितां मातरं जननीम् अभिवाद्य पादग्रहणं विधाय यथाक्रमं क्रममनतिक्रम्य ज्येष्ठाक्रमेणेत्यर्थः सर्वा निखिला जननीः उपमातृः दर्शनेन अवलोकनेन आनन्दय प्रमोदय इति पित्रा तारापीडेन विसर्जितो विष्टष्टः सविनयं सनमं यथा स्यात्तथा उत्थाय उत्थानं विधाय निवारितपरिजतः तत्रैव परित्यक्तसेवकवर्गः
साथ चन्द्रापीडकी सिलाई करता था, गाढ़ आलिङ्गनसे मानो एककर लेता था, एवं स्निग्ध दृष्टिसे मानो पान करता था । महाराजने चन्द्रापीडको आलिङ्गन कर छोड़ दिया । बादमें महाराजकी ताम्बूल-करङ्कवाहिनी (पानके डब्बेको धारण करने वाली) ने शीघ्रता से अपने उत्तरीय वस्त्र (दुपट्टा) को चौपेट कर चन्द्रापीड को बैठनेके लिए आसन कर दिया। उस समय चन्द्रापीडने धीरेसे कहा- 'इसे हटाओ' इस प्रकार कहते-कहते उसे अपने ही पैरके अँगूठेसे एक तरफ सरका (खिसका) कर, पिताके चरणोंके पास पृथिवी पर ही बैठ गया। महाराजने पुत्रके समान वैशम्पायनका भी आलिङ्गन किया, उस समय वैशम्पायन चन्द्रापीडके पीछे रक्खे हुए आसन पर बैठ गया । इधर जब वेश्याएँ चामर झलाना भूलकर निश्चल भावसे खड़ी रहकर अभिलाषा युक्त कटाक्षसे चन्द्रापीडको मानो पान करने लगीं, उस समय आँखें, पवनसे हिलने नीलकमलपत्रग्रन्थिकयोंके समान दीर्घ और टेढ़ी फिरती अत्यन्त चञ्चल पुतलियोंसे विचित्र हो गई थीं । चन्द्रापीडको थोड़ी देर उस स्थानमें बैठने के बाद राजाने कहा- 'जाओ, वत्स ! पुत्रवत्सला अपनी माताका अभिवादन कर एवं तुम्हारे दर्शन की अभिलाषा रखने वाली सब माताओं को यथाक्रम दर्शन देकर आनन्दित करो' यों कहकर उसे विदा किया ।
१. आत्मताम्बूल... । २. करण्ड... । ३. समुत्सार्य क्षितितले । ४. अनन्तरनिहिते, अनन्तरवि- निहिते । ५. ...कुवलयदाम... । ६. ...जिह्मित् । ७. ...लालसाम् ।
| २८८ | कादम्बरी- | [ कथायाम्- |
|---|
वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेन उपदिश्यमानवर्त्मा अन्तःपुरमयासीत् ।
तत्र धवलकञ्चुकावच्छन्नशरीरैरनेक-शतसंख्यैः श्रियमिव क्षीरोदकल्लोलैः$^३$ समन्तात् परिवृतां शुद्धान्तर्वशिकैः$^४$ अतिप्रशान्ताकाराभिश्च कपायरक्ताम्बरधारिणीभिः सन्ध्याभिरिव सकललोकवन्द्याभिः प्रलम्बश्रवणपाशाभिर्विदितानेककथालापवृत्तान्ताभिः$^५$ भूतपूर्वाः$^६$ कथाः कथयन्तीभिः इतिहासान् वाचयन्तीभिः पुस्तकानि दधतीभिः धर्मोपदेशान् निवेदयन्तीभि-र्जरत्प्रव्रजिताभिविनोद्यमानाम्, उपारचितस्त्रीवेशभारेण गृहीतविकटप्रसाधनेन वर्षवरजनेन
वैशम्पायनद्वितीयः अन्तःपुरप्रवेशयोग्येन अवरोधप्रवेशोचितेन राजपरिजनेन राजसेवकवर्गेण उपदिश्य-मानवर्त्मा उपदर्श्यमानमार्गः अन्तःपुरम् आययौ समागतम् । इह 'अवलुप्यमान इव' इत्यत्र क्रियो-त्प्रेक्षालङ्कारः ।
तत्रेति । तत्र अन्तःपुरे चन्द्रापीडः, धवलाः श्वेता ये कञ्चुकाः वारबाणाः तैः अवच्छन्नानि आच्छा-दितानि शरीराणि देहा येषां तैः तादृशैः, अनेके ये शतसंख्याः तैः, वशस्य भवनस्यान्तर्नियुक्ताः इत्य-न्तर्वंशिकाः शुद्धा निर्दुष्टाश्च ते अन्तर्वंशिकाश्चेति तैः कञ्चुक्यादिभिरित्यर्थः 'अन्तःपुरे त्वधिकृतः स्याद-न्तर्वंशिको जनः' इत्यमरः, क्षीरोदकल्लोलैः क्षीरसमुद्रमहातरङ्गैः श्रियं लक्ष्मीमिव, समन्तात् सर्वतः परिवृतां परिवेष्टितां 'मातरं प्रप्रनाम' इत्युत्तरेण सम्बन्धः इह 'श्रियमिव' इत्युपमा ।
अतीति । किञ्चेति चार्थः । अतिप्रशान्तोऽतीव सौम्य आकारो मूर्त्तिर्यासां ताभिस्तादृशीभिः, कपायेण निर्यासेन रक्तानि रञ्जितानि अम्बराणि वस्त्राणि धारयन्तीति ताभिः, पक्षे कपायेण रक्तं रञ्जितमिव अम्बरं गगनं धारयन्तीति ताभिः । 'कपायो रसभेदे स्यादङ्गरोगे विलेपने ।
निर्यासे च कपायोऽथ सुरभौ लोहितेऽन्यवत् ॥' इति विश्वः ।
सकलैः समस्तैः लोकैः जनैः वन्द्याभिः वन्दनीयाभिः, सन्ध्याभिः सायेंसन्मवैरिव विद्यमानाभिः । प्रलम्वाः लम्बायमानाः श्रवणपाशाः शोभनकर्णा यासां ताभिः ।'•••• पाशस्तु मृगपक्षादिवन्धने । कर्णान्ते शोभनार्थः स्यात् कचान्ते निकरार्थकः ॥ छात्राद्यन्ते च निन्दार्थः, •••••• इति हैमः ।
सामुद्रिकशास्त्रे लम्नकर्णत्वमभिज्ञताबोधकमित्यवधेयम् । विदिता ज्ञाता अनेका बह्वः कथाः उपाख्यानानि आलापः परस्परोक्तिप्रत्युक्तयः वृत्तान्ता लौकिकवार्ताश्च याभिस्ताभिः । पूर्वं भूता इति भूतपूर्वाः कथा वत्सराजचरितप्रभृतीनि पुरातनोपाख्यानानि कथयन्तीभिः प्रतिपादयन्तीभिः इतिहासान् महाभारतप्रभृतीन् वाचयन्तीभिः व्याख्यापयन्तीभिः पुस्तकानि दधतीभिः धारयन्तीभिः अनन्तर- व्याख्यापनायेत्याशयः । धर्मोपदेशान् निवेदयन्तीभिः बोधयन्तीभिः जरत्प्रव्रजिताभिः वृद्धसंन्यासिनीभिः विनोद्यमानां तैस्तैः यत्नः सन्तोष्यमाणाम् ।
उपारचितेति । उपारचितो विहितः स्त्रीवेशभारः योषित्तुल्यवस्त्रकेशपाशधारणादिवेशनिकरः येन
तब चन्द्रापीड विनयके साथ उठ कर, परिजनादिकों को साथ आनेसे रोक कर, केवल वैशम्पायनके साथ अन्तःपुरमें प्रवेश करने योग्य राज परिजनके बताये हुए मार्गसे रनिवासमें आ गया ।
चन्द्रापीडने रनिवासमें उपस्थित होकर माता विलासवती को प्रणाम किया । पहले क्षीरसागर की महातरङ्गोंने जिस प्रकार लक्ष्मी देवीको परिवेष्टित किया था, उसी प्रकार सफेद कञ्चुक (अङ्गरखाओं) से आच्छादित शरीरवाले एवं निर्दुष्ट स्वभाववाले कतिपय कञ्चुकीगण, महारानी विलासवतीको घेर कर खड़े थे । अत्यन्त शान्त आकृति वाली, जोगिये वस्त्र धारण करनेवाली एवं सन्ध्या के समान सब लोगोंके प्रणाम करने योग्य अधिकतर वृद्ध परिव्राजिकाएँ वहाँ उपस्थित थीं । उनके सुन्दर कान लम्बे थे । वे अनेक कथा-लौकिक वृत्तान्त और परस्पर आलाप करना जानती थीं । उन सबोंके बीचमें कोई-कोई प्राचीन समयकी पवित्र कथा कह कर, कोई-कोई महाभारतादि इतिहास ग्रन्थकी व्याख्या कर, कोई-कोई पुस्तकें लेकर, और कोई-कोई धर्मोपदेश सुना कर महारानी का मन बहला रही थीं । स्त्रियोंके वेष धारण कर एव अत्युज्ज्वल आभूषणों से भूषित होकर नपुंसक
१. परिजनेन । २. नैक ..। ३. . जलकल्लोलैः । ४. शुद्धान्तान्तर्वशिकैः । ५. ...कथावृत्तान्ताभिः । ६. श्रुतपूर्वाः । ७. क्वचित् 'पुण्याः' इत्यधिकः पाठो विद्यते । ८. वाचयन्तीभिरितिकासपुस्तकानि, ददती-भिर्धम्योपदेशान्, निवेदयन्तीभिः पुण्याः कथाः । ९. ...भापेण ।
चन्द्रापीडस्यमातृदर्शनम्० ३० ] [ चन्द्रकला-विद्योतिनीसहिता । १८८
संसेव्यमानाम्¹, अनवरत²-विधूयमान³-बालव्यजनकलापाम्, अङ्गनाजने च वसनाभरण-कुसुमपटवासताम्बूल-तालवृन्ताङ्गराग-भृङ्गार-धारिणा मण्डलोपविष्टेनोपास्यमानाम्; पयोधरान्तरावलम्बित⁴-मुक्तागुणाम्; अचलद्वय-मध्य-प्रवृत्तगङ्गा⁵-प्रवाहामिव मेदिनीम्; आसन्न-दर्पण-पतित-मुख-प्रतिबिम्बाम्, अर्क-बिम्बप्रविष्टशशिमण्डलामिव दिवं⁶ समुपसृत्य मातरं प्रणनाम⁷।
सा तु तं ससम्भ्रममुत्थाप्य सत्यप्याज्ञासम्पादनदक्षे पार्श्वपरिवर्त्तिनि परिजने स्वयमेव
तेन तादृशेन, तथा गृहीतं स्वीकृतं विकटम् अतिस्वच्छं प्रमाधनम् अलङ्करणक्रिया येन तेन, वर्षवरजनेन नपुंसकमण्डलेन संसेव्यमानां समुपास्यमानाम् । वर्षवरलक्षणं यथा कामन्दकीनीतिसारे—
'ये स्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः॥'
अनवरतेति—अनवरतं निरन्तरं विध्यमानः सेव्यकवर्गैः संवीज्यमानः बालव्यजनकलापः चामरनिकरो यस्यास्तां तादृशीम् ।
वसनेति । वसनानि वस्त्राणि आभरणानि भूषणानि कुसुमानि पुष्पाणि, पटवासान् रक्तचूर्णाद्विशेषान्, उक्तञ्चैतल्लक्षणं वराहेण—
'त्वगुशीरपत्रभागैः सूक्ष्मैलाद्वैर्न संयुक्तश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥'
ताम्बूलानि नागवल्लीदलानि तालवृन्तानि व्यजनानि 'व्यजनं तालवृन्तकम्' इत्यमरः, अङ्गरागान् कुङ्कुमश्रीखण्डादीन्, भृङ्गारान् सुवर्णकृतजलपात्रविशेषान् 'भृङ्गारः कनकालुकाः' इत्यमरः, एतांश्च धारयन्तीति तेन तादृशेन, मण्डलोपविष्टेन सर्वतो वर्त्तुलरुपेणासेदुषा, अङ्गनाजनेन परिचारिकावर्गेण उपास्यमानां सेव्यमानाम् ।
पयोधरेति । पयोधरयोः कुचयोः अन्तरे मध्ये अवलम्बितो लम्बायमानः मुक्तागुणः मौक्तिकदाम यस्यास्तां तादृशीम्, अत एव अचलद्वयमध्ये पर्वतद्वयान्तराले प्रवृत्तः प्रसृतः गङ्गाप्रवाहः भागीरथीधारा यस्यास्तां नयोक्तां मेदिनीं वसुन्धरामिव विद्यमानाम् ।
इह पर्वतयुगलेन सह अत्युच्चकुचयोज्ञस्य, भागीरथीप्रवाहेण मौक्तिकदाम्नाः, वसुंधरया च विलासवत्या औपम्यमित्युपमालङ्कारः पदार्थहेतुककाव्यलिङ्गालङ्कारेण सङ्कीर्यते ।
आसन्नेति । आसन्नः समीपाभिमुखस्थः दर्पणो मुकुरः तत्र पतितं मुखप्रतिबिम्बं यस्याः तां तादृशीम्, अत एव अर्कबिम्बे रविमण्डले प्रविष्टं समसूत्ररातन्यायेनाधो वर्त्तमानं शशिमण्डलं चन्द्रमण्डलं यस्यां तां दिवं गगनमिव विद्यमानाम् । अमावस्यायां नक्षत्रमण्डले समसूत्रपातन्यायेन रविमण्डलादधः शशिमण्डलं तिष्ठति । मातरं समुपसृत्य पार्श्वं समागत्य प्रणाम नमश्चक्रे । इह आदर्शस्य सूर्यबिम्बौपम्यम्, मुखस्य शशिमण्डलौपम्यम्, विलासवत्या अमावास्यौपम्यमिति पूर्ववदुपमालंकार एव ज्ञेयः ।
सेनेति । तुः पुनरर्थे । सा विलासवतीससम्भ्रमं शीघ्रम्, पादपतितं चन्द्रापीडम् उत्थाप्य, पार्श्वपरिवर्त्तिनि समीपस्थायिनि परिजने परिचारिकागणे आज्ञासंपादनदक्षे नियोगकरणभिज्ञे सत्यपि विद्यमानेऽपि
(हिजड़े), महारानी की सेवा करते थे। कुछ परिचारिकायें बराबर चामर डुला रहीं थीं। अन्यान्य परिचारिकायें कपड़े, गहने, फूल, पटवास (अबीर, अथवा जिससे वस्त्र सुगन्धित किया जाय), पान, तालवृन्तके पंखे, अङ्गलेपनके द्रव्य और झारियाँ लेकर, चारों ओर मण्डलाकारमे बैठ कर सेवा करती थीं। स्तनोंके बीचमें मुक्ताहार लटक रहा था, अत एव दो पर्वतोंके बीचमें बहने गङ्गाप्रवाहिते युक्त पृथिवीके समान वह देखने में आ रही थी। संमुखवर्त्ती एक दर्पण (ऐनक) में इसके मुखका प्रतिबिम्ब पड़ रहा था, जिससे सूर्यमण्डलमें चन्द्रमण्डलके प्रवेश करने पर आकाशके समान वह विराजमान थी।
महारानी विलासवतीने उस चन्द्रापीडको उठा कर आज्ञापालन करनेमें निपुण परिजनोंके पासमें रहने
¹ संसेव्यमानानाम् । ² '···भिव्रूयमान···'। ³ क्वचित् 'बाल' इति पदं नास्ति । ⁴ पयोधरविलम्बि···'पयोधरबिलम्बित··· । ⁵ अचलद्वयमध्यप्रवृत्तगङ्गा···, अचलद्वयप्रवृत्तगङ्गा···। ⁶ दिवमुत्सुसृत्य, दिवमिवैकं । ⁷ ननाम । ⁸ तु ससम्भ्रममुत्थाय ।
२६० कादम्बरी- [ कथायाम्-
कृतावतरणमङ्गला, १ प्रस्तुत२-पयोधर-क्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन निर्गच्छतेव३ हृदयेनान्तः शुभशतान्यभिध्यायन्ती४ मूर्द्धन्युपाघ्राय तं सुचिरमाश्लिषेत् ।
अनन्तरञ्च तथैव कृत्तयथोचितसमुपचारमाश्लिष्ट५-वैशम्पायना स्वयमुपविश्य विनयादवनिंतले समुपविशन्तम्६, आकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गेमारोपितवती ।
ससम्भ्रमं७-परिजनाेपनीतायामासन्द्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनः पुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत्—'वत्स ! कठिनहृदयस्ते पिता, येनेयमाकृतिरीदृशी८ त्रिभुवनलालनीया क्लेशमतिमहन्तमियन्तं कालं लम्मिता । कथमसि९ सोढवानतिदीर्घामां१० गुरुयन्त्रणाम् ?' अहो !
स्वयमेव आत्मनैव कृतं विहितम् अवतरणमङ्गलं यानावतरणसामयिकं धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणं यया सा तादृशी सती, प्रस्तुतौ सुनावलोकनेन क्षीरस्यन्दिनाव यौ पयोधरौ वक्षोजौ ताभ्यां क्षरतां निःसरतां पयोबिन्दूनां दुग्धकणानां छलेन व्याजेन द्रवीभूय तरलीभूय निर्गच्छतेव निर्यातेव, स्नेहाकुलेन प्रेमपूर्णेन हृदयेन चेतसा करणेन, अन्तर्मध्ये शुभशतानि राजपत्नस्य क्षेमाधिक्यम् अभिध्यायन्ती अभिचिन्तयन्ती, मूर्द्धनि मस्तके आघ्राय आघ्राणं ( चुम्बनं ) विधाय सुचिरं चिरसमयं तम् आश्लिषेप आलिलिङ्ग । इह 'निर्गच्छतेवे'ति अपह्नवसहितोत्प्रेक्षा ।
अनन्तरमिति । अनन्तरम् आश्लेषानन्तरम्, तथैव चन्द्रापीडवदेव कृतो विहितो यथोचितं यथायोग्यं समुपचारः अवतरणमङ्गलं चत्र क्रियायां तद्यथा स्यात्तथा आश्लिष्ट आलिङ्गितो वैशम्पायनो यया सा तादृशी विलासवती स्वयम् उपविश्य विनयात् नम्रात् अवनितले भूतले समुपविशन्तम् आसेदिवांसम् अनिच्छन्तमपि अतिशैक्षवेन बालकवत्क्रोडेमारोढुमनभिलषन्तमपि चन्द्रापीडं वलात् हठात् आकृष्य आकर्षणं कृत्वा उत्सङ्गं क्रोडम् आरोपितवती आरोपयामास, जननी वात्सल्यस्यालौकिकत्वादित्याशयः ।
ससम्भ्रमेति । ससम्भ्रमेण शीघ्रतापरेण परिजनेन परिचारिकावर्गेण उपनीतायाम् उपस्थापितायाम् । सासन्द्यां वेत्रासने—
'वेत्रासनमासन्दी स्त्री नृपी प्रतिकासन्नम्।'
इति रामाश्रमी । वैशम्पायने च उपविष्टे निषण्णे सति चन्द्रापीडं पुनः पुनः भूयो भूयः आलिङ्ग्य आश्लिष्य ललाटदेशे भालप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोः मुहुर्मुहुः वारंवारं करतलेन स्वहस्ततलेन परामृशन्ती आमर्शशं विदधती सती विलासवती तम् अवादीद् अवोचद् ।
वत्सेति । वत्स हे पुत्र !, ते तव पिता कठिनहृदयः कठोरचित्तः येन हेतुना ईदृशीयम् आकृतिः आकारः त्रिभुवनलालनीया त्रिविष्टपनिवासिभिरेव लोकैः प्रेम्णैव समीपे पालनीया, अत्यन्तमृदुलललितत्वादित्याशयः । अतिमहन्तम् अतिदीर्घम् इयन्तं कालम् एतावत्प्रमासमयम् क्लेशं खेदं लम्भिता प्रापिना अतिदीर्घाम् अतिमहासमयव्यापिनीम् इमां गुरुयन्त्रणां पाठशालायां पाठकगगकर्तृकावरोधक्लेशनम्, कथं
पर मो अपनेते ही उसके नवागमनका मङ्गलचार ( उतारा ) किया । उस समय स्तनों में से रिसती दूधकी बूँदोंके बहानेसे महारानीका हृदय मानों तरल होकर बाहर निकल रहा था, महारानीने उस हृदयसे चन्द्रापीडका सैकड़ों मङ्गलों का चिन्तन करती हुई, उसके मस्तकको सूँघ कर बहुत देर तक उसका आलिङ्गन किया ।
उसके बाद उसी भावसे ही यथोचित मङ्गलचारपूर्वक वैशम्पायनका भी आलिङ्गन कर स्वयं बैठी । चन्द्रापीड भी विनयवश पृथिवी पर ही बैठना चाहता था, किन्तु बैठनेकी इच्छा न होने पर भी महारानीने बलपूर्वक उसे खींच कर अपनी गोदमें बैठा लिया ।
इधर दासियोंने शीघ्रतासे एक बेंतकी कुरसी ला दी, उस पर वैशम्पायन बैठ गया । बाद में महारानी विलासवती चन्द्रापीडको बार-बार छाती से लगा कर, ललाट, छाती और कन्धों पर बारन्बार हाथ फेरती हुई कहने लगी—'वत्स ! तुम्हारे पिताका हृदय कठोर है; क्यों कि उन्होंने ऐसी त्रिभुवन-लालनीय आकृति एवं रूपको इतने समय तक ऐसा बड़ा क्लेश सहन कराया । तुम कैसे इतने अधिक समय तक गुरुओं (शिक्षकों) का
१. कृतावतारणका । २. ‘’’प्रस्तुत’’’, अपस्तुत’’’ । ३. निर्गतेव । ४. शतानांव ध्यायन्ती, शतानीवाभिध्यायन्ती । ५. समुपचाराश्लिष्ट’’’ । ६. समुपविशन्तमाकृष्य । ७. ससन्त्रनं । ८. ईदृश’’’ ९. कथमपि । १० गुरुजनयन्त्रणाम् ।
शुकनासनोर्मादर्शनवर्णना-३१ ] [ चन्द्रकला-विद्योतिनीसहिता २९१
बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो ! विगत¹-शिशुजन-क्रीडा-कौतुक-लाघव-नर्मकस्यापि² ते हृदयम् । अहो ! गुरुजनस्योपरि भक्तिरसाधारणी³ सर्वथा⁴ । यथा पितुः प्रसादात् समस्ताभिरुपेतो विद्याभिरालोकि⁵तोऽसि, एवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेनमालोकयिष्यामि' इत्येवमभिधाय लज्जास्मितावनतमात्ममुखप्रतिबिम्बगर्भं विकच-कमलकृत-कर्णपल्लवावतंस इव कपोले पर्यचुम्बदेनम् । एवञ्च तत्रापि नातिचिरमेवं स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेन नन्दयामास⁷ । निर्गत्य च राजकुलद्वारावस्थितम्⁸ इन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं द्रष्टुमयासीत् ।
केन प्रकारेण सोढवानसि नर्पणशीलो जातः ?। आश्चर्यं चेह अहोशब्दत्रयम् । बालस्यापि शिशोरपि ते तव कठोरस्येव परिपक्वावस्थायुक्तलोकस्येव महद्धैर्यम् । अर्मकस्यापि बालकस्यापि ते तव हृदयं चित्तम्, विगतं दूरीभूतं शिशुजना बालकवर्गाः तेषु क्रीडाकौतुकं समुचितखेलाकौतूहलं तेन लाघवं लघुत्वं चापलं यस्मात्तत्तथोक्तम् । गुरुवस्य शिक्षकवर्गस्य पूज्यवर्गस्य वा उपरि सर्वथा असाधारणी असामान्यी सर्वाधिकेत्यर्थः भक्तिः सादरपूर्वकावलोकनम् । अन्येयन्तं कालं यावत् विद्यालये गुरुयन्त्रणां न सहेयुः अनेन प्रकारेण विनयप्रणामादिकञ्च न कुर्य्या इत्याशयः । यथा पितुर्जनकस्य प्रसादात् माहात्म्यात् समस्ताभिः सकलाभिः विद्याभिः आन्वीक्षिकीप्रभृतिभिः उपेतः सहित आलोकितोऽसि वीक्षितोऽसि, एवं तथा पितुः प्रसादेनैव अचिरेण कालेन स्वल्पेन समयेन अनुरूपामिः योग्याभिः वधूभिः स्नुषाभिः उपेतं सहितम् आलोकयिष्यामि निरीक्षिष्ये ।
इतीति । इत्येवम् अनेन प्रकारेण अभिधाय उक्त्वा, लज्जास्मितेन त्रपायुद्भासेन अवनतं शिशुवाच्यत्वेन वधूनामाकर्णनाद् स्मितं विधाय त्रपया नम्रवदनमित्यर्थः, एनं चन्द्रापीडम्, आत्मनो निजस्य मुखस्य वदनस्य प्रतिबिम्बं गर्भे मध्ये यस्य तस्मिन् तादृशे, चन्द्रापीडस्य निर्मलगण्डस्य निकटे निजमुखनयनादित्येवार्थः, अतएव विकचकमलेन विकसितपङ्कजेन कृतो विहितः कर्णपल्लवः श्रवणकिसलयानामेव अवतंसः कर्णभूषणं यत्र तथोक्त इव कर्णनपीकृतकमलसहिते इव विद्यमाने इत्यर्थः कपोले गण्डे पर्यचुम्बद् चुम्बनं विहितवती विलासवतीति शेषः ।
इह प्रस्तुतिपदपदेन कर्णानूपकरणस्योत्प्रेक्षणात् क्रियोत्प्रेक्षा सा च पदार्थाहेतुककाव्यलिङ्गालङ्कारेण सङ्कीर्यते । अतएव हि विलासवतीवदनस्य विकचकमलसादृश्यं ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः ।
एवञ्चेति । एवं पूर्वोक्तप्रकारेण तत्रापि मातुरन्तिकेऽपि नातिचिरमेव किञ्चित्कालमेवेत्यर्थः, स्थित्वा अवस्थानं विधाय क्रमेण आनुपूर्व्येण सर्वान्तःपुराणि समन्ता दवरोधस्थाः स्त्रियः दर्शनेन अवलोकनेन नन्दयामास प्रमोदंयामास । निर्गत्य निष्क्रम्य च राजकुलद्वारावस्थितं राजभवनप्रतोलीमार्गसंस्थन् इन्द्रायुधम् अश्वम् आरुह्य तत्रेोपविश्येत्यर्थः, तथैव पूर्ववदेव तेन पूर्वोक्तेन राजपुत्रलोकेन नृपात्मजवर्गेण अनुगम्यमानः अनुव्रज्यमानः शुकनासं प्रधानामात्यं द्रष्टुम् अवलोकयितुम् अयासीत् आजगाम्द ।
नियन्त्रणा सहन किये हो ? कितना आश्चर्य ? बालक होने पर भी पूर्ववयस्क व्यक्तिके समान तुम्हारे सुन्दर धैर्यको देखती हूँ । विशेष आश्चर्य तो यह है कि—बालक होने पर भी—तुम्हारे हृदयसे शिशुजनोचित क्रीडा-कौतुककी चपलता दूर हो गई है । और भी आश्चर्यका विषय यह है कि—गुरुजनों पर सब प्रकारसे तुम्हारी असाधारण भक्ति देखती हूँ । तुम्हारे पिताके प्रसादसे सर्वथा आज मैं तुमको जिस प्रकार समस्त विद्यासे परिपूर्ण देख रही हूँ, इसी प्रकार थोड़े समयके अनन्तर ही अनुरूप बहुओं-सहित देखूँगी।' विलासवतीके इतना कहने पर चन्द्रापीडने लज्जा और मुस्कुराहटके साथ (कारण) अपने मुखको नीचे झुका लिया, उस समय विलासवतींने उसके गाल पर चुम्बन किया, तब विलासवतीके मुखका प्रतिबिम्ब चन्द्रापीडके गाल पर गिरनेसे इस प्रकार प्रतीत होने लगा मानो, खिले कमलके द्वारा उस पर कानका आभूषण बनाया गया हो । इस प्रकार वहाँ पर भी अधिक समय तक न रह कर चन्द्रापीडने अन्तःपुरमें रहनेवाली समस्त स्त्रियोंको क्रमशः दर्शन देकर आनन्दित किया। फिर वहाँ से बाहर आकर, राजभवनके दरवाजेके समीप खड़े इन्द्रायुध पर बैठ, पहलेके अनुसार ही, उस समस्त राजपुत्रोंके साथ, शुकनाससे मिलनेके लिए गया।
१. विगलित० । २. अर्मकस्ये त्यपि, अर्मकस्येवेति वै, अर्मक वेति । ३. असाधारणा । ४. सर्व्वा । ५. अवलोकिते । ६. अत्र कचित्पुस्तके 'इव' कारो न दृश्यते । ७. दर्शनेनानन्दयामास । ८. राजकुलद्वाराद्बहिः स्थितम् ।
| २६२ | कादम्बरी- | [ कथायाम्- |
|---|
यामावस्थित-विविध-गज-घटा^१-सङ्कटम्, अनेक-तुरङ्ग-सहस्र-सम्बाधम्, अपरिमित-जन-समूह-सम्मर्द^२-सङ्कुलम्, एकदेशोपविष्टैः सहस्रशो निबद्धचक्रवालैरनेककार्य्यागतैर्दर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितबुद्धिलोचनैः^३ चीवरच्छद्मना^४ विनयानुरागिभिर्धर्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेयैः, रक्तपटैः^५ पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानाञ्च सामन्तानां जघनोपविष्ट-पुरुषोत्सङ्ग-स्थितद्विगुणित-कुथाभिः^७ अतिचिरावस्थान-निर्वेद-प्रसुप्ताधोरणा^८भिरपर्य्याणाभिः सपर्य्याणाभिश्च निश्चलाव-
दानेति। यामावस्थिताः प्रतिप्रहरं परिवृत्य परिवृत्य स्थिता ये गजा हस्तिनः तेषां घटया समूहेन संकटम् आकुलम्। इत आरभ्य नपुंसकलिङ्गानि द्वितीयान्तानि पदानि अग्रेतनस्य 'शुकनासगृहद्वारम्' इत्यस्य विशेषणानि। अनेकैः बहुभिः तुरङ्गसहस्रैः घोटकनिकरैः सम्बाधं सङ्कीर्णम्।
'सङ्कटं ना तु संबाधः कलिलं गहनं समे।
सङ्कीर्णं सङ्कुलाकीर्णे.....................
इत्यमरः। अपरिमितः असंख्येया ये जना लोकाः तेषां समूहस्य सङ्घस्य सम्मर्देन परस्पराघातेन सङ्कुलं व्याप्तम्।
एकदेशेति। एकदेशे एकस्मिन् भागे उपविष्टैः निषण्णैः सहस्रशो बहूनि निबद्धानि कृतानि चक्रवालानि मण्डलानि वर्त्तुलरूपेणावस्थानानि यैस्तैः तादृशैः, अनेककार्य्यागतैः पृथक् पृथक् उद्देशेनोपस्थितैः दर्शनोत्सुकैः अवलोकनायोत्कण्ठितैः शुकनालसाक्षात्कारेच्छाकारिभिरित्यर्थः समन्ततः चतुर्दिक्षु सर्वविषयेष्वित्यर्थः, विविधानि अनेकप्रकाराणि शास्त्राण्येव अञ्जनानि कज्जलानि तैरुन्मीलितानि विकासं प्रापितानि बुद्धयो-मतय एव लोचनानि नयनानि येषां तैस्तादृशैः। चीवराणि बौद्धभिक्षुप्रावरणानि छद्मना कपटेन, विनये धर्मशिक्षायाम् अनुराग एव अनुरागः रञ्जनद्रव्यं विद्यते येषां तैस्तथोक्तैः धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धव्यवहारसिद्धवस्त्रविशेषैरिव, धर्मपटाश्च येषु पटेषु धर्मशासनान्युल्लिख्य अन्तेवासिभ्यः प्रदर्श्यन्ते ते बोध्याः। अवगुण्ठितैरिव आच्छादितशरीरैरिव विद्यमानैः। शाक्यमुनेः शाक्यसिंहस्य अर्कबान्धव-वतपस्विनः शासनपथे उपदिष्टधर्मविषये धौरेयाः धुरन्धराः अग्रगण्याः तैस्तादृशैः, रक्तपटैः रक्तवस्त्रधारिभिः, पाशुपतैः महेश्वराराधकैः द्विजैर्विप्रैश्च दिवानिशम् अहोरात्रम् आसेव्यमानं शुकनासप्रेम्णोपास्यमानम्।
इह 'विविधशास्त्राञ्जनेत्यादौ शास्त्रेष्वञ्जनत्वारोपस्य बुद्धिषु नेत्रत्वारोपं प्रति कारणत्वात् परम्परित-रूपकमलङ्कारः। 'धर्मपटैरिव' इत्यत्र हि बौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते। अर्थात् चीवराणां तु व्याजो वर्त्तते, वस्तुतस्तु धर्मपटैरेव ते आवृत्ताः। अनुराग इति श्लिष्टम्, ततश्च श्लेषो-त्थापिता सापह्रवा क्रियोत्प्रेक्षालङ्कारः।
अभ्यन्तरेति। क्लिन्नेति चार्थः। अभ्यन्तरप्रविष्टानां निजनिजकार्यसम्पादनाय अभ्यन्तरे शुकनासा-न्तिकं प्राप्तानां सामन्तानां स्वदेशपार्श्ववर्त्तिभूपतीनां शतसहस्रशः 'करिणीभिः' इति वक्ष्यमाणेनान्वयः। जघनेषु तासां हस्तिनीनां कट्या अग्रिमप्रदेशेषु उपविष्टानां निषण्णानां पुरुषाणां तत्तत्सामन्तपरिचारक-जनानाम् उत्सङ्गेषु क्रोडेषु विद्यमाना द्विगुणिताः आरोहिसामन्तानामवतरणानन्तरमेव अपसार्य द्विगुण-भागे सङ्कोचिताः कुथाः पृष्ठास्तरणानि यासां ताभिः तादृशीभिः। अतिचिरं सामन्तानां विलम्बमधिकं
क्रमसे शुकनासके भवनके दरवाजे पर जाकर उपस्थित हुआ। वह दरवाजा प्रत्येक प्रहरमें परिवर्तित अनेक प्रकारके हाथियोंसे व्याप्त था, एवं अधिकतर घोड़ोंसे परिपूर्ण और अगणित मनुष्योंके सङ्घर्षसे दुर्गम था। उसके एक भागमें शाक्यसिंहके उपदेश मार्गमें अग्रगण्य अधिकतर बौद्ध संन्यासी एवं रक्तवस्त्रधारी शिवो-पासक ब्राह्मण, चारों ओर हजारों मण्डल बनाकर दिन-रात बैठे रहते थे। वे अपने भिन्न-भिन्न कार्योंके लिए आए हुए थे, एवं सब लोग शुकनासका दर्शन करनेके लिये उत्सुक थे। विविध शास्त्ररूप कज्जलने, सभी विषयोंमें ही उन लोगोंके ज्ञान-नेत्रको उन्मीलित किया था। और बौद्ध संन्यासीगण कौपीन (लङ्गोटी) धारण करनेके बहाने, धर्मशिक्षा द्वारा धर्ममें अनुरागरूप रञ्जन द्रव्यसे रँगे हुए धर्मपटसे मानो, शरीरको आच्छादित
१. ॰॰॰गन्यगज॰॰॰ ।
२. ॰॰॰समूहसङ्घट्टसम्मदं॰॰॰ ।
३. उन्मीलितप्रतिमैः।
४. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः।
५. रक्तपादैः।
६. स्थानोपविष्टपुरुषावस्थित।
७. संग्रथितद्विगुणकुथाभिः।
८. धोरणाभिः सपर्य्याणाभिः।
शुकनासमनोमादर्शन०-३१ ] चन्द्रकला-विद्योतिनीसहिता । २९३
स्थानप्रचलायिताभिः शतसहस्रशः करिणीभिराकीर्णम्, शुकनास-गृहद्वारमासाद्य, सत्वर-प्रधावितैर्द्वारदेशावस्थितैः प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गणे एव तुरङ्गान् अवततार । द्वारदेशावस्थापित-तुरङ्गत्व वैशम्पायनमवलम्ब्य पुरः प्रधावितैः समुत्सारित-परिजने-स्तत्प्रतीहार-मण्डलैरुपदिश्यमानमार्गः, तथैव चलितमुकुटकोटिभिर्नरेन्द्रवृन्दैः सेवासमुपस्थि-तैरुत्थाय प्रणम्यमानः तथैव च प्रचण्ड-प्रतीहार-हुङ्कार-भय-मूकीभवत्परिजनानि प्रचलित-
सभयम् अवस्याननेन अवस्थित्या यो निर्वेदः खेदः तेन प्रसुप्ता निद्रां प्राप्ता आधोरणा हस्त्यारोहा यासां ताभिस्तादृशीभिः ।
'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' । इत्यमरः ।
अपर्यागाभिः पृथक्कृतपल्ययनाभिः, सपर्यागाभिः, प्राग्वदेव पल्ययनसहिताभिश्च निश्चलावस्थानेन निष्क्रियत्वेनावस्थित्या प्रचलायिताभिः निद्रावेशेन घूर्णिताभिः 'घूर्णिनं प्रचलायितम्' इत्यमरः, करिणीभिः हस्तिनीभिः आकीर्णं सङ्कुलम् ।
सत्वरेति । सत्वरप्रधावितैः सम्भ्रान्तोपस्थितजनदूरीकरणाय शीघ्रं पुरोगतैः, द्वारदेशावस्थितैः प्रतोली-देशे विद्यमानैः प्रतीहारपुरुषैः द्वारपालजनैः अनिवार्यमाणोऽपि राजपुत्रः चन्द्रापीडः राजकुल इव राज-भवन इव बाह्याङ्गण एव भवनाद्बहिंश्चत्वर एव । कस्यापि भवने सवाहनप्रवेशस्यानुचितत्वादित्याशयः ।
द्वारेति । अपि च द्वारदेशे प्रतोल्याम् अवस्थापितः रक्षितः तुरङ्गः अश्वो येन स तादृशो राजपुत्रः, वैशम्पायनं शुकनासत्मजम् अवलम्ब्य आलम्ब्य पुरः प्रधावितैः अग्रतो द्रुतप्रचलितैः समुत्सारितपरि-जनैः सम्मुखावनागां दूरीकृतसमन्तादागतपरिचारकैः तत्प्रतीहारमण्डलैः तद्द्वारपालगणैः उपदिश्यमान-मार्गः प्रदर्श्यमानपथः ।
तथैवेति । तथैव यथा राजभवने तथैवेत्यर्थः । चलिताः शिरोऽवनमनसमये कम्पिताः मुकुटानां शिरोभूषणानां कोटयः अग्रभागा येषां तैस्तादृशैः, सेवासमुपस्थितैः शुकनाससन्तोषाय प्राप्तैः, नरेन्द्रवृन्दैः राजमण्डलैः उत्थाय उत्थाय पुनःपुनरुत्थानं विधायेत्यर्थः प्रणम्यमानः नमस्क्रियमाणः ।
तथैवेति । प्रचण्डो भीषणो यः प्रतीहारहुङ्कारः द्वारपालोपसारणसूचकशब्दः तेन यद्भयं कोलाहलेन राजपुत्रत्रासः तेन मूकीभवन्तः मौनतां समाश्रयन्तः परिजनाः परिचारिका येषु तानि तादृशानि । तथा प्रचलिताः प्रतीहारगणैः धृता या वेत्रलता वेतसयष्टयः ताभिः चकितं शङ्कितं यन्मामन्तचक्रं स्वायत्तः राजमण्डलं तस्य चरणशतेन पादन्याससमूहेन चलिता कम्पिता वसुन्धरा पृथ्वी येषु तानि तादृशानि-कक्षान्तराणि भिक्षान् भिक्षान् प्रकोष्ठान् निरीक्षमाणः समवलोकयन् ।
किये थे। छोटे-छोटे अधीन राजा लोग शुकनासका दर्शन करनेके लिये अन्दर में प्रवेश किये थे, उनका वह दरवाजा लाखों हथिनियोंसे भरा हुआ था। वे बहुत देर तक निश्चलभावसे खड़े रहनेके कारण निद्राके आवेशमें घूमतीं रहतीं थीं। उन सबोंके बीचमें अनेक हथिनियोंको ऊपर से पल्ययन (जीन) समेट कर रख लिया गया था, एवं कितने के ऊपर पल्ययन (जीन) पहिलेकी तरह फैलाया हुआ ही रखा हुआ था। और उन गजारोके परिचारक गण उन हथिनियोंके बदन पर बैठकर, उनके पीठपर बिछाये हुए दोहरी लपेटी सूकडी गोदमें रख दिये थे; एवं बहुत देर तक राह देखनेसे थक कर उनके महावत निद्रावश हो गये थे। चन्द्रापीडको वहाँ उपस्थित होने पर दरवाजेके पास खड़े द्वारपालगण आगे आगे शीघ्रतासे जाने लगे, किन्तु किसीने द्वारा चन्द्रापीड को घोड़ेके साथ प्रवेश करने में निषेध (रुकावट) न करने पर भी वह राजभवनके समान बाहरके आँगनमें ही घोड़े से उतर पड़ा।
बाद में दरवाजे के पास घोड़ेको खड़ा कर वैशम्पायनका हाथ पकड़ कर प्रवेश करने लगा। उस समय भवनके द्वारपालगण, चारों ओरसे आये हुए लोगोंको रास्तेसे हटाते आगे आगे मार्ग बता कर ले जाने लगे। शुकनासके सन्तोषके लिए आये हुए सामन्तलोग राजा लोग पहलेके अनुसार ही उठ उठ कर प्रणाम करने लगे, उस समय उन लोगोंके मुकुटों अग्रभाग कम्पित होते था। चन्द्रापीड देखते देखते उनके अनुसार ही एक एक बीचके अन्दाम चौकोंमें जाने लगा। उन सभी जगहोंमें द्वारपालोंके प्रचण्ड हुंकारके भयसे परिजन्द्रां चुप
१. वल्गाभिः । २. तुरगात् । ३. अवततार । ४. तथैव च प्रतीहार 'दपि च प्रतीहार' । ५. क्वचिद् पुस्तके 'च' इत्यधिकः पाठो नोपलभ्यते ।
| २६४ | कादम्बरी- | [ कथायाम्- |
|---|
वेत्रलता-चकित^१-सामन्त-चक्र-चरण-शत-चलित-वसुन्धराणि कक्षान्तराणि निरीक्षमाणः, तथैव च^२ नव-नव-सुधावदात-प्रासाद-सहस्र-निरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश। प्रविश्य चानेक-नरेन्द्र-सहस्रमध्योपविष्टम्^४ अपरमिव पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे।
शुकनासस्तं ससम्भ्रममुत्थाय^५ आनुपूर्व्येण उत्थित-राजलोकैः सादरमभिमुखदत्तावि-रलपदः प्रहर्ष^८-विस्फारितलोचनागतानन्द^९-जलकणः सह^८ वैशम्पायनेन प्रेम्णा गाढमालिङ्गि। आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपविशत्, तदनु
तथैवेति। नवनवा नूतनाः सुधावदाताः चूर्णादिलेपैरूज्ज्वलाः प्रासादाः अट्टालिकाः तेषां सहस्रेण समूहेन निरन्तरं निरवकाशं व्याप्तम्, अत एव द्वितीयं राजकुलं राजभवनमिव विद्यमानं शुकनासभवनं विवेश प्रविष्टवान्। इह 'राजकुलमिव' इति द्रव्योत्प्रेक्षा।
प्रविश्येति। उपदर्शितः प्रकटितो विनयो नम्रता येन स तादृशः, अनेके बहवो ये नरेन्द्राः सामन्ताः तेषां सहस्राणि समूहाः तेषां मध्ये उपविष्टं संनिषण्णम् अत एव अपरम् अन्यं पितरं तारापीडमिव विद्य-मानम्, तथापि तथैव नरेन्द्रसहस्रमध्योपवेशनादित्याशयः। दूराद्विष्ठादेव अवनतेन नम्रीभूतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे। इहाप्युत्प्रेक्षालङ्कारः।
शुकनास इति। ससम्भ्रमं शीघ्रं तं चन्द्रापीडम् उत्थाय आनुपूर्व्येण यथाक्रमानुसारेण उत्थितः राजलोको भूपमण्डलं यस्मात् स तादृशः, अभिमुखे चन्द्रापीडसम्मुखे दत्तानि विहितानि अविरलानि सान्द्राणि पदानि पादक्षेपा येन स तादृशः दूरादेव तेन कृतप्रणामत्वादित्याशयः, तया प्रहर्षेण अतिप्रमो-देन विस्फारितयोः विस्तारितयोः लोचनयोर्नयनयोः आगता आयाता आनन्दजलकणाः प्रमोदाश्रुविन्दवो यस्य स तादृशः शुकनासः प्रेम्णा स्नेहातिशयेन वैशम्पायनेन निजात्मजेन सह तं चन्द्रापीडं सादरम् आदरेण सहितं यथा स्यात्तथा गाढं सान्द्रम् आलिङ्ग उपगूहनं चक्रे।
आलिङ्गितेति। प्रथमम् आलिङ्गितः आश्लिष्टः पश्चात् उन्मुक्तः परित्यक्तश्चेति स तादृशो राजपुत्रो नृपात्मजः सादरोपनीतम् आदरेण आनीतं रत्नासनं मणिविष्टरम् अवनौ भूमावेव अपहाय परित्यज्य समुपविशत् समुपविष्टवान्। तदनु तत्पश्चाद्भागे वैशम्पायनश्च समुपायविशदिति सम्बन्धः। शुकनासस्य प्रधानामात्यत्वे सत्यपि विप्रत्वेन पितृवयस्यत्वेन पितृस्थानीयत्वेन च तत्समीपे चन्द्रापीडस्य विष्टरोपवेशन-मनुचितम्, वैशम्पायनस्य तु जनकत्वेन तत्समीपे विष्ट्रोपादानस्य नितान्तमेवानुचितत्वादवनावेवोपवे-शनमित्याशयः।
होकर रहने लगे, एवं बेंतकी छड़ियोंके सञ्चालन होते रहनेसे सामन्तराजगण चकित होकर सरकने लगे, उन लोगोंके सैकड़ों चरण पड़नेसे वह स्थान कम्पित होने लगा। क्रमसे चन्द्रापीडने पहलेकी भाँति ही दूसरे राजभवनके समान शुकनासके भवनमें प्रवेश किया; वह भवन, नई सफेदी किए जानेके कारण श्वेतवर्ण महलोंसे परिपूर्ण था। प्रवेश करके अनेक सहस्र राजाओंके बीचमें बैठे हुए द्वितीय पिताके समान, शुकनासको उसने विनयप्रदर्शनपूर्वक दूरसे ही मस्तक नवाकर प्रणाम किया।
उस समय शुकनास शीघ्रतासे उठ खड़े हुए, बाद सब राजा लोग यथाक्रम खड़े हो गये। उस समय शुकनासने चन्द्रापीडके सम्मुख आदरसे कितने ही कदम आगे आकर आनन्दसे प्रफुल्लित लोचनोंमें भरे आनन्दा-श्रुसहित चन्द्रापीडका और वैशम्पायनका स्नेहयुक्त गाढ़ आलिङ्गन किया। मिलकर पृथक् होने पर किसी सेवक ने आदरके साथ एक रत्नासन ला दिया, चन्द्रापीड उसको छोड़कर भूमि पर ही बैठा, और वैशम्पायन भी उसके पीछे वैसे ही बैठा। चन्द्रापीड पृथिवीमें बैठने पर, शुकनासके अतिरिक्त अन्य सब नरेन्द्र भी अपने-अपने
१. त्रासनचकित। २. क्वचित् 'तथैव नव' इत्यावेव पाठो दृश्यते। ३. क्वचित् 'सहस्र' इति पदं न विद्यते। ४. ...उपस्थितम्। ५. समुत्थाय। ६. ...पूर्वेण। ७. ...लोकैः। ८. संहर्षं...। ९. ...विलोचन...। १०. समन्।
शुकनासमनोरमादर्शन० ३१ ] चन्द्रकला-विद्योतिनीसहिता । २६५
च वैशम्पायनः । उपविष्टे¹ च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजा- सनमवनितलमभजत । स्थित्वा च तूष्णीं क्षणमिव² शुकनासः समुद्गतप्रीतिपुलकैरङ्गैरावे- द्यमान-हृदय-हर्ष-प्रकर्षस्तमब्रवीत्—
'तात ! चन्द्रापीड !⁴ अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढयौवनमा- लोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अद्य समृद्धाः सर्वा गुरुजनाशिषः, अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म्म, अद्य प्रसन्नाः कुलदेवताः, न ह्यपुण्यभाजां⁵ भवादृशास्त्रिभुवन-विस्मयजनकाः⁷ पुत्रतां प्रतिपद्यन्ते । क्वेवं वयः, क्वेयमानुषी शक्तिः क
उपविष्ट इति । उपविष्टे उपवेशनं कृतवति राजपुत्रे चन्द्रापीडे शुकनासवर्जं केवलं शुकनासं परित्यज्य अन्यत् अखिलं समस्तम् अवनिपालचक्रं नरेन्द्रमण्डलम् उज्झितनिजासनं परित्यक्तस्वस्वविष्टरं सत्, अवनितलम् अभजत भूमावेव प्रोपाविशदित्यर्थः । शुकनासस्य सचिवत्वेऽपि विप्रतया पितृसखत्वेन पितृस्थानीयतया च चन्द्रापीडेन भूमावुपवेशने कृतेप्यासनेापवेशनमेव युक्तम्, अवनिपालचक्राणां तु चक्रवर्त्तिसुते भूतलेोपविष्टे विष्टरोपवेशनस्य नितान्तमेवानुचितत्वाद् भूतल एवोपवेशनमुचितमित्याशयः ।
स्थित्वेति । क्षणमिव क्षणमात्रं तूष्णीं मौनं स्थित्वा समुद्गताः प्रादुर्भूताः प्रीत्या आनन्देन पुलका रोमाञ्चा येषु तैस्तादृशैः अङ्गैः आवेद्यमानः प्रत्याय्यमानः हृदयस्य चित्तस्य हर्षप्रकर्षः प्रमोदातिरेको यस्य स तादृशः, शुकनासः, तं राजपुत्रम् अब्रवीत् अवोचत्—
तातेति । हे तात ! सुतस्थानीयं ‘पूज्ये पितरि पुत्रे च तातशब्दः स्मृतो बुधैः’ इति केशवः । अद्य अस्मिन् दिने समाप्तविद्यं परिपूर्णकृतविद्यम् उपारूढयौवनम् उत्पन्नतारुण्यं भवन्तं त्वाम् आलोक्य निरीक्ष्य देवस्य तारापीडस्य सुचिरात् चिरकालेन भुवनराज्यस्य समस्तभूमण्डलराज्यस्य यत्फलं निःसीमप्रेम तस्य प्राप्तिर्लाभः उपजाता प्रादुर्भूता, भवत उत्पत्तेः पूर्वं सन्तानाभावजनितं उत्पन्ने च त्वयि परिपूर्णविद्यायाः पूर्वं गुणवत्सन्तानाभावजनितः क्लेश आसीदित्याशयः ।
अद्येति । अद्य गुरुजनानां पूज्यमहानुभावानां सर्वा निखिला आशिषः आशीर्वादाः समृद्धाः सम्पूर्णाः सार्थका इत्यर्थः । अनेकजन्मान्तरोपात्तम् अनेकभवार्जितम् अवदातं स्वच्छं कर्म पुण्यकार्यमित्यर्थः । कुलदेवताः कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । नन्वेवंविधस्य ममोत्पन्नत्वेनैव जन्मान्तरीयम् अवदातं कर्म कथं फलितम् ! इत्याकाङ्क्षायामाह—नहीति । हि यतः अपुण्यभाजां पापवतां (कुले) भवादृशाः भवत्सदृशाः त्रिभुवनस्य लोकत्रयस्य विस्मयजनकाः आश्चर्योत्पादकाः पुत्रताम् आत्मजत्वं न प्रतिपद्यन्ते भजन्ते । इह वैधम्र्येण हेतुना कार्यसमर्थनरूपोऽर्थान्तरन्यासः ।
क्वेति । इदम् अभिनवतारुण्यरूपम् अत्यल्पमित्यर्थः वयोध्वस्था छ, इयं पुरो दृश्यमाना अमानुषी मनुष्यलोकेऽसम्भवा शक्तिः शारीरिकसामर्थ्यं छ, इदम् अशेषविद्याग्रहणसामर्थ्यं समस्तविद्याधारणशक्तिश्च छ । मनुष्यलोके एवंविधायाम् अत्यल्पावस्थायां न खल्वन्यस्य कस्यापि एवंविधासामामान्यशारीरिकशक्तिः सकलविद्याभ्यासशक्तिश्च भवेदित्याशयः ।
आसन छोड़ पृथिवी पर ही बैठे। उस समय अत्यन्त आनन्दवश शुकनासके समस्त शरीरमें रोमाञ्च उत्पन्न हो गया, इससे उसके मनमें भी जो अत्यन्त आनन्द उत्पन्न हुआ था, वह प्रकाश होने लगा । इस प्रकार शुकनास थोड़ी देर चुप रह कर राजपुत्रसे कहने लगा—
'वत्स चन्द्रापीड ! तुम्हारी सब विद्याओंकी शिक्षा समाप्त हो गई है एवं यौवनकाल उपस्थित हो गया है—इस रूपमें तुझे देख कर, आज महाराज तारापीडको बहुत कालके बाद भुवन-राज्यका फल प्राप्त हुआ है । आज गुरुजनोंके सब आशीर्वाद सफल हुए, आज अनेक जन्मान्तरमें किए हुए अच्छे कर्मोंका फल मिला है और कुल-देवता प्रसन्न हो गए हैं; क्योंकि तुम्हारे समान त्रिभुवनको विस्मय उत्पन्न करनेवाले व्यक्ति अपुण्यवान् व्यक्तियोंका पुत्रत्व स्वीकार नहीं करते हैं । यह नवीन अवस्था ही कहाँ ? और यह अमानुषी दैहिक शक्ति ही कहाँ ? एवं
१. समुपविष्टे ।
२. क्षणमपि ।
३. आवेद्यमानहर्षं०…।
४. क्वचित् 'तात ! अद्य' इत्येव पाठो दृश्यते ।
५. यत्पुण्यभाजां ।
६. सकलत्रिभुवन ०।
७. विस्मयहेतवः ।
| २६६ | कादम्बरी- | [ कथायाम्- |
|---|
चेदमशेष-विद्याग्रहणसामर्थ्यम् ? अहो ! धन्याः प्रजाः, यासां भरतभगीरथप्रतिमो भवा- नुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुन्धरया, ययासि भर्त्ता समासादितः । हरिवक्षःस्थलनिवासासद्ग्रहव्यसनिनी¹ हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीर्महावराह इव दंष्ट्रावलयेनं² वह बाहुना वसुन्धराभारं सह पित्रा' इत्यभि- धाय³ स्वयमाभरण-वसन-कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयाञ्चकार ।
विसर्जितश्चोत्थायन्तःपुरं प्रविश्य दृष्ट्वा⁴ वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितं प्रतिच्छन्दकमिव राजकुलस्य, द्वारावस्थित-सित-पूर्ण-कल-
अहो इति । अहो इत्याश्चर्ये । प्रजाः प्रकृतयो धन्या भाग्यवत्यः, यासां प्रजानां भरतः शकुन्तला- पुत्रः, भगीरथः सगरपौत्रः ताभ्यां प्रतिमः सदृशः भवांस्त्वं पालयिता रक्षक उत्पन्नो जातः । किमिति प्रश्ने । खलु निश्चयेन वसुन्धरया पृथिव्या अवदातं निर्मलं विशुद्धमित्यर्थः कर्म कार्यं सुकृतमित्यर्थः कृतं विहितम्, यथा त्वं भर्ता प्रभुः समासादितो लब्धः असि ।
हरीति । हरेः विष्णोः वक्षःस्थले भुजान्तरे निवासे अवस्थितौ यः असद्ग्रहो दुष्टबुद्धिः तत्र व्यसनिनी आसक्तिमती लक्ष्मीः श्रीः हता प्रतारिता खलु निश्चयेन, या लक्ष्मीः त्वां भवन्तं विग्रहवती शरीरधारिणी सती नोपसर्पति नाभ्युपैति, यद्यपि अमूर्त्तरूपेण ह्यानुसरति तथापि मूर्त्तशरीररूपेण नोपसर्पतीत्यर्थः ।
इह हतत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः, तेन हि भगवतोऽपि राज- पुत्रस्योत्कर्षबोधनाद् व्यतिरेकालङ्कारः प्रतीयत इत्यलङ्कारेण ध्वनिः ।
सर्वथेति । दंष्ट्रावलयेन दन्तमण्डलेन महावराहः शूक्रावतारो विष्णुरिव, पित्रा तारापीडेन सह त्वं बाहुना भुजेन कल्पकोटीः कोटिसंख्यकान् कल्पान् यावत् वसुन्धरायाः भूमेः भारं व्यवस्थापनव्यापारं गुरुत्वञ्च सर्वथा सर्वप्रकारेण वह धारय । इति पूर्वोक्तप्रकारेण अभिधाय निगद्य स्वयम् आत्मनैव आभ- रणानि भूषणानि, वसनानि वस्त्राणि कुसुमानि पुष्पाणि अङ्गरागा विलेपनानि इत्यादिभिः वस्तुभिः अभ्यर्च्य संपूज्य विसर्जयाञ्चकार विसर्जितवान् । इहोपमालङ्कारः ।
पुरा किल भगवान् विष्णुः सागरमग्नं पृथ्वीमण्डलमुद्धत्तु मिच्छ्या वराहावतारं परिगृह्य दन्तमण्ड- लेन तदुद्दधारेति पौराणिकी वार्त्ता ।
विसर्जित इति ।-विसर्जितो गृहाय अनुज्ञात उत्थाय अन्तःपुरम् अवरोधं प्रविश्य प्रवेशं कृत्वा मनोरमाभिधयां मनोरमाख्यां वैशम्पायनमातरं दृष्ट्वा अवलोक्य तदनन्तरं बहिर्निर्गत्य निःसृत्य इन्द्रायुध- मश्वं समारुह्य आरोहणं विधाय कुमारो भवनं जगाम ययावित्यन्वयः । भवनं विशेषयति-पूर्वमिति । पित्रा तारापीडेन पूर्वकल्पितं प्रागेव निर्मितम्, राजकुलस्य राजभवनस्य प्रतिच्छन्दकं प्रतिरूपमिव सर्वथा सुसाम्यादित्याशयः । 'प्रतिरूपं प्रतिच्छन्दः' इति त्रिकाण्डशेषः । द्वारे अवस्थितौ स्थापितौ सितौ श्वेतौ पूर्णकलसौ पूर्णकुम्भौ यस्य तत्तादृशम् । आबद्धाः संदानिता बहिर्द्वारेषु योजिता इत्यर्थः हरिताः पलाश- वर्णाः वन्दनमाला माङ्कल्यानि कुसुममाल्यानि यत्र तत्तादृशम् ।
'तोरणार्द्धं च माङ्गल्यं दाम वन्दनमालिका ।'
यह समस्त विद्या-ग्रहण करनेका सामर्थ्य कहाँ ? अहो ! धन्य वे प्रजा हैं जिनके तुम भरत, भगीरथके समान परिपालक होकर उत्पन्न हुए हो । पृथिवीने ऐसा कौन पवित्र-कर्म किया, जिससे तुम्हें पतिरूपमें पाया है । लक्ष्मी देवी नारायणके वक्षःस्थलमें वास करनेके दुराग्रहमें फसकर विधाता द्वारा वञ्चित हुई है, जो शरीर धारण कर अब भी तुम्हारे निकट नहीं आती है । आदिवराहने जिस प्रकार दन्त-वलयसे पृथिवीका भार वहन किया था, तुम भी उसी प्रकार पिताके साथ कोटि-संख्यक कल्प (देवताओं का एक हजार युग एक कल्प कहलाता है) समय तक बाहुद्वारा पृथिवीका वहन करो' इतना कह कर आभूषण, वस्त्र, पुष्प और अङ्गराग द्रव्य आदिसे अपनेसे ही सत्कार करके कुमारको विदा किया ।
तब कुमार चन्द्रापीड शुकनासके पाससे विदा होकर उठ, अन्तःपुर (रनिवास) में जा, वैशम्पायनकी माता मनोरमाको देख, उसी मार्गसे बाहर आकर इन्द्रायुध पर सवार होकर, पिताके द्वारा पहलेसे ही निश्चित किए गए अपने भवन (महल) में चला गया, वह भवन (महल), राजभवन का मानों, प्रतिमूर्त्तिस्वरूप था ।
१. ०००व्यसनिता । २. दंष्ट्रावलेन । ३. अभिधाय च । ४. दृष्ट्वा च ।
| प्रदोषवर्णना-३२ ] | चन्द्रकला-विद्योतिनीसहिता। | २९७ |
|---|
सन्, आबद्ध-हरित-चन्दनमालम्¹, उल्लसित-पताकासहस्रम्, अभ्याहतमङ्गल-तूर्य-रव-परि-पूरित-दिगन्तरम्, उपरचित-विकच-कमलकुसुम-प्रकरम्, अचिरकृताग्निकार्यम्, उज्ज्वल-विविक्त-परिजनम्, उपपादिताशेष-गृहप्रवेशमङ्गलम्, कुमारो भवनं जगाम। गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्त्तमुपविश्य सह तेन राजपुत्रलोकेन अभिषेकादिकम्² अशनावसानमकरोद्दिवसविधिम्। अभ्यन्तरे च शयनीय-गृह एवेन्द्रायुधस्यावस्थानमकल्पयत्।
एवं प्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ। गगनतलादवतरन्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्रं रविमण्डलमुन्मुक्तपादं पपात। जलप्रवाह इव³ रथचक्र-
इत्यभिधानचिन्तामणिः। उल्लसितम् उच्छ्रितम् उड्डीनं वा पताकानां वैजयन्तीनां सहस्रं समूहो यत्र तत्तादृशम्। अभ्याहतानि वादितानि यानि मङ्गलतूर्याणि माङ्गलिकवाद्यविशेषाः तेषां रवैः शब्दैः परिपूरितानि व्याप्तानि दिगन्तराणि यस्य तत्तादृशम्। उपरचितो विहितः विकचानां विकसितानां कमलकुसुमानां कमलपुष्पाणां प्रकरो विक्षेपो यत्र तत्तादृशम्। अचिरं शीघ्रं कृतं विहितम् अग्निकार्यं शान्तिहोमो यत्र तत्तादृशम्। उज्ज्वला उज्ज्वलवेषाः विविक्ताः भिन्नभिन्नस्वरूपाः परिजनाः परिचारका यत्र तत्तादृशम्। तथा उपपादितानि भूपतिनैव सम्पादितानि अशेषाणि समग्रानि गृहप्रवेशमङ्गलानि वास्तुपूजाम्भ्युदयिकश्राद्धप्रभृतीनि यस्य तत्तादृशं भवनम्।
गत्वेति। श्रीमण्डपे शोभाशालिनि सभाभवने अवस्थितं स्थापितं यच्छयनं शय्या तस्मिन् मुहूर्त्तम् उपविश्य अवस्थानं कृत्वा तेन राजपुत्रलोकेन सह अभिषेकादिकं स्नानादिकम् अशनावसानं भक्षणपर्यन्तं दिवसविधिं दिनचर्याम् अकरोत् अकार्षीत्।
अभ्यन्तर इति। अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिभवनं तत्र एव इन्द्रायुधस्य अश्वस्य अवस्थानं स्थितिम् अकल्पयत् अन्वतिष्ठत् अत्यन्तादरयोग्यत्वादित्याशयः।
एवमिति। अपि चेति चार्थः। एवं प्रायेण इत्थम्भूतेन अस्य चन्द्रापीडस्य उदन्तेन समाचारेण व्यापारेण तदहः तद्दिवसं परिणतिम् अवसानम् उपययौ अगमत्।
गगनेति। रविमण्डलं सूर्यबिम्बं कर्तृ, उन्मुक्ता ऊर्ध्वं त्यक्ताः पादा रश्मयो येन तथोक्तं सत्, गगनतलात् आकाशतलात् अवतरन्त्याः, आगच्छन्त्याः, दिवसश्रियो दिनलक्ष्म्याः, स्वप्रभया स्वीयरश्मिपंक्त्या पिहितम् आच्छादितं रन्ध्रं छिद्रदेशो यस्य तत्तथोक्तं पद्मरागनूपुरमिव लोहितकपादकटककमिव, पपात अस्तम् आकाशादिति शेषः। सूर्यबिम्बं छिद्ररहितान्तरत्नम्, सुतरां तत्सादृश्यनिरूपणाय 'स्वप्रभापिहितम्' इति नूपुरविशेषणम्। इह स्वपदेन नूपुरस्य ग्रहणम्। जात्युत्प्रेक्षा।
जलेति। वासरालोको दिनरश्मिः, जलप्रवाह इव सलिलपूर इव, दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण रथचक्रमार्गक्रमेण रथचक्रमार्गवदित्यर्थः, प्रतीचीं पश्चिमां ककुभं दिशम् अगात् प्रययौ। जलप्रवाहपक्षे तु रथचक्रक्षुण्णमार्गमनेनेत्यर्थः, तस्याधोगामित्वात्। उपमा।
बड़े दरवाजे के समीप दो शुभ्रवर्ण जलपूर्ण कलश रखे थे। बर्हिर्द्वारके साथ पलाशवर्ण मांगलिक पुष्पमालायें (बन्दनवारें) बँधी थीं। हजारों पताकायें फहरा रही थीं। बजाए गए माङ्गलिक तूर्य (तुरही) ध्वनिसे दिगन्तर व्याप्त हो गए थे। अन्दर में कमलके खिले हुए फूलोंके ढेर लग रहे थे। थोड़े ही समय पहले होमकार्य समाप्त हो गया था। भिन्न-भिन्न आकारके परिजनगण उज्ज्वलवेषमें भ्रमण करते थे। एवं उस भवनमें गृह-प्रवेशके योग्य सब मङ्गल-क्रियाएँ सम्पादित हुई थीं। राजकुमार उस भवनमें जाकर, सुन्दर सभामण्डपस्थित पलंग पर कुछ देर बैठ कर, उन्हीं राजपुत्रोंके साथ स्नान से लेकर भोजन पर्यन्त नित्य क्रियाओंका सम्पादन किया और भवनके अन्दर अपने शयन करनेके घरमें ही इन्द्रायुधको रहनेके लिए स्थानका निर्देश किया।
इस प्रकार व्यापार करते २ चन्द्रापीड का वह दिन शेष हो गया। उस समय रवि-मण्डल ऊपरकी ओर किरणें फेंक कर आकाशसे नीचे गिरने लगा, इससे प्रतीत हुआ कि—दिवसश्री आकाशमें उतर कर जा रही हैं। उसके पैरोंसे पद्मरागमणि-मय एक नूपुर (पायजेब) गिर रहा है, उस नूपुरके मध्यका रन्ध्रभाग (छेदवाला
१. हरिचन्दन, हरितचन्दन***।
२. अभिषेकादिम् ।
३. स्वशयनीय **।
४. सलिलप्रवाह इव।
१९ का०