भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 333, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 333
२६४कादम्बरी-[ कथायाम्-

वेत्रलता-चकित^१-सामन्त-चक्र-चरण-शत-चलित-वसुन्धराणि कक्षान्तराणि निरीक्षमाणः, तथैव च^२ नव-नव-सुधावदात-प्रासाद-सहस्र-निरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश। प्रविश्य चानेक-नरेन्द्र-सहस्रमध्योपविष्टम्^४ अपरमिव पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे।

शुकनासस्तं ससम्भ्रममुत्थाय^५ आनुपूर्व्येण उत्थित-राजलोकैः सादरमभिमुखदत्तावि-रलपदः प्रहर्ष^८-विस्फारितलोचनागतानन्द^९-जलकणः सह^८ वैशम्पायनेन प्रेम्णा गाढमालिङ्गि। आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपविशत्, तदनु


तथैवेति। नवनवा नूतनाः सुधावदाताः चूर्णादिलेपैरूज्ज्वलाः प्रासादाः अट्टालिकाः तेषां सहस्रेण समूहेन निरन्तरं निरवकाशं व्याप्तम्, अत एव द्वितीयं राजकुलं राजभवनमिव विद्यमानं शुकनासभवनं विवेश प्रविष्टवान्। इह 'राजकुलमिव' इति द्रव्योत्प्रेक्षा।

प्रविश्येति। उपदर्शितः प्रकटितो विनयो नम्रता येन स तादृशः, अनेके बहवो ये नरेन्द्राः सामन्ताः तेषां सहस्राणि समूहाः तेषां मध्ये उपविष्टं संनिषण्णम् अत एव अपरम् अन्यं पितरं तारापीडमिव विद्य-मानम्, तथापि तथैव नरेन्द्रसहस्रमध्योपवेशनादित्याशयः। दूराद्विष्ठादेव अवनतेन नम्रीभूतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे। इहाप्युत्प्रेक्षालङ्कारः।

शुकनास इति। ससम्भ्रमं शीघ्रं तं चन्द्रापीडम् उत्थाय आनुपूर्व्येण यथाक्रमानुसारेण उत्थितः राजलोको भूपमण्डलं यस्मात् स तादृशः, अभिमुखे चन्द्रापीडसम्मुखे दत्तानि विहितानि अविरलानि सान्द्राणि पदानि पादक्षेपा येन स तादृशः दूरादेव तेन कृतप्रणामत्वादित्याशयः, तया प्रहर्षेण अतिप्रमो-देन विस्फारितयोः विस्तारितयोः लोचनयोर्नयनयोः आगता आयाता आनन्दजलकणाः प्रमोदाश्रुविन्दवो यस्य स तादृशः शुकनासः प्रेम्णा स्नेहातिशयेन वैशम्पायनेन निजात्मजेन सह तं चन्द्रापीडं सादरम् आदरेण सहितं यथा स्यात्तथा गाढं सान्द्रम् आलिङ्ग उपगूहनं चक्रे।

आलिङ्गितेति। प्रथमम् आलिङ्गितः आश्लिष्टः पश्चात् उन्मुक्तः परित्यक्तश्चेति स तादृशो राजपुत्रो नृपात्मजः सादरोपनीतम् आदरेण आनीतं रत्नासनं मणिविष्टरम् अवनौ भूमावेव अपहाय परित्यज्य समुपविशत् समुपविष्टवान्। तदनु तत्पश्चाद्भागे वैशम्पायनश्च समुपायविशदिति सम्बन्धः। शुकनासस्य प्रधानामात्यत्वे सत्यपि विप्रत्वेन पितृवयस्यत्वेन पितृस्थानीयत्वेन च तत्समीपे चन्द्रापीडस्य विष्टरोपवेशन-मनुचितम्, वैशम्पायनस्य तु जनकत्वेन तत्समीपे विष्ट्रोपादानस्य नितान्तमेवानुचितत्वादवनावेवोपवे-शनमित्याशयः।


होकर रहने लगे, एवं बेंतकी छड़ियोंके सञ्चालन होते रहनेसे सामन्तराजगण चकित होकर सरकने लगे, उन लोगोंके सैकड़ों चरण पड़नेसे वह स्थान कम्पित होने लगा। क्रमसे चन्द्रापीडने पहलेकी भाँति ही दूसरे राजभवनके समान शुकनासके भवनमें प्रवेश किया; वह भवन, नई सफेदी किए जानेके कारण श्वेतवर्ण महलोंसे परिपूर्ण था। प्रवेश करके अनेक सहस्र राजाओंके बीचमें बैठे हुए द्वितीय पिताके समान, शुकनासको उसने विनयप्रदर्शनपूर्वक दूरसे ही मस्तक नवाकर प्रणाम किया।

उस समय शुकनास शीघ्रतासे उठ खड़े हुए, बाद सब राजा लोग यथाक्रम खड़े हो गये। उस समय शुकनासने चन्द्रापीडके सम्मुख आदरसे कितने ही कदम आगे आकर आनन्दसे प्रफुल्लित लोचनोंमें भरे आनन्दा-श्रुसहित चन्द्रापीडका और वैशम्पायनका स्नेहयुक्त गाढ़ आलिङ्गन किया। मिलकर पृथक् होने पर किसी सेवक ने आदरके साथ एक रत्नासन ला दिया, चन्द्रापीड उसको छोड़कर भूमि पर ही बैठा, और वैशम्पायन भी उसके पीछे वैसे ही बैठा। चन्द्रापीड पृथिवीमें बैठने पर, शुकनासके अतिरिक्त अन्य सब नरेन्द्र भी अपने-अपने


१. त्रासनचकित। २. क्वचित् 'तथैव नव' इत्यावेव पाठो दृश्यते। ३. क्वचित् 'सहस्र' इति पदं न विद्यते। ४. ...उपस्थितम्। ५. समुत्थाय। ६. ...पूर्वेण। ७. ...लोकैः। ८. संहर्षं...। ९. ...विलोचन...। १०. समन्।