भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 318, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 318

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । २७६

संवर्द्धित-प्रियदर्शन-राजदारिका-गन्धर्वदत्तोत्कण्ठम्, महातीर्थमिव सद्योऽनेकपुरुषप्राप्ताभिषेक-फलम्, प्राग्वंशमिव नानासवपात्र-सङ्कुलम्, निशासमयमिवानेकनक्षत्रमालाालङ्कृतम्, प्रभातसमयमिव पूर्वदिग्भाग-रागानुमेय-मित्रोदयम्, गान्धिक-भवनमिव स्नान-धूप विलेपन-वर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृत-लवली-लवङ्गैला-कक्कोल-पत्रसञ्चयम्, प्रथम-वेश्या-

महेति । महातीर्थं भागीरथ्यादिकं तद्वदिव, सद्यः तारापीडादेशसमयमेव अनेके विविधा ये पुरुषाः विभिन्नदेशीयतृपात्मजाः तैः प्राप्तानि लब्धानि अभिषेकाः स्वस्वराज्याभिषेका एव फलानि यस्मात्तत्तादृशम् । अर्थात् यस्माद्राजभवनात् बहुभिः राजत्वं प्राप्तम् । पक्षे-सद्यः स्नानकाल एव अनेकपुरुषैः ज्ञानकर्तृः पूर्वलोकैः प्राप्तं लब्धम् अभिषेकात् स्नानात् फल स्वर्गदिप्राप्तिरूपं यस्मात्तत् तादृशम् ।

प्रागिति । यस्मिन् भवने होमसम्पादनाय हविः स्थाप्यते तस्मात् प्राग्दिक्स्याथि यजमानादिवा-नार्थं भवनं प्राग्वंश इत्युच्यते तथा चामरः-'प्राग्वंशः प्राग्हविर्गेहा' दित्यमरः, तमिव, नाना बहुभिः आसवपात्रैः शीधु ( मद्य ) भाजनैः 'मैरेयमासवः शीधुः' इत्यमरः । पक्षे-नानासवस्य यज्ञस्य पात्रैः सुक्स्रुवादिभिः यज्ञीयपात्रैः सङ्कुलं व्याप्तम् । "पात्रं तु भाजने योग्‍ये पात्रं तीरद्वयान्तरे । पात्रं सुवादौ पर्णे च राजमन्त्रिणि चेष्यते ॥” इति विश्वः । 'यज्ञः सवोऽध्वरो याग' इत्यमरः ।

निशेति । निशासमयम् रात्रिसमयभिव, अनेका नानाविधाः नक्षत्रमालाः सप्तविंशतिसंख्यक-मुक्ताफलगुम्फितस्रजः तारकापङ्क्तयश्च ताभिः अलङ्कृतं शोभितम् ।

'सैवं नक्षत्रमाला स्यात् सप्तविंशतिसंख्यकैः।' इत्यमरः ।

प्रभातेति । प्रभातसमयमिव प्रत्यूषावसरमिव, पूर्वदिग्भागे प्रागवस्थायां रागेण महाराजतारापीड-स्यानुरागावलोकनेन अनुमेयाः अनुमातुं योग्याः मित्राणां सुहृदाम् उदया अभ्युदया यत्र तत्तादृशम् ; तथा च जनैः यद्यद् मित्रं प्रति प्राक् राज्ञोरागोऽवलोकितः तस्य तस्यैव शीघ्रेण तदर्पितद्रव्यादिभिरभ्यु-दयो भविष्यतीत्यनुमितमिति स्पष्टार्थः। पक्षे-पूर्वदिग्भागे प्राच्यां दिशि रागेण लौहित्यदर्शनेन अनुमेयः मित्रस्य दिनकरस्य उदयो यत्र तत्तादृशम् ।

गान्धिकेति । गन्धद्रव्याणि विक्रीणीते यः स गान्धिकः तस्य भवनं निकेतनमिव, स्नानं स्नानीय-द्रव्यं सुगन्धितैलादि, धूपः विलेपनं श्रीखण्डचन्दनादिकम् , वर्णकम् अङ्गरागद्रव्यं कुङ्कुमादिकवर्तिवि-शेषश्च तरुज्ज्वलं दीप्तिमत्तत्तादृशम् । 'गात्रानुलेपनी वर्त्तिर्गन्धद्रव्यं विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्गरागके ॥' इति रभसः ।

ताम्बूलिकेति । ताम्बूलिकस्य नागवल्लीदलविक्रयविधायिनः भवनं गृहमिव, कृतो भोक्तुं विक्रेतुं च विहितः लवलीनां लवङ्गानां एलानां चन्द्र्वालानां पत्राणां दलानां ताम्बूलानाञ्चेति तात्पर्यम् , सञ्चयः एकत्रीकरणं यत्र तत्तादृशम् ।

प्रथमेति । प्रथम आद्यो यो वेश्यासमागमः गणिकासम्मिलनं तमिव, अविदितः अनन्तगाम्भीर्य-

गम करनेकी उत्कण्ठा सुननेमें आती है, उस राजभवनमें भी उसी प्रकार अन्तःपुर ( रनिवास ) में संवर्द्धिता परम-सुन्दरी राजपुत्रियाँ गन्धर्वोंको भी उत्कण्ठा उत्पन्न करती थीं ऐसा सुननेमें आता है । गङ्गादिक महातीर्थमें स्नान करने पर जिस प्रकार तत्काल ही स्नान करनेवालोंके पूर्व पुरुषोंको स्वर्गादिक फल प्राप्त होते हैं, उस राजभवनमें भी उसी प्रकार महाराज तारापीडकी अनुमति होने पर उस समयमें ही विभिन्नदेशीय राजपुत्रोंको अपने-अपने राज्यमें अभिषेक-रूप फल प्राप्त होते हैं । होमघरके पूर्वदिशामें यजमानादिकोंके रहनेके लिए विद्यमान घर जिस प्रकार सुक् और खुवादि अनेक प्रकारके यज्ञीय पात्रोंसे व्याप्त रहता है, वह राजभवन भी उसी प्रकार अनेक प्रकारके मद्यपात्रों (शराबके प्यालों ) से व्याप्त था । रात्रि समय जिस प्रकार अनेक नक्षत्रमालाओंसे शोभित होता है, वह राजभवन भी उसी प्रकार अनेक मुक्तामालाओंसे शोभित था । प्रातःकालमें जिस प्रकार पूर्वदिशामें लालिमा देखकर सूर्योदयका अनुमान किया जाता है, उस राजभवनमें भी उसी प्रकार मित्रोंके प्रति आरम्भमें ही महाराजका अनुराग देखकर उनलोगोंकी उन्नतिका अनुमान किया जाता था । गन्धद्रव्य बेचनेवालेके गृहके समान वह राजभवन, सुगन्धितैलादि स्नान करने योग्य द्रव्य, धूप, चन्दनादि अनुलेपन द्रव्य एवं कुङ्कुमादि अङ्ग-लेप द्रव्यसे उज्ज्वल दीखता था । पानबेचनेवाले (तमोली) के घरके समान उस राजभवनमें भी लवली-त्वंग


१. गन्धिक***। २. लेपन । ३. कङ्कोलि, कङ्कोल। ४. प्रधान