कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 331, कुल 709 में से
संदर्भ में पढ़ें| २६२ | कादम्बरी- | [ कथायाम्- |
|---|
यामावस्थित-विविध-गज-घटा^१-सङ्कटम्, अनेक-तुरङ्ग-सहस्र-सम्बाधम्, अपरिमित-जन-समूह-सम्मर्द^२-सङ्कुलम्, एकदेशोपविष्टैः सहस्रशो निबद्धचक्रवालैरनेककार्य्यागतैर्दर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितबुद्धिलोचनैः^३ चीवरच्छद्मना^४ विनयानुरागिभिर्धर्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेयैः, रक्तपटैः^५ पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानाञ्च सामन्तानां जघनोपविष्ट-पुरुषोत्सङ्ग-स्थितद्विगुणित-कुथाभिः^७ अतिचिरावस्थान-निर्वेद-प्रसुप्ताधोरणा^८भिरपर्य्याणाभिः सपर्य्याणाभिश्च निश्चलाव-
दानेति। यामावस्थिताः प्रतिप्रहरं परिवृत्य परिवृत्य स्थिता ये गजा हस्तिनः तेषां घटया समूहेन संकटम् आकुलम्। इत आरभ्य नपुंसकलिङ्गानि द्वितीयान्तानि पदानि अग्रेतनस्य 'शुकनासगृहद्वारम्' इत्यस्य विशेषणानि। अनेकैः बहुभिः तुरङ्गसहस्रैः घोटकनिकरैः सम्बाधं सङ्कीर्णम्।
'सङ्कटं ना तु संबाधः कलिलं गहनं समे।
सङ्कीर्णं सङ्कुलाकीर्णे.....................
इत्यमरः। अपरिमितः असंख्येया ये जना लोकाः तेषां समूहस्य सङ्घस्य सम्मर्देन परस्पराघातेन सङ्कुलं व्याप्तम्।
एकदेशेति। एकदेशे एकस्मिन् भागे उपविष्टैः निषण्णैः सहस्रशो बहूनि निबद्धानि कृतानि चक्रवालानि मण्डलानि वर्त्तुलरूपेणावस्थानानि यैस्तैः तादृशैः, अनेककार्य्यागतैः पृथक् पृथक् उद्देशेनोपस्थितैः दर्शनोत्सुकैः अवलोकनायोत्कण्ठितैः शुकनालसाक्षात्कारेच्छाकारिभिरित्यर्थः समन्ततः चतुर्दिक्षु सर्वविषयेष्वित्यर्थः, विविधानि अनेकप्रकाराणि शास्त्राण्येव अञ्जनानि कज्जलानि तैरुन्मीलितानि विकासं प्रापितानि बुद्धयो-मतय एव लोचनानि नयनानि येषां तैस्तादृशैः। चीवराणि बौद्धभिक्षुप्रावरणानि छद्मना कपटेन, विनये धर्मशिक्षायाम् अनुराग एव अनुरागः रञ्जनद्रव्यं विद्यते येषां तैस्तथोक्तैः धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धव्यवहारसिद्धवस्त्रविशेषैरिव, धर्मपटाश्च येषु पटेषु धर्मशासनान्युल्लिख्य अन्तेवासिभ्यः प्रदर्श्यन्ते ते बोध्याः। अवगुण्ठितैरिव आच्छादितशरीरैरिव विद्यमानैः। शाक्यमुनेः शाक्यसिंहस्य अर्कबान्धव-वतपस्विनः शासनपथे उपदिष्टधर्मविषये धौरेयाः धुरन्धराः अग्रगण्याः तैस्तादृशैः, रक्तपटैः रक्तवस्त्रधारिभिः, पाशुपतैः महेश्वराराधकैः द्विजैर्विप्रैश्च दिवानिशम् अहोरात्रम् आसेव्यमानं शुकनासप्रेम्णोपास्यमानम्।
इह 'विविधशास्त्राञ्जनेत्यादौ शास्त्रेष्वञ्जनत्वारोपस्य बुद्धिषु नेत्रत्वारोपं प्रति कारणत्वात् परम्परित-रूपकमलङ्कारः। 'धर्मपटैरिव' इत्यत्र हि बौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते। अर्थात् चीवराणां तु व्याजो वर्त्तते, वस्तुतस्तु धर्मपटैरेव ते आवृत्ताः। अनुराग इति श्लिष्टम्, ततश्च श्लेषो-त्थापिता सापह्रवा क्रियोत्प्रेक्षालङ्कारः।
अभ्यन्तरेति। क्लिन्नेति चार्थः। अभ्यन्तरप्रविष्टानां निजनिजकार्यसम्पादनाय अभ्यन्तरे शुकनासा-न्तिकं प्राप्तानां सामन्तानां स्वदेशपार्श्ववर्त्तिभूपतीनां शतसहस्रशः 'करिणीभिः' इति वक्ष्यमाणेनान्वयः। जघनेषु तासां हस्तिनीनां कट्या अग्रिमप्रदेशेषु उपविष्टानां निषण्णानां पुरुषाणां तत्तत्सामन्तपरिचारक-जनानाम् उत्सङ्गेषु क्रोडेषु विद्यमाना द्विगुणिताः आरोहिसामन्तानामवतरणानन्तरमेव अपसार्य द्विगुण-भागे सङ्कोचिताः कुथाः पृष्ठास्तरणानि यासां ताभिः तादृशीभिः। अतिचिरं सामन्तानां विलम्बमधिकं
क्रमसे शुकनासके भवनके दरवाजे पर जाकर उपस्थित हुआ। वह दरवाजा प्रत्येक प्रहरमें परिवर्तित अनेक प्रकारके हाथियोंसे व्याप्त था, एवं अधिकतर घोड़ोंसे परिपूर्ण और अगणित मनुष्योंके सङ्घर्षसे दुर्गम था। उसके एक भागमें शाक्यसिंहके उपदेश मार्गमें अग्रगण्य अधिकतर बौद्ध संन्यासी एवं रक्तवस्त्रधारी शिवो-पासक ब्राह्मण, चारों ओर हजारों मण्डल बनाकर दिन-रात बैठे रहते थे। वे अपने भिन्न-भिन्न कार्योंके लिए आए हुए थे, एवं सब लोग शुकनासका दर्शन करनेके लिये उत्सुक थे। विविध शास्त्ररूप कज्जलने, सभी विषयोंमें ही उन लोगोंके ज्ञान-नेत्रको उन्मीलित किया था। और बौद्ध संन्यासीगण कौपीन (लङ्गोटी) धारण करनेके बहाने, धर्मशिक्षा द्वारा धर्ममें अनुरागरूप रञ्जन द्रव्यसे रँगे हुए धर्मपटसे मानो, शरीरको आच्छादित
१. ॰॰॰गन्यगज॰॰॰ ।
२. ॰॰॰समूहसङ्घट्टसम्मदं॰॰॰ ।
३. उन्मीलितप्रतिमैः।
४. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः।
५. रक्तपादैः।
६. स्थानोपविष्टपुरुषावस्थित।
७. संग्रथितद्विगुणकुथाभिः।
८. धोरणाभिः सपर्य्याणाभिः।