भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 322, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 322

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता २८३

दुर्जनमिवापगतपरलोकभयम्, अन्त्य्य-जनमिव अगम्यविषयाभिलापम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तक-भटगणमिव कृताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसानकल्याणकरम्, वासरारम्भमिव परिस्फुरत्पद्मरागारुणी-क्रियमाण-निशान्तम्, दिव्यमुनिगण-

कुशलम्, तत्यलोकानां कौशल्यवत्त्वस्यापि कौशल्यत्वमौपचारिकं बोध्यम् । पक्षेऽप्येवमेव ।

दुर्जनमिति । दुर्जनः खलः तमिव, अपगतं साधुतया रहितत्वेन दूरीभूतं परलोकात् वैरिजनात् भयं भीतिः यस्य तत्तादृशम् । पक्षे-अपगतम् अज्ञानावरणत्वात् दूरीभूतं परलोकात् इह जन्मकृतदुरित-जन्यजन्मान्तरक्लेशात् भयं त्रासो यस्य तं तादृशम् ।

अन्त्येति । अन्त्यजनः चण्डालादिनीचजनः तमिव, अगम्याः परैर्दुर्बोध्याः विषयाणां परराज्यानाम् अभिलापा नरपतेः मनोरथा यत्र तत्तादृशम्, तस्य मन्त्रगुप्तिस्थानेनोक्ता । पक्षे—अगम्ये सज्जनैः गन्तुम-शक्ये विषये देशे महाविपिनभूधरादौ अभिलापः वसतेः स्पृहा यस्य तं तादृशम् । इह यद्यपि ‘वेश्याजन-मिव’ इत्यारभ्य वाक्यत्रये उपमानस्य जुगुप्सितत्वेनानुचितार्थदोषः समापतति तथापि श्लेषोपमायामुप-मानान्तरप्रयोगे एवंविधविच्छित्तिविशेषस्यासम्भवत्वेन 'चण्डाल इव राजासौ सङ्ग्रामेऽधिकसाहसः’ इति दर्पगोदाहरणवन्न दोष इति समालोचनकुशलाः समालोचयन्ति ।

अगम्येति । अगम्ये अभोग्ये विषये गणिकासुरापानादौ आसक्तमपि प्रशंसनीयमिति विरोधः, अगम्ये परैर्गन्तुमप्यशक्ये विषये अन्यदीयराज्ये आसक्तं स्वोत्कर्षाय विहिताभिनिवेशमिति तत्परिहारः । अत एवेह विरोधाभासोऽलङ्कारः ।

अन्तकेति । अन्तको यमः तस्य भटगणमिव दूतसमूहमिव, कृताकृतयोः प्रजागणेन विहिताविहि-तयोः कर्मणोः सुकृतेन धर्मानुसारेण विचारे मीमांसायां निपुणं गुप्तचरैर्भ्यः समस्तज्ञानात् स्वाभाविकतेजः-शक्तेश्च कुशलम् । पक्षे—कृतयोः प्राणिवर्गेण सम्पादितयोः अकृतसुकृतयोः धर्माधर्मयोः विचारे मीमां-सायां निपुणम् ।

सुकृतमिति । सुकृतं धर्ममिव, आदिमध्यावसानेषु बहिर्देश-मध्यदेश-अवशिष्टदेशेषु कल्याणकरं निवासिनाम् आनन्दपूर्वकक्रमगत्वेन शुभसम्पादकम् । पक्षे—आदिमध्यावसानेषु त्रिष्वप्यवस्थासु कल्याणकरम् । तदुक्तम्—

‘धर्मेण हन्यते व्याधिर्धर्मेण हन्यते ग्रहः । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः ॥’

वासरेति । वासरारम्भः प्रत्यूषसमयः तमिव, परिस्फुरन्तो देदीप्यमानाः ये पद्मरागाः तत्संज्ञक-रक्तमणयः तैः अहङ्गीक्रियमाणानि रक्तीक्रियमाणानि निशान्तानि भवनानि यत्र तत्तादृशम् । पक्षे—परि-स्फुरन्ति विकसन्ति यानि पद्मानि कमलानि तेषां रागैः रक्तिमभिः अहङ्गोक्रियमाणः निशान्तः रजनी-शेषो येन तं तादृशम् ।

दिव्येति । दिव्यमुनिगणः महर्षिवसिष्ठादिसमूहः तमिव, कलापिसानाथैः मयूरपुत्रिकायुक्तैः श्वेत-


समान वह राजभवन भी अभ्यागत लोगोंका आदर-अभ्यर्थना करनेमें समर्थ था । दुर्जनको जिस प्रकार जन्मान्तर-भय नहीं रहता है, उन राजभवनको भी उसी प्रकार शत्रुओंसे भय नहीं था । चाण्डालादि नीचजनों को जिस प्रकार साधुओंके अगम्य महापर्वतादि स्थानमें रहनेके लिए इच्छा होती है, उस राजभवनमें भी उसी प्रकार दुर्गम पर-राज्योंका अपने अधीनमें करनेके लिए राजाको इच्छा होती थी । वह राजभवन, भोगके अयोग्य वेश्या और मद्यमें आसक्त होने पर भी प्रशंसनीय था (दूसरे लोगोंसे जानेमें दुर्लभ पर-राज्यमें विजय पानेके लिए उद्योग करता था, एवं प्रशंसनीय था) । यमदूत, जिस प्रकार जीवोंके सुकृत-दुष्कृत विचारनेमें प्रवीण हैं, वह राजभवन भी उसी प्रकार प्रजाने जो काम करनी है अथवा नहीं करनी हैं उनके विचार करनेने प्रवीण था । धर्म जिस प्रकार आदि, मध्य और अन्त सभी अवस्था में ही लोगोंका कल्याण करता है, वह राजभवन भी उसी प्रकार बाहर, बीच और अन्दर सभी स्थानोंमें ही रहनेवालोंका कल्याण करनेवाला था । प्रातःकाल जिस प्रकार चमकते कमलोंके रंगसे रात्रिके शेष भागको लाल लाल करता है, वह राजभवन भी उसी प्रकार देदीप्यमान पद्मराग-मणियोँ से भवनोंको लाल करता था। दिव्य मुनिगण जिस प्रकार कलापिनामक मुनिके साथ


१. वन्यज । २. क्वचिद् 'परिस्फुरत्' इति पदं नोपलभ्यते ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 322, कुल 709 में से · BharatKosha