भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 321, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 321

२८२ कादम्बरी- [ कथायाम्-

तापहरम्¹, धनमिव न कस्यचिन्नाकाङ्क्षणीयम्, सन्ध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षःस्थलमिव श्री-रत्न-प्रभा-भासित-दिगन्तम् बलभद्रमिव कादम्बरी-रस-विशेष-वर्णनाकुलमतिं, ब्रह्माणमिवं पद्मासनोपदेश-दर्शित-भूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गनाप्रचारमिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्,

धनमिति । धनं द्रव्यं तद्वदिव, कस्यचिन्नाकाङ्क्षणीयं नाभिलषणीयमिति किन्तु सर्वस्यैवाकाङ्क्षणीयमित्यर्थः ।

सन्ध्येति । सन्ध्यायाः सायंङ्कालस्य यः समयो वेला तमिव, दृश्यमानः प्रेक्ष्यमाणः चन्द्रापीडस्य तत्संज्ञकस्य नृपात्मजस्य उदय उपस्थितियंत्र तत्तादृशम् । पक्षे-दृश्यमानः अवलोक्यमानः चन्द्रः शशी एव सन्ध्याया एव आपीडः शिरोऽलङ्कारः तस्य उदय आविर्भावो यत्र तं तादृशम् । यद्वा-चन्द्रापीडो महेश्वरः तस्योदयो यत्र तं तादृशम् , सर्वदा सन्ध्याया नृत्यविधानादित्याशयः ।

नारायणेति । नारायणो विष्णुः तस्य वक्षःस्थलं भुजान्तरं तद्वदिव, श्रीसहितानि रत्नानि श्रीरत्नानि द्युतिविशिष्टमणयः तेषां प्रभाभिः कान्तिभिः भासिता दीपिता दिशां ककुभाम् अन्ताः शेषसीमा यस्य तत्तादृशम् । पक्षे-श्रिया लक्ष्म्या रत्नस्य कौस्तुभस्य च प्रभाभिः भासिता दिगन्ता यस्य तत्तादृशम् ।

बलेति । बलभद्रो वलरामः तमिव, कादम्बर्याः मद्यस्य रसविशेषवर्णने आकुला व्यग्रा मतिः लोकानां बुद्धिः यन्त्र तत्, यस्य च तं तादृशम् । राजकुलपक्षे—‘आकुलमति’ इति लिङ्गव्यत्ययो विधेयः ।

ब्रह्माणमिति । ब्रह्माणं ब्रह्मचारिणमिव, पद्मा राज्यश्रीः तस्याः आसनाय बहुकालपर्यन्तं स्थितये य उपदेश आचार्यैः तारापीडाय नीतिज्ञानदानं तेन दर्शितं प्रकटितं भुवः पृथिव्या मण्डलं व्यवहारो यत्र तत्तादृशम् । पक्षे-पद्मासनम्—

‘ऊरुमूले वामपादं पुनस्तु दक्षिणं पदम् । वामोरौ स्थापयित्वा तु पद्मासनमिति स्मृतम्’ ।

इत्यभिहितस्वरूपम् आसनविशेषः तस्य उपदेशः तज्ज्ञानप्रदानं दर्शितं तत्त्वज्ञानाय बोधितं भूमण्डलं यस्मै तं तादृशम् । ब्राह्मणमिति पाठे ब्राह्मणं द्विजमिव, पद्मासनोपदेशेन दर्शितभूमण्डलम् , पक्षे-पद्मासनो ब्रह्मा तस्योपदेशो वेदः तेन दर्शितं परेभ्यः प्रकाशितं भूमण्डलं येन स तं तादृशम् ।

स्कन्दमिति । स्कन्दः कार्त्तिकेयः तमिव, शिखिनः पोषितमयूराः तेषां क्रीडारम्भेण उद्धतनृत्योपक्रमेण चञ्चलं चहुलप्रायम् । पक्षे—शिखिनो वाहनीभूतमयूरस्व क्रीडारम्भेण नृत्यक्रीडोपक्रमेण चञ्चलः तदुपरि वर्त्तमानत्वेन स्पन्दितशरीरस्तम् ।

कुलेति । कुलाङ्गना कुलवधूः तस्याः प्रचारो बहिर्मार्गादौ गमनं तमिव, सर्वदा सर्वस्मिन् समये उपजाता सामान्यानां कुलाङ्गनायाश्च उत्पन्ना शङ्का भीतिः यन्त्र तत्, तच्च तादृशम् ।

वेद्येति । वेश्याजनो वाराङ्गनाजनः तमिव, उपचारे विद्यमानलीकाना सादरप्रार्थनायां चतुरं


धनके समान वह राजभवन भी सभी को अभीप्सित था। सन्ध्याकालमें जिस प्रकार सन्ध्याके शिरोभूषण चन्द्र का उदय देखनेमें आता है, उस राजभवनमें भी उसी प्रकार उस समय चन्द्रापीडका उदय देखनेमें आता था। नारायणका वक्षःस्थल जिस प्रकार लक्ष्मी और कौस्तुभ मणिकी प्रभाद्वारा दिशाओंको प्रकाशित करता है, वह राजभवन भी उसी प्रकार दीप्ति-संयुक्त मणियोंकी प्रभाद्वारा दिशाओंको प्रकाशित करता था। बलभद्रकी बुद्धि जिस प्रकार मद्यके रसमाधुर्य वर्णन करनेके लिए व्यस्त रहती थी, उस राजभवनके अनेक लोगोंकी बुद्धि भी उसी प्रकार मद्यके रसमाधुर्य वर्णन करनेके लिए व्यस्त रहती थी। ब्रह्मचारीको जिस प्रकार आचार्य तत्त्वज्ञानके लिए पद्मासनका उपदेश और जगत्तीनलके समस्त पदार्थोंको समझा देते हैं, उस राजधानीमें उसी प्रकार राजगुरुओंने राजलक्ष्मीको चिरस्थायिनी बनानेके लिए महाराज तारापीडको नीतिशास्त्रका उपदेश और भूमण्डलके आचार-व्यवहारोंको समझा दिया था। स्वामिकार्त्तिकेय जिस प्रकार अपने वाहन मयूरके नृत्यारम्भमें चञ्चल होते हैं, वह राजभवन भी उसी प्रकार पालतू मयूरोंके नृत्यारम्भसे चञ्चलप्राय होता था। कुलीन स्त्रियोंको जिस प्रकार प्रकाश्य-मार्ग (आम रास्ते) में चलनेके समयमें हर समय सन्देह उत्पन्न होता है, उस राजभवनमें भी उसी प्रकार साधारण मनुष्योंके हर समय सावधानता उत्पन्न कराई जाती थी। वेश्याके


१. दुरिततापहरम् । २. काङ्क्षणीयम् । काङ्क्षणीयं फलम् । ३. मतिम् ४. ब्राह्मणमिव ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 321, कुल 709 में से · BharatKosha