भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 320, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 320

रावकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । २८१

मिवानकस्थानावस्थापितमृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्¹, ज्यौतिषमिव ग्रह-मोक्ष-कला भाग-निपुणम्, नारदीयमित्र, वर्ण्यमानं-राजधर्मम्, यन्त्रमिव विविध-शब्द-रस-लब्धा-स्वादम्, मृदुकाव्यमिवान्य-चिन्तित-स्वभावाभिप्रायवेदकम्³, महानदी-प्रवाहमिव सर्वदुरि-

वाद्यत्रयस्य भवनं गृहमिव, अनेकेषु विविधेषु स्थानेषु अवस्थापिता न्यस्ताः, मृदः अङ्गानि करचरणाद्यवयवा यासां ता मृदङ्गा मृत्युत्तलिकाः सुरजाश्च यत्र तत्तादृशम् ।

रघुकुलमिति । रघुकुलमिव, भरता नटाः तेषां गुणैः अभिनय कौशलैः, भरतस्य केकयीसुतस्य गुणैः दयादाक्षिण्यादिभिश्च आनन्दितं प्रमोदितम् ।

ज्यौतिषमिति । ज्यौतिषं ग्रहनक्षत्रादिबोधकं शास्त्रं तदिव, ग्रहो ग्रहणं प्रतिकूलाचरणानामाग्रह्दीकरणम्, मोक्षो निश्चितकालव्यतीते दण्डितानां तेषां कारागृहान्मोचनम्, कलानृत्यगीतादिचतुःषष्टिविद्याः, भागः शास्त्रमनतिक्रम्य धनविभक्तरूपं तेषु निपुण दक्ष जनेन इत्यर्थः यत्र तत्तादृशम्। पक्षे-ग्रहः सैंहिकेयेन चन्द्रसूर्ययोर्ग्रहणम्, मोक्षः तयोस्तस्मान्मुक्तिः, कला पञ्चपलात्मकः समयः, भागश्च पञ्चदण्डात्मकः समयः तेषु तत्प्रतिपादनेषु इत्यर्थः निपुणं दक्षम् ।

नारेति । नारदीयं नारमज्ञानं यति खण्डयतीति नारदः सुरर्षिः तेन प्रोक्तं पुराणं नारदीयं तदिव, वर्ण्यमाना निरूप्यमाणाः राजधर्मा यत्र तत्तादृशम् । नारदीयपुराणेऽपि राजधर्मनिरूपणोपलम्भात् ।

यन्त्रमिति । यन्त्रं वीणादिकमिव, विविधा नानाप्रकारा ये शब्दाः योजितवाक्यानि तेषां ये रसाः शृङ्गारादयः तेषां लब्धः काव्यकौशलैः प्राप्तः आस्वादश्रवणं यत्र तत्तादृशम्। पक्षे विविधा ये शब्दाः वीणोत्थितध्वनयः तेषां रसस्य साङ्गीत्यस्य लब्धः श्रवणकर्तृभिः प्राप्तः आस्वादश्रवणं यस्मात्तत्तादृशम् ।

मृद्विति । मृदु सुकुमारं प्रसादगुणयुक्तमित्यर्थः काव्यं कविकर्म तद्वदिव, अन्यैः अन्यस्यानस्थायिपुरुषैः चिन्तितः चिन्तामात्रविषयीकृतः न तु प्राप्त इत्याशयः, यः स्वभावः प्रकृतिः, अभिप्रायः तत्र स्थितपुरुषाणामाशयश्च तयोः आवेदकं बोधकम्, पक्षे-अन्यैः प्रतिपादकातिरिक्तैः पुरुषैः चिन्तितः केवलश्रवणेन ज्ञातः यः स्वभावः स्वार्थाभिप्रायः प्रतिपाद्यकस्याशयः तात्पर्यविषयीभूताशाय इति भावः, तयोरावेदकं द्योतकम्। प्रसादगुणविशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः ।

महेति । महानद्या वृहन्नदिन्याः गङ्गादेः प्रवाह ओघः तमिव, सर्वेषां समस्तानां दुरितानां दुष्टलोकदुर्व्यवहाराणाम् अपहरं तत्तत्त्वविदुषां सदुपदेशात् विनाशकम्। पक्षे-सर्वाणि यानि दुरितानि पापानि तेषाम् अपहरं स्नानाकरणेन नाशनजनकम् ।

भवनमें भी उसीप्रकार स्थान-स्थान पर मृत्तिकाकी पुतलिया रक्खी थी। रघुकुल जिसप्रकार भरतके गुण (दया-दाक्षिण्यादि) से आनन्दित हुआ था, वह राजभवन भी उसीप्रकार नटोंके गुण (अभिनयादि नैपुण्य) से आनन्दित था। ज्योतिषशास्त्र जिसप्रकार चन्द्र और सूर्यके ग्रहण और मुक्ति, कला (पञ्चपलात्मक समय), एवं भागके (पञ्चदण्डात्मक समयके) प्रतिपादनमें समर्थ है, उस राजभवनमें अनेक व्यक्ति (मन्त्री आदि) भी उसी प्रकार दुर्जनोंको बँधवानेमें, निर्दिष्ट समय बीत जाने पर उसे कारागार (जेल) से छुड़वानेमें, नृत्यगीतादि कलाविद्याओंका शास्त्रानुसार द्रव्यों का विभाजन करानेमें समर्थ थे। नारदीय पुराणमें जिस प्रकार समस्त राजधर्मो का वर्णन है, उस राजभवनमें भी उसी प्रकार सब राजधर्म रक्षित थे। वीणादिख वाद्ययन्त्रों से सुननेवाले जिस प्रकार अनेक प्रकार शब्दमाधुर्योके रसका आस्वादन पाते थे। उस राजभवन में काव्यों को जानने वाले भी उसी प्रकार अनेक प्रकारके काव्य-रसोंका आस्वाद पाते रहते हैं। प्रसाद गुणसे युक्त काव्य जिस प्रकार श्रवणमात्रसे ही साधारण मनुष्य चिन्तन कर सकें ऐसे अभिप्रायों और प्रकृतियोंके वर्णन को व्यक्त करता है, वह राजभवन भी उसी प्रकार दूसरेके केवल चिन्ताविषयीभूत अपनी असाधारण चमत्कारिता, और तत्तला बनोंका सदभिप्राय को व्यक्त करता है। गङ्गादि महानदियोंका प्रवाह जिस प्रकार समस्त पापोंको दूर करता है, वह राजभवन भी उसी प्रकार ज्ञानियोंके उपदेश द्वारा सद् लोगोंके दुराचरणों को दूर करता है।


१. भरतकुलानन्दितम्। २. लावण्यंमान ...। ३. अनन्य ...। ४. वेदकम्।
१८ का०