कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 32, कुल 709 में से
संदर्भ में पढ़ेंप्रस्तावना ३१
मनुभूय 'विद्योतिनी' नामिकया राष्ट्रपदनियुक्त्या हिन्दीभाषयाऽप्यनूदितः । प्रस्तावनान्ते च सौकर्येणार्या- वबोधनाय हिन्दीभाषयैव कादम्बरीसमीक्षोपनिवद्धा तथा तत्सारोऽप्युपनिवद्धः ।
अत्रेदमवधेयम्—कस्याप्यनुवादस्य भागत्रयं भवितुमर्हति । यथा—उपाख्यानानुवादः, भावानुवादः, भाषानुवादश्चेति । तत्रोपाख्यानानुवादे ह्यनुवादको मूलाक्षरमगणयित्वैव स्वातन्त्र्येण प्रवृत्ततीति सर्वा- पेक्षया सुगमः सः, किन्तु तथाविधेनानुवादेन ग्रन्थार्थकरणे चोपकारस्तादृशो न भवति यादृशोऽभिल- षितः । एतदपेक्षया मौलिकभावमादाय प्रवृत्तो भावानुवादो मूलार्थबोधने किञ्चित्साहाय्यं सम्पादयति । भाषानुवादो हि मूलभावस्य भाषायाश्च द्वयोरपि पूर्णरूपेणाधीनीभूय एव मूलार्थसाधुस्फोरकोऽनुवादक- कृते निरतिशयकाठिन्यं जनयति । तत्राप्येतद्ग्रन्थात्यधिकक्लिष्टत्वस्य सर्वानुभवसिद्धत्वेन तस्य भाषा- नुवादविधानं न तादृशं सरलमिति विवेचकानां पुरतोऽतिरोहितमेव । अतोऽत्र केवलं साहसं विधायैवै- तत्सम्पादयितुं प्रवृत्तोऽहम्, परन्तु कियत्साफल्यं सञ्जातं तत्र प्रेक्षाः सहृदया एव प्रमाणम् ।
विशेषतो वक्तव्यमिदमेव यत्—'एकानुपूर्वीकवाच्यवाच्यत्वरूपं'-सामान्यधर्ममादाय ग्रन्थकारेण सर्वत्र पूर्णोपमाः समुन्मीकृताः । यासां संस्कृतव्याख्यानं तु विशदरूपेण कथञ्चिद् भवत्यपि, किन्तु तादृश- स्थले भाषानुवादकरणे महाक्लेशः सञ्जायते । दिङ्मात्रं यथा-'उषानिरुद्धसमागममिव । चित्रलेखादर्शित- विचित्र-सकल-त्रिभुवनाकारम्' ( का० पृ० २७६ पृ० ) एतस्यानुवादो ह्येवमपि भवितुमर्हति यत्—
'उषा और अनिरुद्धके समागमके समान चित्रलेखामें दिखलाया गया है विचित्र समस्त त्रिभुवनका स्वरूप जहाँ पर ऐसा वह राजभवन था ।'
किन्वेतादृशानुवादकरणे सादृश्यं न तिष्ठति तथानुवादोऽप्यसम्पूर्ण एव तिष्ठति, अतोऽगत्यैवमनुवादो विधीयते यत्—
'उषा अनिरुद्ध के समागममें जिस प्रकार उषाकी सखी चित्रलेखाने समस्त त्रिभुवनके युवक पुरुषोंकी आकृतिका चित्र खींचकर उषाको दिखाया था, उस राजभवनमें भी उसी प्रकार चित्रकारों द्वारा समस्त त्रिभुवनका सभी पदार्थोंके अनेक प्रकारकी आकृतिका चित्र दीवार पर खींचकर लोगोंको दिखलाया गया था ।'
अत्र ह्येवंविधानुवादं विलोक्य साधारणपुरुष एवानुवादकं दूषयिष्यति, किन्तु विवेचकपाठका हृदयेन सानन्दं नूनं जिघृक्षिष्यन्तीति द्रढीयान् मे विश्वासः । कादम्बर्यां पूर्णोपमाया अनेकस्थलेषु विद्यमानत्वात् तत्र अत्रैवंविधा एवानुवादाः सञ्जाताः । वहुषु स्थलेषु संस्कृतटीकया साधुस्फोरणे कृतेऽपि यत्र भाषानु- वादे कोऽप्युपायो न लक्षितस्तत्र भावानुवाद एव गृहीतः । एतद्ग्रन्थकृतपूर्वव्याख्यातॄणामनुवादकर्तॄणाञ्च साहाय्येनैतत्सम्पादनं मया कृतमिति तेषामानृण्यं शिरसा धारयामि ।
एतत्सर्वं गीर्वाणवाग्विल्ललितालवालकल्याणां धर्मनयविनयमनस्वितादिगुणविभूषितानां देशकु- लजातिशास्त्राचारादिसमस्तसनातनधर्ममर्यादापालनतत्पराणां देशप्रसिद्धवङ्गकुलकमलदिवाकराणां दिगं- तयशासां काव्यकाननपञ्चाननानामस्मत्साहित्यशास्त्रगुरुवराणां कविचक्रवर्त्ति-श्री १००८ ताराचरणभट्टाचार्य्य- महाशयानां स्वदेशीया-व्या० सा० तीर्थ-विद्यालयद्वारानकशिष्योपशिष्ययुतपण्डितप्रवर-वेगुसरायस्थ- 'श्रीसरस्वती विद्यालय'-प्रधानाध्यापक-श्रीगेनालालशर्मा-गुरुवराणाञ्च द्वयोदयमधुरदृशा सम्पन्नम् ।
ग्रन्थस्यास्य यत्र तत्र मूलपाठसंशोधने पाठान्तरविधाने चाहं प्रियसुकृद्वर-काशीस्थ-'राजकीय संस्कृतमहाविद्यालय'-न्यायाध्यापक-न्याय-वेदान्ताचार्य-काव्य-दर्शनतीर्थ-श्रीसुरेन्द्रनाथद्विवेदी महाभा- गमग्रत्यनेपालदेशीय 'हरिहर-संस्कृत-विद्यालय' प्रधानाध्यापक-व्या० सा० सां० पुराणाचार्य-श्रीकृष्ण- मणित्रिपाठि महाभागं च मुहुर्मुहुः स्मरामि, अभिनन्दामि च तदुपकारसहस्रमजस्रम् ।
सम्पादने चास्मिन् परोपकारवद्धपरिकर सुरभारतीसंरक्षणतत्परनिजपितृस्मारक-'श्रीभवानीशङ्कर- संस्कृतमहाविद्यालय'सञ्चालक-काशीविश्वनाथमन्दिराध्यक्ष-श्रीरामशङ्करत्रिपाठिमहाभागानाम, भूमिकाले- खनकार्ये विविधसहायकपुस्तकप्रापकाणां विविधवानवद्यविद्याविभूषित-विद्याभास्कर-शास्त्राचार्य-श्रीदेवी- नारायणप्राङ्विवाक ( एडवोकेट ) महाभागानाञ्चोपकृतिसहस्रमजस्रमभिनन्दामि ।