भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 338, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 338

प्रदोषवर्णना-३२ ] चन्द्रकला-विद्योतिनीसहिता । २९९

स्त्विव तिमिरलेखासु स्फुरन्तीषु दिशां$^१$ मुखेषु, अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरनिकरेण$^३$ उत्सार्यमाणे सन्ध्यारागे, कमलिनी-निपीतमातपमुन्मूलयितुमन्धकारकरप-ल्लवेष्विव$^४$ प्रविशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैः शनैश्च निशाविलासिनीमुखाव-तंस-पल्लवे गलिते सन्ध्यारागे, दिक्षु$^६$ विक्षिप्तेषु सन्ध्यादेवतार्चन$^७$-बलिपिण्डेषु, शिखर-देश-लग्नतिमिरास्वनारूढमयूरारस्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु, गवाक्षविवरनिलोनेषु प्रासा-दलक्ष्मीकर्णोत्पलेष्विव$^८$ पारावतेषु विगतविलासिनीसंवाहन-निश्चले$^९$ काञ्चन-पीठासु$^{१०}$ मूकीभूत-

लोहितत्वात् विकसितकमलिनीस्वरूपायां सन्ध्यायां समुल्लसितायां प्रकाशं प्राप्तायां सत्याम् ।

इहान्तरे तडागत्वारोपः सन्ध्यायां विकचकमलिनीत्वारोपे निमित्तमिति परम्परितरूपकमलङ्कारः ।

कृष्णेति । कृष्णागुरुपङ्कः गाटकाकतुण्डद्रवः तस्य पत्रलतासु पत्रसदृशचिह्नविशेषेष्विव तिमिर-लेखासु अन्धकारपरम्परासु दिशां ककुभां मुखेषु भागेषु आननेषु च, स्फुरन्तीषु प्रसरन्तीषु सतीषु ।

इहान्धकारपरम्पराणां पत्रलतासादृश्यं शाब्दम्, दिशां श्रोसादृश्यन्तु प्रतीयमानमित्येकदेशविव-र्त्तिरूपकमलङ्कारः ।

अलिकुलेति । अलिकुलमलिनेन भ्रमरसमूहाच्छादिततया मलिनेन कुवलयवनेन नीलोत्पलसमूहेन रक्तकमलाकरे रक्तकमलसरोवरे इव, अलिकुलवन्मलिनेन तिमिरनिकरेण अन्धकारजालेन सन्ध्यारागे उत्सार्यमाणे पूर्वमाणे दूरीक्रियमाने च सति । इहोपमा ।

कमलिनीति । कमलिनीभिः नलिनीभिः निपीतं दिवसे निगीर्णम् आतपं सूर्यरश्मिम् उन्मूलयितुं स्ववैरित्वाद्‌उत्पाटयितुम् अन्धकाराणां तिमिराणां करपल्लवेष्विव नीलत्वसादृश्यात् विस्तारितहस्तेष्विव मधुकरकुलेषु भ्रमरसमूहेषु, रक्तकमलानां रक्तपद्मानाम् उदराणि अभ्यन्तराणि प्रविशत्सु प्रवेशं कुर्वत्सु सत्सु, निगीर्णद्रव्याणामुदरेष्वेव विद्यमानत्वादित्याशयः । इह जात्युत्प्रेक्षा ।

शनैरिति । निशा रात्रिरेव विलासिनी भूषणप्रिया रमणी तस्या मुखस्य अग्रभागस्य आननस्य च अवतंसपल्लवे लोहितत्वसादृश्यात् भूषणभूतकिसलयस्वरूपे सन्ध्यारागे शनैः शनैः मन्दं मन्दं गलिते दूरीभूते च सति । इह परम्परितरूपकम् ।

दिक्ष्विति । सन्ध्यायां सायंसमये यानि देवतार्च्चनानि वास्त्वादिपूजाः तेषां बलिपिण्डेषु उपायनी-भूतान्नादिद्रव्येषु दिक्षु पूर्वादिषु विक्षिप्तेषु साधकविकीर्णेषु सत्सु ।

शिखरेति । शिखरदेशे ऊर्ध्वप्रदेशे लग्नं तिमिरम् अन्धकारो यासां तासु, अत एवं अनारूढः अनाश्रितो मयूरो नीलकण्ठो यासु तास्वपि मयूरयष्टिषु, मयूरावस्थानदण्डेषु मयूराधिष्ठितास्विव सतीषु । अमग्नभ्रान्यकारस्यैव नीलकण्ठवत् प्रतीतेरित्याशयः ।

इह पदार्थहेतुककाव्यलिङ्गालङ्कारेण क्रियोत्प्रेक्षालङ्कारः सङ्कीर्यते ।

गवाक्षेति । प्रासादलक्ष्मीः अट्टालिकाश्रीः तस्याः कर्णोत्पलेष्विव कर्णभूषणभूतनीलोत्पलेष्विव, गवा-क्षाणां कर्णतुल्यदेशस्थायित्वात् कपोतानाञ्च तदुपलतुल्यनीलत्वादित्याशयः, पारावतेषु गृहकपोतेषु गवा-क्षविवरेषु वातायनच्छिद्रेषु निलीनेषु तूष्णींभूय विद्यमानेषु सत्सु । जात्युत्प्रेक्षा ।

विगतेति । विगतेन दूरीभूतेन विलासिनीनां दोलनप्रियागां सुन्दरीणां संवाहनेन दोलनेन करणेन, निश्चलानि निष्क्रियाणि काञ्चनपीठानि सुवर्णरचितोपवेशपीठानि यासां तासु तयोक्तासु, अन्तःपुरस्य


चिह्नके समान अन्धकारकी पङ्क्तियाँ दिशाओंके मुखमें फैलने लगीं, भ्रमरोंके बैठनेसे मलिनवर्ण नीलोत्पलसमूह जिसप्रकार लालकमलके सरोवरको आच्छादित करते (ढक लेते) हैं, उसी प्रकार अन्धकारसमूह सन्ध्याके रागको दूर करने लगे; कमलिनियों सायङ्काल तक सूर्यकी किरणों का जो पान किया था, उसे निकालनेके लिए अन्धकारके फैलाए हुए हाथके समान भ्रमरोंके झुण्ड, लाल कमलके उदरमें प्रवेश करने लगे; निशारूप विलासिनीके मुखका अलङ्कारपल्लवस्वरूप सन्ध्याकी लालिमा धीरे-धीरे दूर होने लगी; साधकगण, सन्ध्याकालीन देवपूजाके उपहारद्रव्य (बलिपिण्ड) प्रत्येक दिशामें रखने लगे; मयूरोंके बैठनेकी डंडोंकी चोटियों पर अन्धकार व्याप्त हो जानेसे उस स्थानमें मयूरोंके नहीं बैठने पर भी मानो, वे उन पर बैठे हुए हों ऐसा प्रतीत होने लगा; प्रासादलक्ष्मीके कर्णके नीलोत्पलके समान कबूतर झरोखोंमें निस्तब्धसे रहने लगे; विलासिनीियोंके इस समय बैठ कर नहीं झूलते रहनेसे


१. दिशांमुखेषु । २. अलिकुलेन मलिनेषु । ३. तिमिरेण । ४. अन्धकारपल्लवेष्विव । ५. विगतल्ल । ६. दिक्षु दिक्षु । ७. ...'अर्चन'... । ८. कर्णोत्पलेषु । ९. ...'निश्चलासु । १०. काञ्चनपीठिकासु ।