कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 344, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडविश्रामादिव०-३४ ] चन्द्रकला-विद्योतिनीसहिता । ३०५
अवतीर्य्य^१ च तुरङ्गमात् ससम्भ्रम-प्रधावित-परिजानोपनीते समुपविश्य^२ आसने वार-बाणमवतार्य्य; अपनीय चाशेषं तुरङ्ग^३विरोहोणोचितं वेशपरिग्रहम्, इतस्ततः प्रचलित-ताल-वृन्त-पवनापनीयमानश्रमो मुहूर्त्तं विशश्राम । विश्रम्य च मणि-रजत-कनक-कलश-शत-सना-थामन्तर्विन्यस्त-काञ्चनपीठां स्नानभूमिमगात् । निर्वर्त्तितोऽभिषेकव्यापारस्य च विविक्त-वसन-परिमृष्टवपुषः स्वच्छदुकूल-पल्लवाकलित^५-मौलेर्गृहीतवाससः^६ कृतदेवतार्चनस्य^७ अङ्गराग-.. भूमौ समुपविष्टस्य राज्ञा विसर्जिता महाप्रतीहाराधिष्ठिता राजकुलपरिचारिकाः, कुलवर्द्ध-नासनायाश्च विलासवती-दास्यः, सर्वान्तःपुरप्रेषिताश्चान्तःपुर-परिचारिकाः पटल-विनि-हितानि विविधान्याभरणानि माल्यान्यङ्गरागान्^९ वासांसि चादाय पुरस्तदस्योपतस्थुः, उपनि-
अवतीर्येति । तुरङ्गमात् अश्वात् अवतीर्य अवरोहं कृत्वा ससम्भ्रमं सजबं प्रधावितः शीघ्रगत्या गतः यः परिजनः सेवकः तेन उपनीते उपस्थापिते, आसने विष्टरे उपविश्य, वारबाणं कञ्चुकं कवचमित्यर्थः । अवतार्य देहादुन्मुच्य, तुरङ्गाधिरोहणोचितम् अश्वारोहणयोग्यम् अशेषं समग्रं वेशपरिग्रहं वेशपरिच्छदम् अपनीय दूरीकृत्य, इतस्ततः प्रचलितानि परिजनान्दोलनेन स्पन्दितानि यानि तालवृन्तानि व्यजनानि तेषां पवनैः वातैः अपनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तादृशः मुहूर्त्तं किञ्चित्कालं विशश्राम विश्रामं कृतवान् ।
विश्रम्येति । विश्रम्य विश्रामं कृत्वा, मणयः चन्द्रकान्ताद्याः, रजतं रौप्यम्, कनकं सुवर्णम्, एतेषां ये कलशाः कुम्भाः तेषां शतेन समूहेन सनाथाः सहिताः ताम्, तथा अन्तर्मध्ये विन्यस्तं स्थापितं काञ्चनपीठं यस्यास्तां तादृशीम्, स्नानभूमिम् आप्लवनस्थानम् अगात् जगाम ।
निर्वर्त्तितेति । निर्वर्त्तितो निष्पादितः अभिषेकव्यापारः स्नानक्रिया येन तस्य तादृशस्य, विविक्तं पवित्रं यद् वसनं वस्त्रं तेन देहमार्जन्येत्यर्थः परिमृष्टं संवकेन जलरहितीकृतं वपुः शरीरं यस्य तस्य तादृशस्य, स्वच्छेन विशदेन दुकूलपल्लवेन विस्तृतक्षौमवस्त्रखण्डेन आकलितो बद्धो मौलिः संयतकेशसमूहो येन तस्य तादृशस्य, गृहीतवाससः परिहितवसनस्य, कृतं विहितं देवतार्चनं नित्यिकदेवतापूजा येन तस्य तादृशस्य अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य कृतोपवेशनस्य तस्य चन्द्रापीडस्य, अग्रत इति सम्बन्धः, राज्ञा भूपतिना विसर्जिताः, प्रेषिता महा प्रतीहारेण द्वारपालाध्यक्षेण अधिष्ठिताः पाल्यत्वेनाश्रिताः राजकुलपरिचा-रिकाः नृपकुलसेवाकारिण्यः कुलवर्द्धनया पूर्वप्रतिपादितपरिचारिकाविशेषेण सनाथा युक्ताः, विलासवती-दास्यः कुमारजननीकूटदहारिकाः । सर्वैःन्तःपुरैः निखिलान्तःपुरस्थाङ्गनाभिः प्रेषिताः प्रेरिताः, पटल्के पेटि-कामध्ये विनिहितानि स्थापिनानि विविधानि नानाप्रकाराणि आभरणानि भूषणानि माल्यानि पुष्पदा-मानि अङ्गरागान् विलेपनानि, वासांसि वस्त्राणि आदाय गृहीत्वा उपतस्थुः स्थिता बभूवुः, उपनिन्युः तानि तानि चन्द्रापीडाय ददुश्च ।
समर्पने, तेज दौड़े पर बैठे, दौड़े कवकिट (दचे हुए) राजपुत्रोंके साथ उस शिकारकी ही आलोचना करता था।
चन्द्रापीड भवनमें आकर घोड़ेसे उतर गया। बादमें किसी सेवकने जल्दीसे दौड़कर एक आसन (कुर्सी) रख दी। वह उस पर बैठ कर, शरीरसे कवच उतार कर, घुड़सवारीके योग्य सब वेश-भूषाओंको उतार दिया। तदनन्तर सेवकगण चारों ओर पंखा हिलाकर, उसको हवा करने लगे। उनकी हवासे चन्द्रापीडकी थकावट दूर हो गई और उसने क्षण भर विश्राम (आराम) किया। विश्रामके बाद वह स्नानगृहमें गया। उस स्थानमें रत्नमय, रौप्यमय और सुवर्णमय बहुसंख्यक कलश रखे हुए थे एवं उसके बीचमें सुवर्णकी एक चौकी रखी थी। वहाँ जाकर चन्द्रापीडने विधिवत् स्नान किया। उसके बाद किसी शुन्यने पवित्र (स्वच्छ) अङ्गोछे (तौलिया आदि) से उसका शरीर पोंछ दिया। बादमें उसने निर्मल और विस्तृत रेशमी कपड़ेसे शिरमें साफ़ा बाँधकर अन्य वस्त्रोंको पहन लिया। जब वह ठाकुरजी की पूजा कर अङ्गरागशालामें जा बैठा तब, वहाँ प्रधान द्वारपालको आगे कर, महाराज (तारापीड़) के भेजे हुए राजकुलके सेवक, कुलवर्धनासहित विलासवती महारानी की दासियाँ एवं अन्यान्य रानियों द्वारा भेजी हुई अन्तःपुर (रनिवास) की दासियाँ, पेटियोंके अन्दर रखे हुए अनेक आभूषण, माल्य, अङ्गरागद्रव्य और वस्त्र लेकर चन्द्रापीड़के समक्ष उपस्थित हुई और उन वस्तुओंको उसको
१. वतीर्य्य । २. उपविश्य । ३. तुरङ्ग । ४. निर्वर्त्तितु..... । ५. "...माकुलित...." । ६. गृहीत-धौतवाससः । ७. कृतदेवतार्चनस्य । ८. ...'परिचारिकाः । ९. माल्याङ्गरागान् ।