भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 345, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 345

३०६ कादम्बरी- [ कथामुखम्-

न्यश्वे॑। यथाक्रममादाय च ताभ्यः प्रथमं स्वयमुपलिप्य वैशम्पायनमुपचितोङ्गरागो दत्त्वा च समीपवर्त्तिभ्यो यथार्हमाभरण-वसनाङ्गराग-कुसुमानि विविध-मणिभाजन-सहस्रशारं शारदमम्बरतलमिव स्फुरिततारागणमाहारमण्डपमगच्छत् । तत्र च द्विगुणीकृत-कुथासनोपविष्टः समीपोपविष्टेन तद्गुणोपवर्णनैनपरेण वैशम्पायनेन॑ यथार्हं भूमिभागोपवेशितेन राजपुत्रलोकेन ‘इदमस्मै दीयताम् इदमस्मै दीयताम्’९ इति प्रसादं -विशेष-दर्शन-संवर्द्धित सेवारसेन च सहाहार-विधिमकरोत् । उपस्पृश्य च गृहीतताम्बूलस्तस्मिन् मुहूर्त्तमिव स्थित्वा इन्द्रायुधसमीपमगमत्" । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्रायालापाः कथाः कृत्वा सत्यप्याज्ञाप्रती-

यथेति । प्रथमम् अङ्गरागद्रव्याणि पश्चात् पुष्पमाल्यानीत्येवं क्रममनतिक्रम्येति यथाक्रमम् । ताभ्यः सर्वदासीभ्यः, आदाय तानि तानि गृहीत्वा, स्वयं आत्मनैव प्रथमं पूर्वं वैशम्पायनं शुकनासात्मजम् उपलिप्य अङ्गरागद्रव्येणेति शेषः । एतेन प्रेमातिशयस्तस्मिन्निति प्रत्याय्यते । पश्चात् स्वयम् उपचितः कृतः अङ्गरागो विलेपनं येन स तादृशः, समीपवर्त्तिभ्यो निकटवर्त्तिभ्यो राजपुत्रेभ्य इति शेषः, यथार्हं यथायोग्यम् आभरणवसनाङ्गरागकुसुमानि भूषणवस्त्रविलेपनपुष्पाणि च दत्त्वा विस्तीर्य, विविधानां नानारूपाणां मणिभाजनानां रत्नमयभोजनपात्राणां सहस्रेण समूहेन शारं विचित्रम् अतएव स्फुरित उड्डीतः तारागणो नक्षत्रमण्डलं यत्र तत्तादृशम्, शारदं शरत्सामयिकम् अम्बरतलम् आकाशमिव विद्यमानम्, आहारमण्डपं भोजनगृहम् अगच्छत् अगमत् । उपमा ।

तत्रेति । किञ्चेति चार्थः । तत्र आहारमण्डपे, द्विगुणीकृते द्विरावर्त्य संस्थापिते कुथासने कम्बलासने ‘कुथः स्त्रीपुंसयोर्वर्गकम्बले' इति मेदिनी, उपविष्टः उपवेशनं कृतवान् राजपुत्रः तस्य चन्द्रापीडस्य समीपोपविष्टेन निकटमुपविशता, तद्गुणोपवर्णनपरेण चन्द्रापीडप्रशंसासक्तेन वैशम्पायनेन अग्रेतनसहशब्दयोगे ‘सह युक्तेऽप्रधाने' इत्यनेन तृतीया । तथा यथार्हं यथायोग्ये भूमिभागे उपवेशितेन स्थापितेन ‘अस्मै इदं दीयताम्' 'अस्मा इदं दीयताम्' इति पूर्वाक्तप्रकारेण दीयतामिति परिवेषकं प्रत्यनुज्ञा प्रसादः अनुग्रहः तस्य विशेष आधिक्यं तस्य दर्शनेन प्रकटनेन संवर्धितः वृद्धि प्रापितः सेवारसः स्वानुगत्येऽनुरागो यस्य तेन तादृशेन, राजपुत्रलोकेन नृपात्मजवर्गेण च सह, आहारविधिं भोजनकार्यम् अकरोत् कृतवान् ।

उपेति । उपस्पृश्य आचमनं विधाय ‘उपस्पर्शस्त्वाचमनम्' इत्यमरः । भोजनानन्तरमाचमनविधानं च नारदेन स्पष्टमुक्तम्-

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः । पीत्वापोऽध्येय्यमाणश्च आचामेत् प्रयतोऽपि सन् ॥"

गृहीतम् आप्तं ताम्बूलं नागवल्लीदलं येन स तादृशः, तस्मिन् आहारमण्डपे मुहूर्त्तमिव क्षणमिव स्थित्वा इन्द्रायुधसमीपम् इन्द्रायुधनाम्नाश्वनिकटम्, अगमत् ययौ । इहेशवब्दो वाक्यालङ्कारे ।

तत्रेति । किञ्चेति चार्थः । तत्र इन्द्रायुधनिकटे, अनुपविष्ट एव उत्थित एव, तस्य इन्द्रायुधस्य ये गुणाः वेगातिरेकादयः मनोभावानुसारं स्थित्यादिकाः मुखमण्डले निर्मांसत्वादयश्च तेषामुपवर्णनं तस्यैव

भेंट की। चन्द्रापीड़, उन सबोंके समीपसे उन समस्त वस्तुओंमें से एक-एक वस्तु लेकर, पहले अपनेसे ही वैशम्पायनके शरीरमें अङ्गराग द्रव्य लेप कर, फिर अपना अङ्गराग कर, समीपमें बैठे हुए राजपुत्रोंको यथोचित आभूषण, वस्त्र, अनुलेप और पुष्प देकर, आहार-मण्डप (भोजन-गृह) में चला गया। उस गृहमें नानाविध रत्नमय भोजनके पात्र रखे रहनेसे वह बहुत ही विचित्र हो गया था, अतएव चमकने तारागणवाले शरत्कालीन आकाशके समान वह दृष्टिगोचर हो रहा था। चन्द्रापीड़ वहाँ जाकर, दुगुने करके बिछाये हुए कम्बलासन पर बैठ गया। वैशम्पायन पासमें बैठ कर उसके गुणोंका वर्णन करने लगा। उस समय चन्द्रापीड, वैशम्पायन द्वारा राजपुत्रोंको यथोचित स्थान पर बैठा कर, परोसने वालोंसे कहने लगा कि-‘यह वस्तु इनको दो और यह वस्तु उनको दो' इस प्रकार वह विशेष अनुग्रह दिखाने लगा, जिससे उसके प्रति राजपुत्रोंकी भी सेवा करनेकी इच्छा बढ़ने लगी। इस रूपसे चन्द्रापीड़ने उन लोगोंके साथ भोजन कार्य सम्पन्न किया। भोजनके बाद आचमन कर, पान ले, उस घरमें ही कुछ देर बैठ, इन्द्रायुधके पास गया। वहाँ जाकर खड़े-खड़े ही राजपुत्रोंके साथ अनेक प्रकार की बात-चीत करने लगा, उसके बीचमें इन्द्रायुधके गुणोंका वर्णन ही अधिक


१. उपनिन्युश्चोपनीयानि च । २. उपराचिताङ्गरागः । ३. ॰॰॰सारं, शाराम्बर॰॰॰ । ४. द्विगुणिन ॰॰ । ५. ॰॰॰वर्णन॰॰॰ । ६. सह ! ७. यथार्हं । ८. सह राज॰॰॰ । ९. क्वचित् द्विवारं नोपलभ्यते । प्रदीयताम् । १०. क्वचित् ‘प्रसाद' इति पदं नास्ति॰॰॰ । ११. अगात् ।