कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 354, कुल 709 में से
संदर्भ में पढ़ेंशुकनासोपदेशव-३५ ] चन्द्रकला-विद्योतिनीसहिता : [ १९५
प्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः। अनुज्झितधवलतापि सरागेव भवति यूनां दृष्टिः। अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिक्षुरम् आत्मैच्छया यौवनसमये पुरुषं प्रकृतिः। इन्द्रियरिणहारिणी च सततमतिदुरन्तेयम् उपभोगमृगतृष्णिका नवयौवनक[षा]यितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः।
हेतुत्वात्, तेन प्रक्षालनेन निर्मलापि स्वच्छाऽपि बुद्धिः प्रज्ञा कालुष्यं समलत्वम् उपयाति प्राप्नोति इति विरोधः रागद्वेषादिषु संकुलमुपयातीति तत्परिहारः। तवाडप्येतं सम्भवादयमुपदेश इत्यभिप्रायः। एवमग्रेऽप्यनुसन्धेयम्।
शास्त्रमेव जलमित्यत्र निरङ्गकेवलंरूपकम्, निर्मलापि कालुष्यमुपयातीत्यत्र विरोधाभासः, अनयोश्चाङ्गाङ्गिभावेन सङ्करालङ्कारः।
अनुज्झितेति। अनुज्झिता अपरित्सक्ता धवलता श्वेतता यया सा तादृशी सत्यपि यूनां दृष्टिः तरुणानामवलोकनम्, सरागेव रक्तिमान्वितैव भवतीति विरोधः सुन्दर्यादावनुरागसहिता भवतीति तत्समाधानम्। विरोधाभासः।
अपहरतीति। क्लिन्नेति चार्धः। यौवनसमये तारुण्यकाले, समुद्भूता समुत्पन्ना रजसा रजोगुणेन भ्रान्तिः भ्रमः अतस्मिंस्तद्वुद्धिरिति तात्पर्यम् यस्यां सा तादृशी, पक्षे-समुद्भूता रजसां रेणूनां भ्रान्तिः भ्रमिः घूर्णनमिति यावन् यया सा तादृशी, प्रकृतिः स्वभावः, वात्या वातकणिका वातसमूह इत्यर्थः शुष्कपत्रमिव नीरसदलमिव पुरुषं नरम, आत्मैच्छया स्वेच्छया निर्वाधमित्यर्थः, अतिदूरं बुद्धेरगोचरम् अगम्यानिकटादिकमित्यर्थः, पक्षे-अतिविप्रकृष्टदेशम् अपहरति नयति। अयं खलु तारुण्यप्रकृतिरित्याशयः। उपमा।
इन्द्रियेति। क्लिन्नेति चार्थः। अतिदुरन्ता अत्यन्तदुर्निवारा, इयम् सततं निरन्तरम् उपभोगः रम्यादिसम्भोगाभिलाषैव मृगतृष्णिका मरीचिका, इन्द्रियाणि करणान्येव हरिणान् मृगान् हरतीति सा तादृशी। यथा मरुस्थले मध्याह्ने सूर्यरश्मिषु सलिलभ्रान्त्यात्मकं मृगतृष्णिकां पातुमिच्छन् मृगान् आकृष्यानन्तरं तद्प्राणान् विनाशयति, तथा रमण्यादिसम्भोगाभिलाषापि तरुणानामिन्द्रियाणीत्याशयः। परम्परितरूपकमलङ्कारः।
नवयौवनेति। नवयौवनेन प्रव्यग्रतारुण्येन कषायितो रागद्वेषाद्यन्वितीकृतः कषायरसयुक्तीकृतश्च आत्मा स्वरूपञ्च यस्य तयोक्तस्य मनसः तरुणपुंसो हृदयस्य, सलिलानीव तान्येव प्रख्यातानि विषयस्वरूपाणि भोग्यवस्तूनि आस्वाद्यमानानि अनुभूयमानानि विद्यन्ते, मधुरतराणि अतिसुरसानि आपतन्ति आपाततोऽवगम्यन्ते। एवञ्च यथा हरितक्यादिकषायितायां जिह्वायाममधुराण्यपि सलिलान्यतिसुरसानि सम्पद्यन्ते, तथा तारुण्यकषायिते तरुणस्य चेतसि अमधुरा अपि सुन्दर्यादिभोग्यविषया आपाततोऽतिमधुरा भवन्तीत्याशयः।
शास्त्ररूपी जलसे धुल जानेके कारण निर्मल होने पर भी प्रायशः कलुषता (मालिन्य) प्राप्त होकर ही रहती है। युवकोंकी दृष्टि, धवलता त्याग नहीं करने पर भी रागान्वित ही (रक्तवर्ण ही, सानुराग ही) होकर रहती है। यौवन समय में रजोगुणवश मनुष्यके स्वभावमें भ्रम उत्पन्न हो जाता है, उस समय प्रबल वायु (आँधी) जिस प्रकार धूल उड़ा-उड़ाकर सूखे पत्तोंको बहुत दूर ले जाता है उसी प्रकार वह स्वभाव मनुष्यको इच्छानुसारसे बहुत दूर (अगम्य स्थानमें) खींच ले जाता है। और सर्वदा अत्यन्त दुःखदायिनी यह सम्भोगेच्छास्वरूप मृगतृष्णिका, मनुष्यके इन्द्रियरूपी हरिणोंका आकर्षण (हरण) कर लेती है। कषायरसयुक्त जिह्वासे जल वैसा मधुर नहीं होने पर भी जिस प्रकार आपाततः अत्यन्त मधुर प्रतीत होता है, उसी प्रकार नवयौवनवश कामक्रोधादियुक्त चित्तमें, कामिनी-काञ्चनादि प्रसिद्ध सब भोग्य वस्तु अनुभवमान होने पर आपाततः बहुत ही मधुर प्रतीत होते हैं (अर्थात्-जैसे हरीतक्यादि खा लेनेसे जिह्वाके कसीले हो जाने पर जल विशेष मधुर नहीं होने पर भी अधिक मधुर मालूम होता है, वैसे ज्वानीमे विकारयुक्त युवकोंके चित्तमें कामिनी आदि भोग्यपदार्थ विशेष मधुर नहीं होने पर भी अधिक मधुर लगते हैं) जिसप्रकार जिस प्रकार मृगतृष्णा तृषावान्को रेगिस्तानमें ले जाकर विनष्ट कर देता है
१. धवलापि।
२. सरागेव।
३. अदूदूरम्, दूरम्।
४. इन्द्रियरिणं हरणीव। सततमदुरनेयम् सततमतिदुरन्तेयमुपभोगः, सन्तमतिदुरन्ते ह्वयं दूरे नवयुवभोगः।