कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 353, कुल 709 में से
संदर्भ में पढ़ें३१४ कादम्बरी- [ कथायाम्-
र्य्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽतितीव्रः¹ दर्पदाहज्वरोष्मा । सततममूलमन्त्र-शम्यः² विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचबाध्यः³ बलवान् रागमलावेपः । अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति, इत्यतः⁴ विस्तरेणाभिधीयसे । गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं⁵ खल्वनर्थपरम्परा । सर्वाविनयानामेषामायतनम् , किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजल-
अशिशिरेति । अतितीव्रः अतितीक्ष्णः दर्पः सम्पत्त्यहङ्कार एव दाहज्वरः तीव्रतापः तस्य ऊष्मा उष्णत्वं न शिशिरोपचारेण स्त्रक्चन्दनादिशैत्यव्यापारेण हार्यः परिहर्तुं योग्य इति तादृशः । अन्योष्णत्वं तु शैत्योपचारहार्यं भवतीत्यस्यातितीव्रत्वमित्याशयः ।
सततमिति । विषमः कठिनः, विषिण्वन्ति बध्नन्तीति विषयाः स्त्रक्चन्दनवनितादय एव विषाणि अनर्थकारणत्वाद् गरलानि तेषाम् आस्वादेन सम्भोगेन यो मोहो मूर्च्छा अज्ञानमिति तात्पर्यम्, सततं निरन्तरं न मूलैः ओषधिमूलैः मन्त्रैः विषनिवारकमन्त्रैश्च शम्यो निवर्त्तयितुं शक्य इति स तादृशः । अत एवास्य कठिनत्वमित्याशयः ।
नित्यमिति । बलवान् नितान्तः, रागो विषयासक्तिरेव मलं कर्द्दमादि, तस्य अवलेपो लेपनम्, नित्यं प्रतिदिनं न स्नानशौचेन निमज्जनशुद्धया बाध्यः प्रक्षालनीयः अपनेय इत्यर्थः, अत एवास्य अन्यावलेपाद्बलवत्त्वमित्याशयः ।
अजस्रमिति । अपि च घोरा केनापि प्रकारेण ज्ञानानुदयात् विषमा राज्यसुखसन्निपातः आधिपत्यसुखानुभव एव निद्रा प्रमीला सुषुप्तिरित्यर्थः, सा तादृशी, अजस्त्रं नित्यम्, न क्षपावसाने रात्र्यन्ते प्रबोधश्चैतन्योदयो यस्यां सा तादृशी भवति, अत एवास्या अन्यनिद्राया अपेक्षया घोरत्वमित्याशयः । इति हेतोः विस्तरेणाभिधीयसे त्वयि सम्भाव्यमानानां तारुण्योत्पन्नज्ञानादीनां निवृत्त्यर्थमित्याशयः ।
अञ्जनवर्त्तीत्यारभ्य राज्यसुखसन्निपातेत्यन्तम् अधिकारूढवैशिष्ट्यमलङ्कारः ।
गर्भेति । गर्भात् आंशैशवात् ईश्वरत्वं धनशालित्वम्, अभिनवं नूतनं यौवनं तारुण्यं यस्य तस्य भावस्तत्त्वम्, अप्रतिमं निरुपमं रूपं सौन्दर्यं यस्य तस्य भावस्तत्त्वम्, अमानुषी अलौकिकी शक्तिः शारीरिकसामर्थ्यं यस्य तस्य भावः तत्त्वञ्च, इति इयं महती गरीयसी अनर्थपरम्परा विपत्तिपङ्क्तिः खलु निश्चयेन अनर्थोत्पादकहेतुपङ्क्तिरेवेत्यर्थः । हेतुमानलङ्कारः ।
गर्भेश्वरत्वादीनां कथमनर्थहेतुत्वमित्यपेक्षायामाह—सर्वेति । एषां गर्भेश्वरत्वादीनां मध्ये एकैकमपि सर्वेषां निखिलानाम् अविनयानां दुर्व्यवहाराणाम् आयतनम् उत्पादकतया आधारः । समवायः समूहः किमुत किं वक्तव्यमित्यर्थः । उक्तञ्च विष्णुशर्मणाऽपि—
‘यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥’
एवञ्च चतुर्णामप्यनर्थहेतूनां गर्भेश्वरत्वादीनां त्वयि स्थिततया तदुत्पन्ना विनयन्निवृत्तये ममायमुपदेशोद्योग इत्याशयः ।
अंशत उक्तमेव विषयं यथाक्रमं व्याचष्टे—यौवनारम्भे चेति । प्राय आधिक्येन यौवनारम्भे तारुण्यप्रारम्भे कस्यचित् पुण्यशालिनो यूनो बुद्धिः समलत्वं न प्राप्नोतीत्याशयः । शास्त्रमेव जलं सलिलं स्वच्छ-
ज्वरकी गरमी उत्पन्न होती है, वह चन्दनलेपनादि शीतोपचारसे भी दूर नहीं हो सकती, अतएव वह गरमी अत्यन्त तीव्र होती है । स्त्रक्चन्दन-वनिताप्रभृति विषय-रूपी विषके सम्भोगसे उत्पन्न हुआ मोह ऐसा विषम होता है कि वह जड़ी-बूटों और मन्त्रोंसे नहीं उतरता, अत एव वह मोह सर्वदा ही कठिन है । विषयासक्ति-रूपी मलका लेप ऐसा प्रबल होता है कि वह नित्य स्नान और शुद्धतासे भी नहीं विनष्ट होता । एवं राज्य-सुखानुभवस्वरूप सन्निपात-निद्रा ऐसी भयङ्कर होती है कि रात्रिका शेष होने पर भी उससे कभी चेतैनता नहीं होती, इन सब कारणोंसे मैं तुमसे थोड़ा विस्तारपूर्वक कहता हूँ;—
बाल्यकालावधि धनसम्पत्ति, नव यौवन, निरुपम सौन्दर्य एवं अमानुषी शारीरिक शक्ति ये सब निश्चय ही विपत्तिके गुरुतर कारणसमूह हैं । इन सबोंके बीचमें एक-एक अलग-अलग भी सभी प्रकारके दोषोंका स्थान है, और यदि समष्टिरूपसे ये सब एकत्र हो जायं तो कहना ही क्या है ? यौवनके आरम्भमें मनुष्योंकी बुद्धि-
१. अत्यन्ततीव्रः ।
२. ॰॰॰मूलमन्त्रगम्यः ।
३. ॰॰बध्यः, बाध्यः, बलवानिति पदं क्वचिन्नोपलभ्यते ।
४. भवतीति विस्तरेणाभिधीयते ।
५. महती ।