भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 352, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 352

शुकनासोपदेशव-३५ ] चन्द्रकला-विद्योतिनीसहिता । ३१३

प्रतीहारानुपकरणसम्भारं-संग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकञ्च तं कदाचिद्दर्श- नार्थमागतमारूढविनयमपि विनीततरमिच्छन् कर्तुं शुकनासः सविस्तरमुवाच ।

'तात ! चन्द्रापीड ! विदितवेदितव्यस्य अधीतिसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्य- मस्ति । केवलञ्च निसर्गत एव अभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यमपरम् ऐश्व-

समुपेति । क्लिष्टेति पार्थः । समुपस्थितो विद्यमानः यौवराज्याभिषेकः युवराजपदमतिष्ठा यस्य तं तादृशम्, तं चन्द्रापीडम्, कदाचित् कस्मिंश्चित्समये दर्शनार्थम् अवलोकनार्थम् आगतं प्राप्तम् आरूढ- विनयमपि मञ्जातविनयमपि विनीततरम् अतिशयेन विनयिनम् कर्तुं इच्छन् अभिलपन् शुकनासः प्रधानराजमन्त्री सविस्तरं सव्यासम उवाच अब्रवीत् ।

तातेति । तात पुत्र ! चन्द्रापीड ! 'तातशब्दं प्रयुञ्जन्ति पूज्ये पितरि चात्मने' इति नारदः । विदितं ज्ञातं वेदितव्यं समस्तो ज्ञानव्यविषयो येन तस्य तादृशस्य, तथा अधीतानि पठितानि सर्वाणि समस्तानि शास्त्राणि वेदादीनि येन तस्य तादृशस्य । ते तव अल्पमपि स्तोकमपि उपदेष्टव्यं वक्तव्यं नास्ति न विद्यते । इह पूर्वविशेषणद्वयार्थः उपदेष्टव्याभावं प्रति कारणमिति पदार्थहेतुकं काव्यलिङ्गम् ।

ननु यद्येवं नर्हि किमर्थमयमुपदेशारम्भ इत्यत आह—केवलञ्चेति । क्लिष्टेति पार्थः । निसर्गतः स्वभादत एव केवलं यौवनात् तारुण्यात् प्रभवतीति समुत्पद्यत इति यौवनप्रभवम्, तमः तमोगुणोत्पन्न- मज्ञानमेव तमोऽन्धकारः अतिदुर्दमनोय इत्यर्थः न भानुना सूर्येण भेद्यम् उच्छेद्यम् , न रत्नानां मणीनाम् आलोकेन कान्त्या छेद्यं विनाशयितुं शक्यम्, तथा न प्रदीपप्रभया गृहप्रदीपलोकेन अपनेयं दूरीकर्तुं शक्यम्, अत एव अतिगहनम् अत्यन्तदुर्दपं भवतीति अग्रेतेनेन सम्बन्धः । जनानामिति शेषः । इत्यतो विस्तरेणाभिधायतेसे एवमग्र्यापि सम्बन्धः । तमस्सतु भान्नादिभेद्यत्वादनेन सहेत्याशयः ।

इह अतिशयोक्तिः, समुच्चयः पदार्थहेतुकंकाव्यलिङ्गं चेत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।

अपरीति । लक्ष्म्या धनसम्पत्तेः मदः तदुत्पन्नमत्तता, न विद्यते परिणामे अन्तिमावस्थायाम् उप- युक्तसमयन्यनीते वा उपशमो निवृत्तिर्यस्य स तादृशः, अत एव दारुणो भीषणः । तथा च तारुण्यमदस्य वयःपरिणामेऽपगमात् , सुरापानोत्पन्नमदम्य चान्यसमये स्वेनव निवृत्तेः, धनसम्पत्तिमदस्य तु जीवन- पर्यन्तमेव विद्यमानत्वादितरमदैस्स्य महदन्तरमित्याशयः । पदार्थहेतुकं काव्यलिङ्गम् ।

कष्टमिति । अपरं प्रसिद्धात् अन्धत्वरोगादतिरिक्तम्, ऐश्वर्यं धनसम्पत्तिरेव तिमिरं तिमिरसंज्ञक- नयनव्याधिः तेन अन्धत्वम् अवलोकनशून्यत्वम्, न अञ्जनवर्त्तिः विडालादिबसाकञ्जलदृशा तया साध्यते प्रतिक्रियते इति तथाटनम्, अचिकित्स्यं भवतीत्यर्थः, अत एव कष्टं नितान्तक्लेशकरं भवति । तिमि- रख्यायुतस्तं दृष्टिराहित्यम् अञ्जनवर्त्यादिना प्रतिकर्तुं योग्यम् सदसद्विवेकशून्यत्वरूपधनसम्पत्तिनिमिरा- न्धत्वं तु केनापि प्रकारेण प्रतिकर्तुं न योग्यमिति द्वयोर्महद्वैषम्यमित्याशयः । तिमिराख्यो व्याधिरस्तीति माधवनिदाने स्पष्टम्, तन्निवारणप्रकारश्च तत्रान्यत्रापि वैद्यकेऽन्वेषणीयः ।

सामग्री एकत्र करनेके लिए प्रतिहारोंको आदेश दिया। क्रमशः युवराजपदों पर बैठानेका समय जब उपस्थित हुआ तब एक दिन चन्द्रापीड दर्शन करनेके लिए शुकनासके समीपमें उपस्थित हुआ, उस समय विनीत होने पर भी अधिकतर विनीत करनेकी इच्छासे शुकनासने विस्तारपूर्वक कहा—

वत्स ! चन्द्रापीड ! जो कुछ जानना चाहिए वह सब तुम जानते ही हो। एवं समस्त शास्त्रोंका अध्ययन किये हो। इसलिए तुमको उपदेश देनेकी थोड़ी भी आवश्यकता नहीं है। केवल यह कहना है कि, युवावस्था में स्वभावसे ही जो अन्धकार उत्पन्न होता है, वह सूर्य द्वारा भगाया नहीं जा सकता, किसी मणिके आलोकसे भी उसका उच्छेद नहीं किया जा सकता, एवं प्रदीपकी प्रभासे नष्ट नहीं किया जा सकता, अत एव वह अन्धकार अत्यन्त दुर्दपं होकर रहता है। धन-सम्पत्तिसे मद ऐसा भयंकर होता है कि अवस्था क्षीण होने पर भी शान्त नहीं होता धनसम्पत्तिरूप नेत्ररोगसे जो अन्धता उत्पन्न होती है; वह वास्तविक अन्धतासे पूर्ण भिन्न है, अञ्जनकी शलाकासे भी नहीं मिटता, अत एव वह अन्धता अत्यन्त कष्ट देनेवाली है। धनका अभिमान-रूप जो दारु-

१. उपसम्भारः । २. क्वचिद् 'कर्तु' मिति पदं नोपलभ्यते । ३. नेदम् । ४. केवलन्तु । ५. अपरटम् २० का०