कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 351, कुल 709 में से
संदर्भ में पढ़ें| ३१२ | कादम्बरी- | [ कथायाम्- |
|---|
विरतवचसि कैलासे कृताभिजात^१-प्रणामां पत्रलेखामनिमिषलोचनं^२ सुचिरमालोक्य चन्द्रापीडः 'यथाज्ञापयत्यम्बा, इत्येवमुक्त्वा^३ कञ्चुकिनं प्रेषयामास ।
पत्रलेखा तु ततः प्रभृति दर्शनेनैव समुपजातसेवारसा न दिवा, न रात्रौ, न सुप्तस्य नासीनस्य, नोत्थितस्य, न भ्रमतः, न राजकुलगतस्य छायेव राजसूनोः पार्श्वं मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । अभ्यधिकञ्च प्रतिदिनमस्याः^४ प्रसादमकरोत् , आत्महृदयाद्व्यतिरिक्तामिव चैनां सर्वविश्रम्भेष्वमन्यत ।
एवं समतिक्रामत्सु केषुचित्^५ दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः
इति मेदिनी । सुचिरं दीर्घकालम् अनिमिषलोचनं निमेषरहितनेत्रं यथा स्यात्तथा पत्रलेखाम् आलोक्य निरीक्ष्य चन्द्रापीडः राजकुमारः, अम्बा जननी यथाज्ञापयति यथादेशं दत्ते इति एवम् अनेन प्रकारेण उक्त्वा अभिधाय कञ्चुकिनं कैलासनामानं प्रेषयामास प्रत्यापयामास ।
पत्रेति । ततः प्रभृति तद्दिनादारभ्य दर्शनेनैव कुमारस्य केवलनिरीक्षणेनैव समुपजातः समुत्पन्नः सेवारसः कुमारपरिचर्यानुरागो यस्याः सा तादृशी, पत्रलेखा तन्नाम्नी ताम्बूलकरङ्कवाहिनी, छायेव स्वप्रतिविम्बमिव, राजसूनोश्चन्द्रापीडस्य पार्श्वं न मुमोच न तत्याज । एवं न दिवा दिवसे, न रात्रौ क्षपायाम्, न सुप्तस्य निद्रितस्य, न आसीनस्य उपविष्टस्य, न उत्थितस्य उत्थाय स्थितस्य, न भ्रमतः इतस्ततो गच्छतः, न राजकुलगतस्य नृपवंशगतस्य, पार्श्वं मुमोचेति सर्वत्रान्वयः । उपमालङ्कारः ।
चन्द्रेति । चन्द्रापीडस्यापि राजसूनोरपि तस्यां पत्रलेखायां दर्शनादारभ्य अवलोकनार्थप्रभृति प्रतिक्षणं क्षणं क्षणं प्रति उपचीयमाना वर्द्धमाना महती सातिशया प्रीतिः स्नेह आसीत् अभूत् ।
अन्येदिति । किञ्चेति चार्थः । अभ्यधिकम् अधिकाधिकं प्रतिदिनसं प्रतिदिनम् अस्याः पत्रलेखायाः प्रसादम् अनुग्रहम् अकरोत् कृतवान् । सर्वविश्रम्भेषु समस्तविश्वसनीयवस्तुषु एनां पत्रलेखाम् आत्महृदयात् स्वस्वान्तात् अव्यतिरिक्ताम् अभिन्नामिव समन्यत ज्ञातवान् । स्वहृदयादेव तस्यै निखिलमेव विश्वसनीयविषयं व्याख्यातवानित्यर्थः । ऐक्यस्वरूपोत्प्रेक्षा ।
अत्र विवाहात्पूर्वं चन्द्रापीडस्य तारुण्यप्रकृतिसुलभोच्छृङ्खलत्वदूरीकरणाय चातुर्यविशेषेणानुपन्दमानपितृमातृप्रेषिततया स्वयोग्यवयोरूपकुलशीलवत्तया निरन्तरसाहचर्येणात्यन्तसम्भवपरतया च कुलतेश्वरदुहिता राजकुमारस्य रमणीयैवासीदिति सुधियः प्रतिपादयन्ति ।
एवमिति । एवं पूर्वोक्तविधिना समतिक्रामत्सु गच्छत्सु दिवसेषु दिनेषु राजा तारापीडः चन्द्रापीडस्य आत्मजस्य यौवराज्याभिषेकं युवराजपदप्रतिष्ठां चिकीर्षुः कर्तुमिच्छुः उपकरणम् अभिषेकसामग्री तस्य यः सम्भारः समूहः तस्य सङ्ग्रहार्थम् आनयनार्थं प्रतीहारान् द्वारपालान् आदिशेश आज्ञां दत्तवान् ।
बनी रहे।' इतना कह कर कैलास के चुप हो जाने पर, पत्रलेखाने चन्द्रपीडको सम्मान-पूर्वक प्रणाम किया। उस समय चन्द्रापीडने बहुत काल तक एकाग्रदृष्टि से पत्रलेखाको देखकर 'माँ ने जैसी आज्ञा दी है (वह की जायगी)' यों कह, कञ्चुकीको विदा कर दिया।
किन्तु उस दिनसे राजकुमारके दर्शनसे ही उसकी परिचर्या करनेके लिए पत्रलेखाको प्रीति उत्पन्न हो गई। अत एव दिन-रात, सोते अथवा बैठते-चलते अथवा राज-भवनमें गए हुए, किसी समयके लिए भी पत्रलेखा, छायाके समान चन्द्रापीडके समीपसे अलग नहीं होती थी। एवं उसे देखनेके समयसे ही लेकर चन्द्रापीडको भी पत्रलेखाके प्रति प्रीति उत्पन्न हुई और वह प्रत्येक क्षण बढ़ती गई। और वह दिन-दिन पत्रलेखाके प्रति अधिकाधिक अनुग्रह करते हुए सभी प्रकारके विश्वासकार्योंमें पत्रलेखाको अपने हृदयसे अभिन्नके समान मानने लगा।
इस प्रकार कुछ दिन बीत जाने के बाद राजाने, चन्द्रापीडको यौवराज्याभिषेक करने की इच्छा कर, उसकी
१. अभिजातः । २. लोचनः । ३. एवम् । ४. प्रतिदिनम् । ५. क्वचित् केषुचिदिति पदं न विद्यते ।