कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 350, कुल 709 में से
संदर्भ में पढ़ेंपत्रलेखापरिचय०-३६ ] चन्द्रकला-विद्योतिनीसहिता । ३११
लालनीया, स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया, शिष्येव द्रष्टव्या,¹ सुहृदिव सर्वविश्रम्भेष्व-भ्यन्तरीकरणीया। दीर्घकाल-संवर्द्धित-स्नेहतया स्वसुतायामिव हृदयमस्यामस्ति मे, बलवानस्यां पक्षपातः। महाभिजन-राज-वंश-प्रसूता चार्हतीयमेवंविधानि कर्माणि नियतमियं स्वयमेवेय-मति-विनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति। केवलमतिचिरकालोपचिता बलवती मे प्रेमप्रवृत्तिरस्याम्, अविदितशीलश्चास्याः कुमार इति सन्दिष्टयते। सर्वथा तथा कल्याणिना प्रयत्नितव्यम्, यथेयमतिचिरमुचिता परिचारिका ते भवतीति⁶। इत्यभिधाय॑
सेवकैर्विवावज्ञात्रोधितेत्यर्थः दृष्टिरवलोकनं यस्य तेन तादृशेन न भवितव्यम्, नृपात्मजत्वेन नावज्ञायोग्य-त्वादित्याशयः बालेव तरुणी सत्यपि बालिकेव, लालनीया सस्नेहं पालनीया, न तु वयस्थतया स्वेनैव सर्वं विचारयितुं योग्येति बुद्ध्या पालने उदासीनेन भाव्यमित्याशयः। स्वचित्तवृत्तिरिव स्वमनोवृत्तिरिव चापलेभ्यः अविचार्यकारिताभ्यो निवारणीया वर्जनीया। शिष्या शासनीया यथा छात्रा सैव द्रष्टव्या विलोकनीया। सर्वविश्रम्भेषु समस्तविश्वासनीयविषयेष्वित्यर्थः सुहृदिव मित्रमिव अभ्यन्तरीकरणीया मध्यवर्तिनी विधातव्या, अभिजाततया रहस्योद्घाटनासम्भवात् सर्वं गोप्यमनया सह निःसन्देहं समाचरणीयमित्याशयः। इह 'बालेव' इत्यारभ्य 'सुहृदिव' इत्यन्तमुपमालङ्कारः।
दीर्घेति। दीर्घकालं बहुसमयं यावत् संवर्द्धितः वृद्धिं प्रापितः स्नेहः प्रेम यस्याः तया भावः तया कारणेन स्वसुतायामिव निजात्मजायामिव अस्यां पत्रलेखायां मे मम हृदयं चित्तम् अस्ति विद्यते, अस्यां बलवान् पक्षपातः अत्यन्तानुकूल्यञ्च विद्यत इति शेषः।
महाभिजनेति। महाभिजनः अत्यन्तप्रसिद्धो यो राजवंशः नृपकुलं तत्र प्रसूता उत्पन्ना, अत एव एवंविधानि एवं प्रकाराणि अनीचजातानि ताम्बूलकरङ्कवाहनादीनि कर्माणि अर्हति विधातुं समर्था भवति, न पुनरन्यसेविकावन्नीचकर्मार्गीत्याशयः।• 'अभिजनः कुले स्याताँ' इति विश्वः। इह पदार्थहेतुकं काव्यलिङ्गम्।
नियतंमिति। अतिविनीततया अत्यन्तनम्रवृत्त्या च स्वयम् आत्मनैव इयं पत्रलेखा कतिपयैः कियद्भिरेव दिवसैः दिनैः कुमारं त्वां नियतम् अवश्यम् आराध्यिष्यति।
केवलमिति। केवलं परम् अतिचिरकालोपचिता अधिकसमयात् वृद्धिमपगता मे मम बलवती सातिशया अस्यां पत्रलेखायां प्रेमप्रवृत्तिः स्नेहाभिनिवेशः। कुमारश्च त्वम् अस्याः पत्रलेखाया अविदित शीलः अज्ञातस्वभावः, इति अस्मात् कारणात् सन्दिष्टयते कथ्यते, अन्यथैनां प्रति तव नीचसेविकावद् व्यवहारसम्भावने चेतसि क्लेशो भवेदित्याशयः।
सर्वथेति। सर्वथा सर्वप्रकारेण कल्याणिना श्रेयस्विना त्वया भवता तथा तेन प्रकारेण प्रयत्नितव्यं प्रयत्नो विधेयः यया येन प्रकारेण इयं पत्रलेखा अतिचिरं बहुसमयं यावत् ते तव उचिता योग्या परि-चारिका सेविका भवति' इति।
इतीति। इति एवं प्रकारेण अभिधाय उक्त्वा कैलासे तन्नामके कञ्चुकिनि विरतवचसि अपास्तवचने सति, कृतो विहितः अभिजातो न्याय्यो भूतळस्पृष्टमूर्द्धा इत्यर्थः प्रणामो नमस्कारो यथा तां तादृशीम्।
'अभिजातः कुलीने स्यान्नाय्यपण्डितयोरपिपु।
अवेक्षण एवं (देखभाल) करना, अपनी चित्तवृत्तिके समान चपलता करनेसे रोकना, शिष्यके समान देखना और मित्रके समान समस्त विश्वसनीय कार्यके मध्यमें इसे रखना। बहुत समयसे मेरा प्रेम इस पर बढ़ गया है, इस-लिये मेरा मन इसको कन्याके समान मानता है एवं मेरा इस पर अत्यन्त पक्षपात उत्पन्न हो गया है। अत्यन्त प्रसिद्ध राजकुल में उत्पन्न हुई है इसलिए यह ऐसे सब कार्योंके उपयुक्त है। और यह अपने अत्यन्त विनीत आचरणसे थोड़े ही दिनके मध्यमें तुमको निश्चय सन्तुष्ट करेगी। इस पर मेरा प्रेम बहुत कालसे बढ़ता बढ़ता दृढ़ हो गया है, और तुमको इसका स्वभाव विदित नहीं है, इसीलिए केवल इतना सन्देशा भेज रही हूँ। कल्याण-भाजन ! तुम सर्वथा पहले के अनुसार ही उद्योग करना, जिससे यह बहुत काल तक तुम्हारी उपयुक्त परिचारिका
१. उपद्रष्टव्या। २. 'दश्वानस्यां पक्षपातः' इति पाठः दक्षिणेपलभ्यते। ३. उचित 'कर्माणि' इति पदन्नास्ति। ४. नियतं स्वयं ... । ५. अनि ... । ६. ... भवनीत्यभिधाय।