कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 349, कुल 709 में से
संदर्भ में पढ़ें३१० | कादम्बरी- | [ कथायाम्-
कनकपत्रालङ्कृतया, महानुभावाकारया, अनुगम्यमानं कन्यकया^१ कैलासनामानं कञ्चुकिनमा- यान्तमपश्यत् ।
स कृतप्रणामः समुपसृत्य क्षितितल-निहित-दक्षिणकरो विज्ञापयामास-‘कुमार ! महा- देवी विलासवती समाज्ञापयति-‘इयं खलु कन्यका^२ महाराजेन पूर्वं कुलूते^३-राजधानीमवजित्य कुलूतेश्वर^४-दुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिका मध्यमुपनीता । सा मया विगतनाथा राजदुहितेति च^५ समुत्जातस्नेहया दुहितृनिर्विशेषमि- यन्तं कालमुपलालिता संवर्द्धिता च । तदियमिदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनी^६ इति कृत्वा^७ मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम्, बालेव
'..................कनको नागकेसरे । धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि ॥' इत्यनेकार्थः ।
इह 'राधेयराजलक्ष्म्येव' इत्यारभ्य 'मेरुवनलतयेव' इत्यन्तं पूर्णोपमालङ्कारः ।
महानुभावेति । महानुभावो विशेषप्रतिभावान् आकारः स्वरूपं यस्याः तया तादृश्या । कन्यकया कयाचित् दारिकया अनुगम्यमानम् अनुव्रज्यमानं कैलासनामानं कैलाससंज्ञकं कञ्चुकिनम् आयान्तम् आगच्छन्तम् अपश्यत् अवलोकयत् । चन्द्रापीड इत्यन्वयः ।
'अन्तः पुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥'
स इति । स कञ्चुकी । कृतो विहितः प्रणामो नमस्कारो येन स तादृशः । यद्यपि चन्द्रापीडस्य प्रणामोऽनुचितमिवाभाति कञ्चुकिनो विप्रत्वात् , तथापि स्वप्रभुत्वादनभिवादनरूपः केवलो वामनमात्र- द्योतकः प्रणाम इत्यवधेयम् । क्षितितले भूतले निहितः स्थापितो दक्षिणः सव्यः करः पाणिर्येन स तादृशः। अयमाचारोऽपि विनयद्योतक इति बोध्यम् ।
कुमारेति । हे कुमार ! महादेवी पट्टराज्ञी विलासवती तव जननी समाज्ञापयति समादिशति- 'खलु निश्चयेन इयं पुरोऽवलोक्यमाना कन्यका महाराजेन स्वत्पित्रा पूर्वं प्राक् कुलूतं हिमालयसमीपे साम्प्रतं 'कुलू' इति विख्यातो देशविशेषः तस्य राजधानीं राज्यस्थानम् अवजित्य आत्मसात्कृत्य कुलूतेश्वर- दुहिता कुलूताधिपतिपुत्री, पत्रलेखेत्यभिधानं यस्याः सा तादृशी बालिका कन्यका सती बन्दीजनेन स्तुतिपाठकेन सह आनीय अन्तःपुरचारिकाः अवरोधसेवाकारिण्यः तासां मध्यम् उपनीता प्रापिता ।
सेति । विगतो विनष्टो नाथो रक्षको यस्याः सा तादृशी, तथा राजदुहिता नृपात्मजा इति च हेतोः सा पत्रलेखा समुत्जातः समुत्पन्नः स्नेहः प्रेम यस्याः तया तादृश्या मया विलासवत्या, दुहितुः कन्यायाः निः= न विद्यते विशेषो यस्मिन् कर्मणि तद्यथा स्यात्तथा, इयन्तम् एतावत् पर्यन्तं कालं समयम् उप- लालिता सप्रेम पालिता संवर्द्धिता च वृद्धिं प्रापिता च ।
तदिति । तत् तस्मात् कारणात् इदानीं साम्प्रतं भवतो ममात्मजस्य ताम्बूलकरङ्कवाहिनी नाग- वल्लीदलपात्रधारिणी उचिता भवितुं युक्तेत्यर्थः, इति कृत्वा मया प्रेषिता प्रापिता ।
नचेति । आयुष्मता चिरञ्जीविना त्वया भवता, अस्यां पत्रलेखायां परिजनसामान्या सेवकसदृशी
पर्वतकी वन-लता जिस प्रकार सुवर्णमय पत्तोंसे शोभित होती है, वह कन्या भी उसी प्रकार सुवर्ण-निर्मित पत्राकार आभूषणसे शोभित थी, और उसकी आकृति अत्यन्त प्रभाव-द्योतक थी ।
कञ्चुकीने राजपुत्रको प्रणाम कर, आगे आ, अपना दाहिना हाथ भूमि पर टेक कर कहा—“कुमार ! महारानी विलासवतीने आदेश दिया है कि, पहले महाराजने, कुलूतेश्वरकी राजधानीको जीत कर, पत्रलेखा नामकी उसकी लड़कीको, बाल्यावस्थामें ही, अन्यायों वन्दियोंके साथ लाकर रनिवासकी परिचारिकाओं (टहलियों) के बीचमें रखा था। इसका कोई रक्षक नहीं था; विशेषतः इसे राजकन्या होनेके कारण इसके प्रति मुझे स्नेह उत्पन्न हो गया था। इसलिए मैंने अब तक पुत्रीके समान इसे लालन-पालन एवं संवर्धन किया है। अब यह तुम्हारी ताम्बूलकरङ्कवाहिनी (पानके डब्बेको धारण करनेवाली) होने के योग्य है, यह जानकर मैं इसे तुम्हारे समीप भेजती हूँ। इसलिए, चिरञ्जीव ! तुम इसे साधारण परिजनोंके समान नहीं समझना, बालिकाके समान इसका रक्षण
१. कन्यया ।
२. कन्या ।
३. कुलूत, कुन्तल...।
४. कुलूतेश्वर, कुन्तलेश्वर...।
५. क्वचित् 'च' कारो न विद्यते ।
६. करण्डकवाहिनी ।
७. क्वचित् 'कृत्वा' इति पदन्नोपलभ्यते ।