भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 348, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 348

पत्रलेखावर्णना०-३५ ] चन्द्रकला-विद्योतिनीसहिता । ३०९

कया, विकसित-पुण्डरीक-धवले'-लोचनाया, मणिकुण्डलमकरपत्र-भङ्ग-कोटीकिरणातपाहत-कपोलतया सकर्णपल्लवमिव मुखमुद्वहन्त्या, पर्युषितधूसर-चन्दन-रस-तिलकालङ्कृत-ललाट-पट्टया, मुक्ताफलप्रायालङ्कारया, राधेयराजक्ष्म्येव उपपादिताङ्गरागया, नववनलेखयेव४ कोमल-तनु-लतया, त्रय्येव सुप्रतिष्ठितचरण्या, मखशालयेव वेदिमध्यया, मेरुवनलतयेव

त्पद्मश्यामचिह्नं तेन अन्धकारिता समुत्पन्नान्धकारा मलिनेत्यर्थः अधरलेखा रदनच्छदरेखा यस्याः तया तादृश्या ।

समेति । समा अनुच्चनीचोर्ध्वदेशा, सुवृत्ता सुगोलोर्ध्वभागा, तुङ्गा उन्नता च नासिका नासा यस्याः तया तादृश्या ।

विकसितेति । विकसितं प्रस्फुटितं यत् पुण्डरीकं श्वेतकमलं तद्वत् धवले शुभ्रे लोचने नयने यस्याः तया तादृश्या । लुप्तोपमा ।

मणीति । मणिकुण्डलयोः रत्नभूपणयोः यौ मकरपत्रभङ्गौ मकरसदृश-पत्रखण्ड-सदृशभूषणे तयोः कोट्योः पुरोभागयोर्ये किरणातपा रश्मिप्रकाशाः तैः आहतौ ताडितौ संस्पृष्टावित्यर्थः कपोलौ गण्डौ यस्याः तस्या भावः तया कारणेन, कर्णपल्लवाभ्यां श्रवणकिसलयाभ्यां सहेति सकर्णपल्लवं तदिव, तद्रश्मीनामेव किसलयवदवभासमानत्वादित्याशयः गुणोत्प्रेक्षा ।

पर्युषितेति । पर्युषितं पूर्वदिवसविहितम् अत एव धूसरं किञ्चित् पाण्डुवर्णं यच्चन्दनरसस्य मलयजद्रवस्य 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्' इत्यमरः, तिलकं विशेषकः तेन अलङ्कृतो भूषितो ललाटपट्टः भालस्थलं यस्याः तया तादृश्या ।

'तिलको द्रुमरागाश्वमेदेषु तिलकालके । क्लीवं सौवर्चलवलोम्नोर्न स्त्रियां तु विशेषके ॥' इति विश्वमेदिन्यौ ।

मुक्तेति । मुक्ताफलानि मौक्तिकानि प्रायेण बाहुल्येन येषु ते तादृशा अलङ्कारा भूषणानि यस्याः तया तादृश्या ।

राधेयेति । राधेयस्य कर्णस्य या राज्यलक्ष्मीः आधिपत्यश्रीः तयेव, उपपादितो विहितः अङ्गरागः कुङ्कुमादिभिरङ्गलेपनं यया तादृश्या पक्षे-उपपादितो विहितः अङ्गेषु तत्संज्ञकदेशविशेषेषु रागः निवासप्रेम यया तया तादृश्या, राधेयस्य अङ्गदेशस्वामित्वादित्याशयः ।

नवेति । नवा अभिनवा या वनलेखा वनपङ्क्तिः तयेव, कोमला मृदुला तनुः लतावत् कृशं वपुःयस्याः तया तादृश्या, पक्षे-कोमला अभिनवोत्पन्नतयादेव मृदुला तन्वी कृशा च लता वल्ली यस्यां तया तादृश्या ।

त्रय्येवेति । त्रयी वेदत्रयी तयेव, सुप्रतिष्ठितौ साधुतया न्यस्तौ चरणौ पादौ यया तया तादृश्या, पक्षे-सुप्रतिष्ठिता अत्यन्तविख्याताः चरणाः शाखा यस्याः तया तादृश्या ।

मखेति । मखशाला यज्ञभवनं तयेव, वेदिवत् कीटविशेषवत् मध्यः कटिदेशो यस्याः तया तनुमध्ययेत्यर्थः, वेदिः परिष्कृता भूमिः मध्ये यस्याः तया तादृश्या । 'वेदिः परिष्कृता भूमिः' इत्यमरः ।

मेरुवनेति । मेरुः सुमेरुपर्वतः तत्र यद्वनं काननं तस्य लता व्रततिः तयेव, कनकपत्राणि सुवर्णरचित-पत्रसदृशभूषणानि, पक्षान्तरे—सुवर्णमयानि नागकेसरमयानि चम्पकमयानि वा पर्णानि पत्राणि तैः अलङ्कृतया भूषितया ।


उस नासिका का ऊपर भाग समान और सुगोल था । उसकी आँखें खिले हुए पुण्डरीकके समान सफेद थीं । मणिमय कुण्डलके साथमें संलग्न मकराकार और पत्रखण्डाकार अलङ्कारके अग्रभागकी किरणोंका प्रकाश उसके गाल पर पड़नेसे उसका मुख मानो कर्ण-पल्लव सहित हो ऐसा प्रतीत होता था । पूर्वदिनके धूसर वर्ण चन्दन-रसके तिलकसे उसका ललाट देश शोभित था । आभूषणोंके बीचमें प्रायः उसने मोतीके ही आभूषण पहने थे । कर्णकी राजलक्ष्मी जिस प्रकार अङ्गदेशमें रहने के लिए प्रन करती थी, उस कन्याने भी उसी प्रकार कुङ्कुम और चन्दनादि द्वारा अङ्गलेपन किया था । अभिनव वनपंक्तिके बीच जिस प्रकार कोमल और कृश लता रहती है, उस कन्या का शरीर भी उसी प्रकार लताके समान कृश और कोमल था । वेदकी शाखाएं जिस प्रकार संसार में प्रसिद्ध हैं, उस कन्याका चरण युगल भी उसी प्रकार पृथिवीमें सुन्दर चालसे युक्त थे । यज्ञशालके बीचमें जिस प्रकार वेदी रहती है, उसका कटिदेश भी उसी प्रकार वेदी ( कीट-विशेष ) के समान कृश था । सुमेरु


१. क्वचित् 'धवल' इति पदं नास्ति । २. मरकतमकरपत्र । ३. कपोलतलतया । ४. नववन*** ।