भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 347, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 347

३०८ कादम्बरी- [ कथायाम्-

णेव भवनमापूरयन्त्या, ज्योत्स्नयेव राहुग्रास^१भयादपहाय रजनीकरमण्डलं गां^२ अवती- र्णया, राजकुल-देवतयेव^३ मूर्त्तिमत्या, क्वणितमणिनूपुराकलित^४-चरणयुगल्या कूजत्कलहंसाकु- लित-कमलयेव कमलिन्या, महार्ह-हेम-मेखला-कलाप-कलित^५-जघनस्थलया, नातिनिर्भरमेवोद्भिन्न- पयोधरया, मन्द-मन्द^६-भुजलता-विक्षेप-प्रेङ्खित-नख-मयूखच्छलेन धाराभिरिव लावण्यरसम- नवरतं क्षरन्त्या, दिङ्मुखविसर्पिणि हारलतानां रश्मिजाले निमग्नशरीरतया क्षीरसागरो- न्मग्नवदनयेव लक्ष्म्या बहल-ताम्बूल-रक्तोष्ठिमार्ग-कारिताधर-रेखया, सम-सुवृत्त^७-सुन्नासि-


प्रवाहेण परम्परया, अमृतरसस्य अत्यन्ततृप्तिविधायित्वात् सुधाद्रवस्य नदीपूरेणेव भूरिप्रवाहेणेव भवनं गृहम् आपूरयन्त्या परिपूर्णं कुर्वत्या, अतएव राहुग्रासभयात् सैंहिकेयभक्षणत्रासात् रजनीकरमण्डलं चन्द्रबिम्बम् अपहाय त्यक्त्वा, गां पृथिवीम् अवतीर्णया आगतया ज्योत्स्नया कौमुद्येव विद्यमानया ।

इह लुप्तोपमा, जात्युत्प्रेक्षा, पदार्थहेतुकं काव्यलिङ्गम्, द्वयोश्चेष्टा चेति परस्परनेषामङ्गाङ्गिभावेन सङ्करालङ्कारः ।

राजेति । मूर्त्तिमत्या शरीरधारिण्या राज्ञो नरपतेः तारापीडस्य कुलदेवतया कुलाधिष्ठात्र्यैव विराजितया शोभितया, सौन्दर्यप्रभावादित्याशयः । इह राजकुलदेवतयेवेति द्वयोत्प्रेक्षा ।

क्णितेति । क्वणिताभ्यां रणिताभ्यां मणिनूपुराभ्यां रत्नपादकटकाभ्याम् आकलितं सम्बद्धं चरणयुगलं पाद्वितयं यस्याः सा तया तादृश्या, अतएव कूजद्भयाम् अव्यक्तशब्दं कुर्वद्भयां कलहंसाभ्यां कादम्बाभ्याम् आकुलिते संसृष्टे कमले पङ्कजद्वयं यस्यास्तया कमलिन्या नलिन्येव विद्यमानया ।

इह कमलिन्येवेति श्रौत्युपमा सा च पदार्थहेतुककाव्यलिङ्गेनानुप्राणिता बोध्या ।

महार्हेति । महार्हेण बहुमूल्येन हेममेखलाकलापेन कनकखण्डितकाञ्चीदाम्ना कलितं वेष्टितं जघनस्थलं नितम्बभागो यस्याः तया तादृश्या ।

नातोति । नातिनिर्भरम् अनतिशयं यथा स्यात्तथा उद्भिन्नौ प्रकाशं प्राप्तौ पयोधरौ कुचौ यस्याः तया तादृश्या तारुण्यस्य केवलप्रकटत्वादित्याशयः ।

मन्देति । मन्दमन्दः किञ्चित्किञ्चिद् यो भुजलयोः बाहुवल्लयोः विक्षेपः आगमनसामयिकान्दोलनं तेन प्रेङ्खिताः प्रसृता ये नखमयूखाः हस्तनखशश्मयोः तेषां छलेन व्याजेन, अनवरतं निरन्तरं धाराभिः प्रवाहैः लावण्यरसं तारुण्यरसं क्षरन्त्या स्रावयन्त्येव विद्यमानया । सापहृवा क्रियोत्प्रेक्षा ।

दिङ्मुखेति । दिङ्मुखविसर्पिणि समन्तात् प्रसरिणि, हारलतानां रश्मिजाले किरणसमूहे निमग्नशरीरतया मुडितदेहतया कारणेन, क्षीरसागराद् दुग्धाम्भोधेः शुक्लद्रव्यतः उन्मग्नं सलिलोपरि समुत्थितं वदनं मुखं यस्याः तया तादृश्या, लक्ष्म्येव रमादेव्येवावलोक्यमानया । उपमा ।

बहलेति । बहलः अधिको यः ताम्बूलस्य नागवल्लीदलस्य वृञ्जिमा अधिकनागवल्लीदलचर्वणो


प्रवाहसे, मानो वह अमृतरसकी नदीके प्रवाह द्वारा सब महलको भर देती थी, अत एव राहुग्रासके भयसे चन्द्रमण्डल छोड़ कर पृथिवी पर आई हुई ज्योत्स्ना (चाँदनी) के समान वह देखनेमें आती थी। और वह राजा की शरीरधारिणी कुलदेवताके समान शोभायमान थी। झन झन करते मणिमय नूपुरसे उसके चरण अलङ्कृत थे, अत एव कमलद्वयके समीपमें गुञ्जार करते दो-दो कलहंसोंसे अकुलाई हुई नलिनीके समान वह देख पड़ती थी। बहुमूल्य सुवर्णमय चन्द्रहार (दरकत, काञ्ची), उसके नितम्ब देश (कमर) में पड़ा था। स्तन कुछ घने और उठे हुए थे। बाहु-लताके मन्द-मन्द हिलनेसे निकलती नख-किरणोंके छल-से वह अपने लावण्य-रसकी धारा को मानो दिन-रात बरसाती थी। मुक्तामय हारावलीकी किरणें दिशाओंके मुखमें फैल रही थीं, उसके बीचमें ही उसका शरीर डूब जानेसे क्षीरसागरमें से ऊँचा वदन करके निकली लक्ष्मी देवीके समान देख पड़ती थी। ताम्बूलके अतिरिक्त चर्बण जनित काले चिह्नसे उसके ओष्ठयुगल मलिन हो गए थे। उसकी


१. राहुग्रह, राहुग्रसन । २. भूमण्डलम् । ३. राजकुलगृहदेवतयेव । ४. '...नाकुल, आकुलित'... । ५. ...'चरणया रुचिररेणुवर्श्चितचञ्चरीकचक्रवालवाचालितालक्तकलयुगल्येव स्फटकनलिन्या । ६. ...'आकुलित' ... । ७. मन्दं मन्दं । ८. कुम्भिकान्त्य... । ९. समुपवृत्त... ।