कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 356, कुल 709 में से
संदर्भ में पढ़ें| शुकनासोपदेश०-३५ ] | चन्द्रकला-विद्योतिनीसहिता । | ३१७ |
|---|
नयति, अयमेव चानास्वादित-विषयरसस्य ते काल उपदेशस्य। कुसुमशर-शर¹-प्रहारज-र्जरिते हि² हृदये³ जलमिव गलत्युपदिष्टम्। अकारणञ्च भवति दुष्प्रकृतेरन्वयः श्रुतं वा विन-यस्य⁵। चन्दनप्रभवो⁶ न दहति किमनलः, किंवा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवा-नलो वारिणा। गुरुपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलन्स्नानम्⁷, अनुप-
पतिश्म्यति, तथा प्रशमहेतुर्गुरुपदेशोऽपि तदेव दोषजातममलीकुर्वन् गुणरूपेण परिणमयतीत्यर्थः। तथा हि गुरुपदेशो नाम जनानां धर्मार्जने कामम्, दण्डेषु क्रोधम्, स्वगोष्ठी लोलम्, दुष्कृताचरणे मोहम्, दानद्यादौ मदम्, स्वदुर्लम्भे च मात्सर्यं प्रवर्तयन् उक्तानवगुणानेव गुणतामुपनयतीति धीधनाः प्रतिपादयन्ति।
ननु राज्याभिषेकसमय एव कथमुपदिश्यते समयान्तरेऽप्येतत्सम्भवादित्यत आह—अयमिति। आस्वादितः अनुभवविषयीकृतः विषयरसः सुन्दरीसुवर्णादिभोग्यवस्तुगुणो येन तस्य तादृशस्य, ते तव। अयमेव उपदेशस्य शिक्षायाः कालः समयः।
नन्वनुभूतविषयरसस्य शिक्षणे को दोष इत्यत आह—कुसुमशरेति। हि यतः, कुसुमशरस्य कामदेवस्य शरप्रहारेण बाणाभिघातेन जर्जरिते उपप्लुते अनेकशो विवरीकृते च हृदये चेतसि जलमिव सलिलमिव उपदिष्टं गुरुपदेशो गलति क्षरति चालनीन्यायादिति। एवञ्च सातिशया कामोद्दीपनावचनमात्रेण गुरुशिक्षणं प्रवेशमात्रेण दूरीकरोतीत्याशयः। इह नवयौवनेत्याद्यस्यैतावत्सन्दर्भे चोपमालङ्कारः।
नन्वेवमपि सङ्कुलप्रभूतस्य शास्त्रज्ञानयुक्तस्य च विनयप्रभावेन न ते दोषाः प्रवेष्टुं शक्नुवन्तीत्यत आह—अकारणमिति। किञ्चेति चार्थः। दुष्प्रकृतेः असच्चरित्रस्य पुंसः 'अन्वयः सद्वंशः, वा अथवा श्रुतं शास्त्रज्ञानं च विनयस्य सन्मार्गप्रवृत्तेः अकारणं भवति हेतुर्न भवतीत्यर्थः, 'स्वभावो दुरतिक्रमः' 'अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते' इति न्यायादित्याशयः। इह 'अकारणम्' इत्यत्र नञः प्रधानत्वेन तस्य च समासेन गुणीभूतत्वेन 'असूर्यंपश्या राजदारा' इनिवद्विधेयाविमर्शादोषोऽस्त्येव तस्य च निराकरणं 'कारणं न भवति' इति पाठकरणेनैव समाधेयम्। प्रतिपादितविषयं समर्थयति—चन्दनेत्यादिना। चन्दनाद् मलयजवृक्षतः प्रभवति सङ्घर्षगोत्पद्यत इति चन्दनप्रभवः अनलोऽग्निः किं न दहति भस्मीकरोति अपि तु दह्त्येवेत्यर्थः। तथा च नान्वयो विनयस्य हेतुरित्याशयः। तथा प्रशमहेतुनापि शैत्यकारगेनापि वारिणा सागरजलेन वडवानलः वाडवाग्निः किंवा न प्रचण्डतरो भवति समुद्दीप्तो भवति अपि तु भवत्येवेत्यर्थः। अतश्च शैत्यकारणं शास्त्रज्ञानं न विनयस्य हेतुरित्याशयः। अर्थान्तरन्यासोऽलङ्कारः।
अन्यस्वरूपेण प्रत्युत गुरुपदेशं प्रशंसति—गुरुपदेश्चेत्यादिना। किञ्चेति चार्थः। गुरुपदेशो नाम पुरुषाणां जनानाम् अखिलमलानां समस्तकामक्रोधादिप्रवृत्तीनां कर्दमादीनाञ्च प्रक्षालनक्षमं शोभनसमर्थम्, अजलस्नानं मलिरहितस्नानस्वरूपम्। स्नानान्तरं तु सलिलसहितमित्यवगच्छ। न उपजातंमुत्पन्नं पलितादि वार्द्धक्यप्रयुक्तकेशादि वैरूप्यं विकृतिर्यत्र तत्तादृशम्, तथा न विद्यते जरा जीर्णत्वं यत्र तत्तादृशम्, वृद्धत्वं वार्धक्यस्वरूपम्, प्रशमबलक्षमादिवैशिष्ट्योत्पादनादित्याशयः। वृद्धत्वान्तरं तु उपजातपलिनादिवैरूप्यं सजरश्चेत्यस्त्याविरोधम्। न आरोपितः उत्पादितः मेदोदोषः पृथुलकलेवरादिकमेदोनामकधातुवृद्विदोषो येन तत्तादृशम्, गुरुकृतं गौरवहेतुस्वरूपं, बहुदन्तिनेतोत्पादकनया समस्तगौरवप्रयोजकत्वा-
दोष रूपमें गुरु रूपमें परिणत कर देता है। तुमने अभीतक किन्हीं भोग्य पदार्थों के रसका स्वाद नहीं चखा है इसीलिए तुम्हें उपदेश ग्रहण करनेका उचित समय यही है। क्योंकि, कामदेवके बाणप्रहारसे जो हृदय जर्जरित हो गया है, उस हृदयमें उपदेश-वाक्य जलके समान बाहर निकल जाता है। दुश्चरित्र लोगोंकी अच्छे कुलमें उत्पत्ति किंवा शास्त्रज्ञान, सन्मार्गप्रवृत्तिका कारण नहीं होता। देखो सङ्घर्षवश चन्दन-वृक्षसे जो अग्नि उत्पन्न होती है, वह क्या जलाती नहीं है? शान्तिकारक समुद्रजल से भी क्या वडवानल अत्यन्त प्रचण्ड होकर जलता नहीं है? गुरुका उपदेश, मनुष्यके समस्त मलप्रक्षालन करने योग्य जलहीन स्नानस्वरूप है (अर्थात् जैसे जलसे स्नान करने पर सब बाह्यज मल धुल जाता है उसी प्रकार गुरुके उपदेशसे सब आभ्यन्तरिक दोष दूर हो जाते हैं)। और गुरुका उपदेश, मनुष्योंका वार्धक्य-स्वरूप है, इस वार्धक्यमें केशकी पक्कता और जरादी-
१. क्वचिद् 'शर' इति पदन्नास्ति।
२. संस्नेहन्।
३. क्वचिद् हि पदं न विद्यते।
४. हृदि।
५. श्रुतद्वा-विनयस्य।
६. चन्दनप्रभवोऽपि।
७. अजल स्नानम्।