भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 36, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 36

प्रस्तावना

२५

सन्ति, किन्तु कथानकानामुद्घाटनाय प्रत्येककथायाः समधिकावश्यकता वरीवर्त्ति। कथानकानां यथा क्रमं विकासं विधाय वस्तुसङ्कलनायां कविना स्वकीयमनुपमं चातुर्यं प्रकटितम्। कथाया अर्धमध्ये संप्राप्यापीदमनवगतमेव तिष्ठति यदस्याः क्रान्तोऽस्तीति। इदमेव हि कथायां समधिकं महत्त्वम्। समग्रा कथा शुकद्वारा निरूपितास्ति, यः खलु परमार्थतः पुण्डरीक इति नाम्ना प्रसिद्धः, तथा चास्याः कथाया उपनायको विद्यते। प्रारम्भे सम्भवतः कस्यचन विचारवीथिकायामागतो भवेद् यत् शूद्रको राजा तम्मन्त्री शुकश्च स्वस्य द्वितीये तृतीये वा जन्मनि अस्याः कथाया नायकोपनायकौ स्तः, कादम्बरी-महाश्वेते च नायिकोपनायिके स्त इति, किन्तु ग्रन्थस्यार्धभागसमाप्तिपर्यन्तं तु नायिकाया नामापि न श्रूयते। कथायाञ्चस्यामेतस्यावगाहो न मिलति यदग्रे किं किं भविष्यति तथा केन प्रकारेणैतस्य समाप्तिर्भविष्यति। एतेन पाठकानां कुतूहलमनवरतमेव जागृतं तिष्ठति, एवमत्यन्तरमणीयालौकिकानन्ददायकानां विषयाणां वर्णनतया चोत्साहस्य शैथिल्यं न जायते।

महाकवेः कल्पितकथाया लेखन एवोद्देश्यमासीत्। तस्य हि काल्पनिककथा सांसारिकयथार्थता-दृष्ट्या विचार्यमाणेऽनुचितं न भविष्यति। कादम्बर्याः सर्वाणि पात्राणि कल्पितानि सन्ति, किन्तु कविना तथाविधचातुर्येणैतच्चरित्रविकासः कृतः यत् पाठकास्तत्सुखदुःखेषु तन्मयीभूय स्वमपि विस्मरन्ति तथा तेषां पात्रकाल्पनिकतया ध्यानमेव न तिष्ठति।

चरित्रचित्रणे बाणभट्टेन हि स्वबुद्धेरद्भुतश्चमत्कारः प्रदर्शितः। कादम्बर्याः सर्वाणि चित्राणि सञ्जीकृतानि सन्ति, तथा तेषां किञ्चिदपि कर्म तेषां स्थितेविरुद्धं नास्ति। नायिकायाश्चित्रणे कविना किञ्चिदपि कर्त्तुं नावशिष्टे स्थापितम्। अस्यां हि तेन स्वसूक्ष्मदर्शितायां मानसिककल्पनायाश्च समग्रसम्पत्तेरुपयोगो विहितः। मनुष्यजीवनस्थितेर्हि समस्तरूपाणां वर्णनमत्यधिकपर्यालोचनया कृतम्। महाश्वेतायाः प्रेम तत्क्लेशकथाञ्च कथयित्वा तेन हि कादम्बर्या दशाः श्रोतुं पाठका उद्यतीकृताः। हारीतमुनेर्महानुभावता तारापीडस्य परोपकारशीलता विलासवत्याः प्रेमालुता, शुकनासस्य विश्वसनीयता, कपिञ्जलस्य मित्रवत्सलता, महाश्वेतायाः शारीरिकमानसिकपवित्रता, पत्रलेखायाः स्वामिभक्तिः पाठकानां हृदयेष्व-

१. प्रसङ्गात् पत्रलेखायाः कीदृशः सम्बन्धश्चन्द्रापीडेनेत्यादि विचार्यते—अस्मिन्नाख्याने पत्रलेखा यादृशेन सुकोमलेन सम्बन्धेनावद्धा नैतादृशी दृष्टाऽन्यत्र कुत्रचिदपि साहित्ये पात्रस्थितिः, सत्यप्येवं कविरतिलीलया सरलेन चेतसा ईदृशमपूर्वं सम्बन्धबन्धनमवातारयत्। न काप्यस्य तन्तोः स्वल्पमपि संवृतं तादृशमाकर्षणं येन क्षणमपि तस्य च्छेदशङ्का आपद्येत। युवराजश्चन्द्रापीडो यदाऽध्ययन समाप्य प्रासाद प्रत्यावृत्तः, तदानीं कस्मिंश्चिदहनि प्रभातसमये कैलासो नाम कश्चित् कञ्चुकी तद्गृह प्रविष्टः।

आसीत् किल तदा ततश्चात् काचिदनतियौवना कन्यका। अस्या शिरसीन्द्रगोपकीटवत् रक्ताम्बरेणावगुण्ठनम्, ललाटे चन्दनतिलकः मध्ये च कनकमेखला। सेयं तरुणी लावण्यप्रभाप्राभावेण परिपूर्य सकलभवनम्, कणितमणिनूपुराकलितेन चरणेन कञ्चुकिनमन्वगच्छत्।

स हि कञ्चुकी चन्द्रापीडं प्रणम्य क्षितितलनिहितदक्षिणकरो व्यजिज्ञपत्—'कुमार ! भवतो माता महादेवी विलासवती विज्ञापयति-'कन्येयं पराजितस्य कुलूतेश्वरस्य दुहिता बन्दीभूता, अस्या नाम पत्रलेखा। तामेनां राजकन्यामियन्तं कालं दुहितृनिर्विशेपेणाहमपालयम्। साम्प्रतमेषा तव ताम्बूलकरङ्कवाहिनी भवत्विति प्रहिणोमि। नेयं साधारणपरिजनवद्रमणीया, अपि तु बालिकेव लालनीया, स्वचित्तवृत्तिरिव निवारणीया चापलात्, शिष्येव दर्शनीया, सुहृदिव च निखिलेषु विस्रम्भव्यापारेष्वन्तरङ्गीकरणीया। किञ्च तादृशेषु कर्मसु इयं कल्याणी नियोजनीया, यथेय तवातिचिरपरिचारिका भवेदिति।' एवं कथयति कैलासे पत्रलेखा तं समुचित प्रणामीत्, सोऽपि चन्द्रापीडो निर्निमेषेण लोचनेन ता सुचिरं निरीक्ष्यावादीत्— 'यथाम्बा ज्ञापयति !' इत्युक्ता त दूतं प्रतिनिवर्त्तयामास।

सेयं पत्रलेखा न खलु पत्नी, न वा प्रणयिनी, नापि किङ्करी, अपि तु पुरुषस्य सहचरी। सोऽयमपूर्वो भावसमुद्रयोर्मध्यवर्ती सैकतनद इद कथमिवार्यं सम्बन्धो रक्ष्येत ? तरुणयोरन्योन्यं प्रति यदिदं नवयौवनस्य चिरन्तनं प्रबलमाकर्षणं, तत्खलूभयनोऽपि संक्षीणं सेतुमित्र किमिति सर्वथा न क्षिणोति न वा लङ्घयति।

सा किल पुरुषस्य हृदयपार्श्वे जागृतवती न तर्पितवती पठं तस्य मध्ये। न जातु अतर्कितागतेऽपि वसन्त-समीरणे सलीलयवनिकायाः प्रान्ततोऽपि व्यचलत्। कविः किल कथयति—तस्मात् प्रथमदिनादारभ्य चन्द्रापीडस्य दर्शनमात्रेणैव समुपजातसेवारसा पत्रलेखा दिवा वा दोप वा अविगणय्य उत्थानश्रमणादिपुच्छाद्येव राजपुत्रस्य पार्श्वे-

४ का० भू०