कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 383, कुल 709 में से
संदर्भ में पढ़ें| ३५४ | कादम्बरी- | [ कथायाम्- |
|---|
यतां राज्ञामुन्मयूखानां चूडामणीनामलक्तकद्रवद्युतिमुपा बहुलेनालोकवालातपेन राज्याभिषेकानन्तरप्रसृतेन स्वप्रतापवह्निनेवात्यर्थं पिञ्जरीक्रियमाणा दश दिशः यौवराज्याभिषेकजन्मना निजानुरागेणेव रज्यमानमवनितलम्, आसन्नरिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणमम्बरतलम्, अभिमुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोहितायमानातपं दिवसं ददर्श।
विनिर्गतञ्च ससम्भ्रम-प्रचलित-गजघटाँ-सहस्रैरन्योन्यसङ्घट्ट-जर्जरितातपत्रमण्डलैरारादवनत-मौलि शिथिलैं मणिमुकुटपङ्क्तिभिरवर्जितरत्नकर्णपूरैः कपोलस्थल-स्खलितरत्न-
र्विद्यमान एवापश्या इति शेषः। प्रकारेण वप्रेण अन्तरितं व्यवहितं दर्शनम् अवलोकनं येषां तेषां तादृशानाम्। द्वारावस्थितानाम् द्वारोपविष्ठानाम्, प्रतिपालयताम् आत्मानं प्रतीक्षमाणानां राज्ञां सामन्तभूपतीनाम्। उद्गता ऊर्ध्वं प्राप्ता मयूखा रश्मयो येषां तेषाम्। अलक्तकद्रवो लाक्षारसः तस्य द्युतिं शोभां मुष्णाति हरतीति तेन तादृशेन। बहुलेन प्रचुरेण, आलोकः कान्तिः बालातपः प्रत्यग्रोदितसूर्यरश्मिरिव तेन तादृशेन। राज्याभिषेकानन्तरं यौवराज्याभिषेकस्य पश्चात् प्रसृतेन विस्तृततेन, स्वप्रतापस्वकीयकोशदण्डजं तेजः स एव वह्निः अग्निः तेनेव विद्यमानेन। अत्यर्थं पिञ्जरीक्रियमाणाः पिङ्गलवर्गा विधीयमाना दश दिशः सर्वककुभः कर्म, यौवराज्याभिषेकात् जन्म उत्पत्तिर्यस्य तेन तादृशेन, निजानुरागेणैव आत्मीयस्नेहेनेव चूडामणीनामालोकवालातपेनेत्यन्वयः रज्यमानं रक्तीक्रियमाणम् अवनितलं पृथिवीतलं ददर्श। आसन्नानां शीघ्रभाविनां रिपुविनाशानां शत्रुक्षयाणां पिशुनेन सूचकेन दिग्दाहेनेव, चूडामणीनामालोकवालातपेनेत्यन्वयः, पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणम् अम्बरतलं व्योमतलंददर्श। तथा अभिमुखागताया जगज्जयेन आगामिन्याः भुवनतललक्ष्म्याः जगच्छ्रियः चरणालक्तकरसेनेव पाद्यावकद्रवेणेव, चूडामणीनामालोकवालातपेन, लोहितायमानः रक्तवदाचरन् आतपः आलोको यत्र तथोक्तं दिवसं ददर्श अवलोकयामास।
इह 'अलक्तकद्रव्यद्युतिमुपा' इत्यत्र निदर्शना। 'आलोकवालातपेन' इत्यत्र लुप्तोपमा। 'अत्यर्थं पिञ्जरीक्रियमाणा दश दिशः' इत्यत्र पिङ्गलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः। 'निजानुरागेणेव' इत्यत्र गुणोत्प्रेक्षा। 'दिग्दाहेनेव' इत्यत्र क्रियोत्प्रेक्षा। 'चरणालक्तकरसेनेव' इत्यत्र जात्युत्प्रेक्षालङ्कारः।
विनिर्गत इति। विनिर्गतो बहिरागतश्चन्द्रापीडः प्रथममेव शातक्रतवीमाशामभिपतस्थ इति संबंधः। प्रथमतः तृतीयाबहुवचनान्तानि पदानि 'अवनिभुजां चक्रवालैः' इत्यग्रेतनस्य विशेषणानि बोध्यानि। ससम्भ्रमं शीघ्रं प्रचलितं प्रस्थितं गजघटानां हस्तिवृन्दानां सहस्रं येषां तैः तादृशैः। अन्योन्यं परस्परं यः सङ्घट्टः सङ्घर्षः तेन जर्जरितं बहुधा भग्नम् आतपत्रमण्डलं छत्रसमूहो येषां तैः तादृशैः। आदरेण गौरवेण अवनता नम्रा ये मौलयः शिरांसि तेभ्यः शिथिला श्लथीभूता मणिमुकुटानां रत्नकिरीटानां पङ्किः श्रेणिः
व्यवधान हो जाने से वे लोग अन्दर से देख नहीं पड़ते थे; उन लोगों के मुकुटमणिके किरणजाल लत्ता (महावर) के रसके सौन्दर्य को अपहरण करता (चुराता) था एवं नवोदित सूर्यकिरणके समान दीप्ति पा रहा था, उस समय चन्द्रापीड़ निकलते निकलते अन्दर रहकर ही देखने लगा कि—राज्याभिषेक के बाद विस्तृत स्वकीय प्रतापानलके समान मानो वे मुकुटमणिफे प्रचुर किरणजाल दसों दिशाओंको अत्यन्त पिङ्गलवर्ण (लाल-पीले) कर दिये हैं, राज्याभिषेकते उत्पन्न हुए अपने अनुरागके समान ही मानों उनसे भूतल लाल हो गया है, शीघ्र होने वाले रिपुविनाशसूचक दिग्दाहके समान ही मानो वे (किरणजाल) आकाश को रक्तवर्ण (गुलाबी रङ्ग) कर दिये हैं और सामने आई हुई भुवन-लक्ष्मीके चरणोंके अलक्तक रस (महावर) के समान ही मानो वे दिन को धूपको लोहित वर्ण कर दिये हैं।
बाहर निकलते ही सब ओर से सामन्त-नरपतिगण आकर उसको (चन्द्रापीड़को) प्रणाम करने लगे, उस समय उनके बहुतसंख्यक हस्तिगण शीघ्रता (तेजी) से चल रहे थे, उनके छत्रमण्डल एक दूसरे से टकरानेसे जर्जरित हो गये थे, आदर-पूर्वक माथा नीचा करनेसे उनकी मणिमुकुटोंकी कतार शिथिल हो गई थी, रत्नमय कर्णपूर टेढ़े झुक गये थे, मणिमय कुण्डल खिसक खिसक कर गालों पर आकर झूलने लग गये थे और चन्द्रापीट-
१. अलक्तक इव।
• २. क्रियमाणाद्दशदिश।
३. गन्धगजघटा ।
४. आदरादनवरतप्रणामशिथिल***।
५. आवर्जितकर्णपूरैः ।