भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 384, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 384

चन्द्रापीडदिग्विजयप्रस्थानव० ३८ ] चन्द्रकला-विद्योतिनीसहिता । ३४५

कुण्डलैरक्षित-सेनापति-निर्दिश्यमान-नामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दू- ररेणुपाटलेन क्षितितल-दोलायमान-स्थूलमुक्ताकलापावचूलेन सित कुसुम-माला-जाल-शबल- शिरसा संलग्नसन्ध्यात्तपेन तिर्यगावज्जित-श्वेतगङ्गाप्रवाहेण तारागण-दन्तुरित-शिखर- शिलातलेन मेरुगिरियेव गन्धमादनेनानुगम्यमानः, कनकालङ्कारप्रभा-प्रताने-कल्मापिता- वयवेन च दत्तकुङ्कुमस्थासकेनेवाकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे । अथ चलित-गजघटा-कम्पित-धवलातपत्रै-वनम्, अनेककल्लोल-परम्परापतित-चन्द्र-

येषां तैः तादृशैः। आवर्जिता आनमिता रत्नकर्णपूरा मणिमयकर्णभूषणानि येषां तैः तादृशैः। कपोलस्थ- लयोः गण्डभागयोः उपरि स्खलिते मस्तकमनमाद् गते रत्नकुण्डले मणिमयश्रवणकुण्डलयुगलं येषां तैः तादृशैः। तथा आज्ञप्तेन तेषां नामानि कथयितुमादिष्टेन सेनापतिना सैन्याध्यक्षेन निर्दिश्यमानानि निवेद्यमानानि नामानि संज्ञा येषां तैः तादृशैः, अवनिभुजां राज्ञां चक्रवालैः मण्डलैः प्रणम्यमानः नमस्क्रियमाणः चन्द्रापीडः।

बहलेति। इतः आरभ्य तृतीयवचनान्तानि पदानि 'गन्धमादनेन' इत्यग्रेतनस्य विशेषणानि। बहलैः अधिकैः सिन्दूररेणुभिः शृङ्गारभूषणकुङ्कुमधूलिभिः पाटलेन श्वेतरक्तीकृतकुम्भदेशेन। क्षितितले पृथिवीतले दोलायमानः कम्पमानः स्थूलमुक्ताकलापः स्थूलमौक्तिकप्रकरो यस्य तथोक्तः अवचूलः पताकाप्रमद्वाधोमुखवसनं यस्य तेन तादृशेन। 'अवचूलः (पुं०) ध्वजाग्रवद्वाधोमुखवस्त्रम्' इति शब्द- कल्पद्रुमः। तथा सितं यत् कुसुममालाजालं पुष्पस्रक्समूहः तेन शबलं विचित्रं शिरो मस्तकं यस्य तेन तादृशेन। अतएव संलग्नः संश्लिष्टः सन्ध्याया आतपो रागो यत्र तेन तादृशेन, इति सिन्दूरभूषितकण्ठ- शौपम्यम्। तिर्यक् आवर्जितः पतितः श्वेतः शुभ्रो गङ्गाप्रवाहः भागीरथीधारा यस्मात्तेन तादृशेन। एतेन पृष्ठबद्धध्वजगतपताकौपम्यम्। तथा तारागणेन ऋक्षमण्डलेन दन्तुरितं विषमीकृतं शिखरशिलातलं शृङ्गस्थप्रस्तरो यस्य तेन तादृशेन । एतेन श्वेतपुष्पपङ्क्तिसाम्यम्। एवंविधेन मेरुगिरिनेव सुमेरुपर्वतेनेव गन्धमादनेन तत्संज्ञकेन प्रगलद्धितेन गन्धहस्तिना अनुगम्यमानोऽनुव्रज्यमानश्चन्द्रापीडः। इह श्रौत्यु- पमा पदार्थहेतुकेन काव्यलिङ्गालङ्कारेण सङ्कीर्यते ।

कनकेति। कनकस्य सुवर्णस्य योऽलङ्कारो भूषणं तस्य याः प्रभाः कान्तयः तासां प्रतानेन आधि- क्येन कश्मापिताः कर्बुरीकृताः अवयवा अङ्गानि यस्य तेन तादृशेन, अत एव दत्ताः शरीरेषु अर्पिताः कुङ्कु- मस्थासकाः कुङ्कुमद्रवकृतपाणिबिम्बचिह्नानि यत्र तेनेव सता। आकृष्यमाणेन केनाप्याकृष्य नीयमानेन इन्द्रायुधेन प्राङ्निरूपितेन तत्संज्ञकाश्वेन मनायीकृतः स्वसंयुक्तिकृतः पुरोभागः सम्मुखदेशो यस्य स तादृशः चन्द्रापीडः । शतक्रतोरिन्द्रस्येयमिति शातक्रतवी तामाशां पूर्वा दिशम् अभिप्रतस्थे अभिमुखं चचाल ।

अथेति। अथ चन्द्रापीडप्रस्थानानन्तरम् चलिता गन्तुं प्रवृत्ता या गजघटा हस्तिसमूहः। तासु


द्वारा उनके नामोंको कहनेके लिए आदेश किये जाने पर सेनापति उनके नामोंको बतलाता जाता था। गन्धमादन नामक हाथी चन्द्रापीडके पीछे-पीछे चलता था, उसका कुम्भमण्डल खूब सिन्दूर लगानेसे लाल हो गया था, पीठ के ऊपर में जो ध्वजा थी, उसमें लटकती हुई घूमती मोतियोंकी झालर भूतल पर दोलायमान हो रही थी, श्वेतवर्ण फूलोंकी मालाओंके जालते उसका मस्तक विचित्र दीखता था, अतएव सन्ध्यासमयकी रक्तिमासे युक्त, टेढ़े बहते श्वेतवर्ण गङ्गाप्रवाहवाले और नक्षत्रसमूहोंसे छाए शिखरवाले सुमेरुपर्वतके समान वह गन्धमादन शोभायमान लगता था। कोई नौकर चन्द्रापीडके आगे-आगे उस इन्द्रायुधको खींच कर ले जाना था, सुवर्णमय अलङ्कारके प्रभाराशिसे उसका समस्त अवयव विचित्र हो गया था। इससे प्रतीत होता था मानो कुङ्कमरस द्वारा उसके अङ्गमें हाथ का पञ्चा चित्रित कर दिया गया है। इस प्रकार चन्द्रापीड धीरे-धीरे पहले ही पूर्व दिशाकी ओर प्रस्थान किया।

चन्द्रापीडके प्रस्थान करने पर समस्त सैन्यगण अद्भुत कोलाहल करते-करते महीतलको प्लावितकर


१. रश्चात। २. निर्दिश्यमानानामवनि। ३. क्वचित् 'स्थूल' इति पदं न विद्यते। ४. दन्तुरितशि- लातलेन ५. ....प्रभावल्माषित ..। ६. क्वचित् 'अथ' इति पदं नास्ति। ७. ....कम्पितातपत्र...।

२२ का०

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 384, कुल 709 में से · BharatKosha