भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 389, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 389

३५० | कादम्बरी- | [ कथायाम्-

भूमौ ररास । गुल्फद्वयसे च तुरङ्ग-मुख-विनिःसृत-सितफेन-पल्लविते^१ मदपयसि मदस्रुतां करिणां प्रचस्खलुः पदे पदे पदातयः। हरिताल-परिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्य वाऽयं ययौ^२ निखिलान्यगन्धग्रहणसामर्थ्यं घ्राणेन्द्रियस्य।

क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जन-कदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुर-रव-मिश्रितेन च वाजिनां हेषारवेणं^३, अनवरत-कर्णताल-स्वनं-सम्पृक्तेन च दन्तिनामाडम्बररवेण, ग्रैवेयककिङ्किणीकणितानुसृतेन^४ च गतिवशाद्विषमं-विराविणीनां घण्टानां टङ्कृतेन, मङ्गलशङ्ख-शब्द-संवर्द्धित-ध्वनीनाञ्च प्रयाणपटहानां निनादेन-मुहुर्मुहुरितस्ततस्ताड्यमानानाञ्च डिण्डिमानां^५ निःस्वनेन, जर्जरीकृतश्रवणपुटस्य मूर्च्छवभव-

इह भूमौ भेरीस्वरूपस्य द्रव्यस्योत्प्रेक्षा तथा शब्दकरणे 'बलभर०मदक०' इत्यादिविशेषणद्वयार्थो हेतुरिति काव्यलिङ्गमित्युभयोरङ्गाङ्गिभावसङ्करः।

गुल्फेति। पदातयः सैन्याः पदे पदे प्रतिपादक्षेपम्, गुल्फद्वयसे चरणग्रन्थिपरिमिति, इह प्रमाणे द्वयसच्प्रत्ययः। तुरङ्गाणां घोटकानां मुखेभ्यो वदनेभ्यो विनिःसृतैः बहिरागतैः सितैः धवलैः फेनैः कफैः पल्लविते विस्तारिते, मदस्रुतां दानवारिस्राविणां करिणां हस्तिनां मदपयसि दानसलिले प्रचस्खलुः प्रस्खलनं प्रापुः।

इह गुल्फद्वयसत्वादिसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

हरितालेति। हरितालस्य स्वनामप्रसिद्धधातुविशेषस्य परिमलनिभेन सुगन्धितुल्येन, अतिपटुना अतीवतीव्रेण च गजमदामोदेन हस्तिदानसलिलपरिमलेन अनुलिप्तस्य संयुक्तस्य अक्षितस्य च, सामजस्य तत्तन्मतङ्गजस्य इव घ्राणेन्द्रियस्य नरवृन्दनासिकायाः, निखिलानि समस्तानि अगन्धग्रहणसामर्थ्यम् अयं ययौ विननाश, गजमदामोदेन स्वस्वमदपरिमलेन च परिपूर्णत्वात्। प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानां ग्रहणं न भवतीत्यभिप्रायः। 'सामञ्जस्तु गजे पुंसि सामोत्ये पुनरन्यवत्।' इति मेदिनी।

इह यथाक्रमं लुप्तोपमा, श्रौतोपमा च, अनयोश्चाङ्गाङ्गिभावसङ्करः।

क्रमेणेति। परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरःप्रधावताम् अग्रे शीघ्रं प्रचलनां जनकदम्बानां लोकवृन्दानां कोलाहलेन कलकलेन, तारतरदीर्घेण नितान्तोच्चैस्तरेण काहलानां बृहदुडुक्कानां निनादेन शब्देन। तथा खुररवैः शफस्वनैः विमिश्रेण संपृक्तेन वाजिनाम् अश्वानां हर्षद्देषारवेण प्रमोदहेषाशब्देन। अनवरतो निरन्तरो यः कर्णतालयोः अखण्डतालपत्रवद्विस्तृतयोः श्रोत्रयोः स्वनः शब्दः तेन संपृक्तः संमिलितः तेन तादृशेन, दन्तिनां हस्तिनाम् आडम्बररवेण विशालेन बृंहितध्वनिना। ग्रैवेयकाणि कण्ठभूषणानि तेषु याः किङ्किण्यः क्षुद्रघण्टिकाः तासां क्वणितैः शब्दैः अनुसृतेन अनुगतेन, गतिवशेन गमनवशेन विषमविराविणीनां भीषणध्वनिविधायिनीनां घण्टानां गलबन्धितानामित्यर्थः। टङ्कृतेन 'टंटं' रवेण। मङ्गलशङ्खशब्दैः संवर्धिता वृद्धिं प्राप्ताः ध्वनयो येषां तेषां तादृशानाम्, प्रयाणपटहानां प्रस्थानढक्कानां निनादेन शब्देन। मुहुर्मुहुः वारंवारम् इतस्ततः ताड्यमानानां हन्यमानानां डिण्डिमानां


करने लगी; मदस्रावी हाथियोंके घुटने तक आते-अश्वगणके मुखमेंसे निकले श्वेतवर्ण फेनपुञ्जसे विस्तृत हुए-मद-जलमें पैदल सैनिकगण पद-पद पर फिसलने लगे, हरतालकी गन्धके समान अतितीव्र मद-सुगन्धके भर जानेसे, हस्तिगणकी नासिकाके समान सैन्यगणकी नासिकाओं के अन्य गन्ध ग्रहण करने की सब शक्ति लुप्त हो चली।

क्रमसे चली जाती सेनाके आगे दौड़ते जन-समूहोंके कोलाहलसे, नगारोंकी अतितीव्र और ऊँची आवाज से, खुरोंके शब्दसे मिले हुए घोड़ों के हिनहिनाहटसे, हाथियोंके अविश्रान्त सञ्चालित वृहद कर्णतालके शब्दसे मिली हुई उनकी तेज और विशाल गर्जना से, गलोंमें; डाली हुई किङ्किणियों (घुघरियों) के आवाजके साथ सुनाई देती-चलनेके कारण कभी-कभी बजती-घंटालियोंके 'टन्, टन्' शब्दसे, माङ्गलिक शङ्खकी ध्वनिसे परिवर्द्धित-हुई आवाजवाले प्रस्थान दुन्दुभी (ढक्का) के नादसे और बार-बार चारों ओर बजते डिण्डिम (डमरू) के


१. ०००पल्लवे।
२. उपययौ, समुपययौ, समाययौ।
३. हेषारवेण।
४. ०००स्वररव।
५. ०००अनुगृहीतेन।
६. गतिवशविपम।
७. द्विरदडिण्डिमानाम्।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 389, कुल 709 में से · BharatKosha