कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 391, कुल 709 में से
संदर्भ में पढ़ें३५२ कादम्बरी- [ कथायाम्-
गगनतलम्, अलिनिवह इव चुम्बन् मदरेखाम्, मृगपतिरिव रचयन् करिकुम्भस्थलीषु पदम्, उपात्त-विजय इव गृह्णन् पताकाः$^१$ जरागम इव पाण्डुरीकुर्वन्$^२$ शिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्रन्निव मकरन्द-मधु-बिन्दुपङ्कलग्नः$^३$ कर्णोत्पलानि, मद-कल-करि-कर्ण-ताल ताडन-त्रस्त इव विशन्$^४$ कर्ण$^५$-शङ्खोदर-विवराणि, पीयमान इवोन्मुखीभिरवनिपति-मुकुटमणि-भङ्ग-मकरिकाभिः, अभ्यर्च्यमान इव तुरग-मुख-विक्षेप-विप्लुतैः फेन-पल्लव-कुसुम-स्तवकैः-अनुगम्यमान इव मत्तगज-घटा-कुम्भ-भित्ति-सम्भवेन धातुधूलिवलयेन,
अलीति । अलिनिवहो भ्रमरगण इव, मदलेखां करिणां दानवारिपंक्तिं चुम्बन् स्पृशन् मुख-संयोगं विदधच्च ।
मृगेति । मृगपतिः सिंह इव, करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं प्रतिष्ठां चरणनिक्षेपञ्च रचयन् कुर्वन् एकत्र पतनादन्यत्राक्रमणादित्याशयः ।
उपात्तेति । उपात्तः संग्रामे प्राप्तो विजयो जयो येन स तादृशः राजेव, पताका ध्वजान् गृह्णन् स्पृशन् अपहरंश्च । विजयी हि विजितरिपूणां ध्वजान् हरतीति प्रथितमेतत् ।
जरेति । जरागमो वृद्धावस्थेव, जनानां शिरांसि मस्तकानि पाण्डुरीकुर्वन्, एकत्र कचश्यापनाद्-अन्यत्र कचपाकादित्याशयः । इह 'त्रिपथगाप्रवाह इव' इत्यारभ्य 'जरागम इव' इत्यन्तं यावत् पूर्णोपमालङ्कारः ।
मुद्रयन्निति । पक्ष्मणां लोचनरोम्णाम् अग्रेषु संस्थितः पुरोवर्त्ती सन् दृष्टिं मुद्रयन् सङ्कोचयन्निव, सङ्पतनशक्त्या जनानां लोचनोन्मीलनसम्भवादित्याशयः । क्रियोत्प्रेक्षा ।
आजीति । मकरन्देषु श्रवणोत्पलानामेव किञ्जल्केषु च मधुविन्दुद्रङ्गाः गाढद्रवकणाः तेषु लग्नः संसक्तः सन्, जनानां कर्णोत्पलानि श्रवणोत्पलानि आजिघ्रन् तत्सौरभं गृह्णन्निव । 'मकरन्दः (पुं)*** किञ्जल्के क्लीबम्' इति शब्दकल्पद्रुमः ।
इह 'आजिघ्रन्निव' इति क्रियोत्प्रेक्षा, अनया च पुनरुक्तवदाभासः सङ्कीर्यते । मकरन्दमधुपदयोः पर्यायतया श्रवणमात्रेण पुनरुक्तावगमेऽपि अनन्तरं मकरन्दपदस्य किञ्जल्कार्थे पर्यवसितार्थत्वाह पुनरुक्तवदाभासो ज्ञेयः ।
मदेति । मदकला मदमत्ता ये करिणो हस्तिनः तेषां कर्णतालाभ्यां तालपत्रवद्विस्तृतश्रवणाभ्यां यत्ताडनं प्रहारः तस्मात् त्रस्तो भीत इव सन्, कर्णयोः श्रवणयोः शङ्खानां भालास्थ्नाञ्च उदरविवराणि अभ्यन्तरच्छिद्राणि विशन् प्रविशन् ।
पीयमान इति । उन्मुखीभिः ऊर्ध्वाननाभिः, अवनिपतीनां नृपाणां मुकुटेषु याः मणिभङ्गमकरिकाः रत्नखण्डरचिता मकरसदृशांशाः ताभिः पीयमान इव, तदन्तर्गतत्वादित्याशयः ।
अभ्यर्च्येति । तुरगाणाम् अश्वानां मुखविक्षेपेण वदनप्रसारणक्रियाविशेषेण विप्लुतैः विक्षिप्तैः फेनपल्लवा मुखकफपरम्परा एव कुसुमस्तबकाः पुष्पगुच्छाः तैः अभ्यर्च्यमानः पूज्यमान इव तदुपरि पतनादित्याशयः ।
अन्वीति । मत्ता मदयुक्ता या गजघटा हस्तिसमूहाः तासां कुम्भाः शिरसां पिण्डाः ते एव भित्तयः
मदान हाथियोंकी मद-रेखाका चुम्बन करती थी; सिंहके समान हाथियोंके कुम्भस्थल पर पद धरनी (जम जाती) थी; विजयी राजा जिस प्रकार संग्राममें विजित शत्रुकी पताकाओंको ग्रहण करते हैं, वह धूल भी उसी प्रकार रथकी पताकाओंका ग्रहण (स्पर्श) करती थी; बुढ़ापेके समान लोगोंका मस्तक सफेद करती था; लोगोंके पक्ष्मों के आगे रहकर मानो उन लोगोंकी दृष्टिको सङ्कुचित करती थी; कर्णोत्पलके मधुकी बूँदोंसे लिपट कर मानो उस कर्णोत्पलको सूँघती थी; मद-मत्त हाथियोंके हिलने कानोंसे ताड़ना किए जानेके भयसे ही मानो उनके कान और कनपटीके अन्दर भर जाती थी; समक्ष आई हुई, राजाओंके मुकुट-माणियोंमें बनी हुई मकरियोंसे उन्मुख होकर मानो पान की गई थी; अश्वगणके मुंहमेंसे इतस्ततः गिर कर फैले फेन-पल्लव-रूपी फूलोंके गुच्छों से मानो पूजित हुई थी; मदमत्त हस्तिगणके कुम्भस्थलमेंसे निकला हुआ गैरिकादि धातुका रेणु (सिन्दूर) मानो उसका अनुगमन करता था; हस्तिगणके कुम्भस्थलका पश्चात् (रेणु), चामरोंके झूलनेसे उड़ कर मानो उसका
१. पताकान्। २. पाण्डरी। ३. बिन्दुलग्नः। ४. आविशन्। ५. करिकर्ण...। ६. ...मणिरत्नभङ्ग...।