कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 405, कुल 709 में से
संदर्भ में पढ़ें| ३६६ | कादम्बरी- | [ कथायाम्- |
|---|
मुखद्वयमिति विचार्यमाणे सत्यम्¹ आत्मैव मे पर इव हासमुपजनयति । न जाने कियताऽध्वना विच्छिन्नमितो बलमनुदायि² मे । महाजवो हीन्द्रायुधो निमेष³-मात्रेणातिदूरमतिक्रामति⁴ । न चागच्छता मया तुरगवेगवशात् किन्नरमिथुने बद्धदृष्टिना⁵ अस्मिन्न॑विरलतरुशतशाखा-गुल्मलता-सन्तान-गहने निरन्तर-निपतितै⁶-शुष्क-पर्णावकीर्ण-तले महावने पन्था निरूपितः, येन प्रतिनिवृत्य यास्यामि । नचास्मिन् प्रदेशे प्रयत्नेनापि परिभ्रमता मया मर्त्यधर्मा कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया⁸ बहुशः कथ्यमानम्, 'उत्तरेण सुवर्णपुरं सीमान्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः
मुखद्वयं किन्नरमिथुनम् अनुसृतम् आश्रितमिति विचार्यमाणे विचिन्त्यमाने सति स्वयं विद्यमान आत्मैव स्वचैतन्यम् एव मे मम पर इव अन्य इव हासम् उपजनयति हास्यं निष्पादयति ।
ननु किमर्थं निर्वेदमापन्नः ? परित्यज्यैनं गत्वा स्वजनैः साकं त्वरितं संयोगो विधीयतामित्यत आह— न जान इति । न जाने नाकलयामि कियताऽध्वना कियन्मार्गेण विच्छिन्नं विश्लेपं प्राप्तम् इतो मत्संकाशात् मे बलं सैन्यम् अनुयायि अनुव्रजनशीलमित्यर्थः ।
ननु साम्प्रतमेवायातोऽसीति नातिदूरं तव सैन्यमित्यत आह— महाज्व इति । हि यस्मात्कारणात् महाजवो महावेगः इन्द्रायुधस्तन्नामाश्वः निमेषमात्रेण लोचनस्य निमीलनमात्रेण अतिदूरम् अतिविप्रकृष्टम् अतिक्रामति अतिक्रमणं करोति ।
नन्वेवमपि मार्गमवलोकयन्नेवेह प्राप्तोऽसीति तेनैव परिचितेन मार्गेण प्रतिनिवर्त्यतामित्यत आह— नचेति । अविरलानि सान्द्राणि अन्योन्यसंबद्धानीत्यर्थः, यानि तरुशतानि वृक्षसमूहाः तेषां शाखानां स्कन्धशाखानां गुल्मानां स्तम्बानां लतानां व्रततीनाञ्च सन्तानेन परम्परया गहने घने, तथा निरन्तरं निरवकाशं यथा स्यात्तथा निपतितैः स्रस्तैः शुष्कपर्णैः शुष्कपत्रैः अवकीर्णम् आच्छन्नं तलम् अधोभागो यस्य तस्मिन् तादृशे अस्मिन् महावने महारख्ये अनेन हि घोटकपदचिह्नानवलोकनेन परावर्त्तनमप्यसम्भवमिति ध्वनितम् । आगच्छता आगमनं कुर्वता मया पन्था मार्गो न च निरूपितः, नैव सम्यगवलोकितः, येन यथा प्रतिनिवृत्य परावर्त्य यास्यामि गमिष्यामि ।
इह सम्यगवलोकनाभावं प्रति किन्नरयुगले बद्धदृष्टित्वं तुरगजवः अविरलेत्यादि विशेषणद्वयार्थश्च हेतुरिति पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ।
ननु यद्येवं तर्हि कमपि पुरुषं मार्गं दृष्ट्वा व्रज इत्यत आह—नचेति । अस्मिन् प्रदेशे परिभ्रमन् भ्रमं विदधता मया कश्चित् मर्त्यधर्मा मानवः प्रयत्नेनापि उद्योगेनापि नासाद्यते न प्राप्तुं शक्यते । यः पुरुषः सुवर्णपुरगामिनं सुवर्णनगरयायिनं पन्थानं मार्गम् उपदेक्ष्यति उपदेशं करिष्यति, सुतरां कमपि पृष्ट्वापि निरूपणासम्भव इत्याशयः ।
ननु कथं न मर्त्यधर्मा कश्चिल्लभ्यत इत्याह—श्रुतमिति । हि यस्मात् मया बहुशः अनेकवारं कथ्यमानं प्रतिपाद्यमानं वृद्धैरिति शेषः । श्रुतम् आकणितं सुवर्णपुरम् उत्तरेण सुवर्णपुरादुत्तरदिशि 'एनपा द्वितीया' इत्येनप्योगे द्वितीया । पृथिव्याः वसुधायाः सर्वजनपदानां लोकस्थानानाम्, सीमान्तलेखा-अवधिशेषा रेखा । ततः परतोऽग्रतो निर्मनुषं मनुष्यरहितम् अरण्यं विपिनम् । तदरण्यम् अतिक्रम्य उङ्ग-
किया ? क्यों जब सोचता हूँ तब तो मेरी अन्तरात्मा ही मुझ पर-अन्य पुरुषके समान हँसती है। न मालूम मेरे अनुगामी सैन्यगण इस स्थानसे विभक्त होकर कितने दूर होंगे ? क्योंकि-महावेगवान् इन्द्रायुध निमेष मात्रमें ही बहुत दूर चला जाता है। आनेके समय घोड़ेके वेगसे एवं किन्नर-युगलके प्रति निश्चल-दृष्टि रखने से-सैकड़ों वृक्षों की निरन्तर उलझी हुई डालियोंसे भरे और लगातार गिरते सूखे पत्तोंसे आच्छादित हुई पृथिवीवाले महावनमें मैं मार्ग-निरूपण नहीं कर सकता हूँ कि जिसमें पीछे लौट जाऊँ। इस प्रदेशमें विशेष यत्नसे भटकनेपर भी कोई मनुष्य नहीं दीखता जो मुझे सुवर्णपुर जानेवाला मार्ग बतलावे। क्योंकि मैंने बहुतसे लोगोंको कहते सुना है कि-'सुवर्णपुर पृथिवी के समस्त देशोंकी उत्तर दिशाकी अन्तिम सीमाकी रेखा है, उसके
१. यत् सत्यम् । २. अन्वयायि । ३. विनिप ॰॰॰ । ४. अपचक्राम । ५. निबद्धदृष्टिना । ६. तस्मिन् । ७. ॰॰॰पतित ॰॰॰ । ८. क्वचित् मयेति पदं न विद्यते ।