भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 404, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 404

किन्नरमिथुनप्राप्तौ निर्वेद० ४० ] चन्द्रकला-विद्योतिनीसहिता । ३६५

स्वेदार्द्र-शरीरमिन्द्रायुधमात्मानञ्चावलोक्य क्षणमिव विचार्य्य स्वयमेव विहस्याचिन्तयत्२, किमिति निरर्थकमयमात्मा मया शिशुनेवायासितः। किमनेन गृहीतेनागृहीतेन वा किन्नरयुगलेन प्रयोजनम्। यदि३ गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् ? अहो ! मे मूर्खतायाः प्रकारः, अहो ! यत् किञ्चनकारितायामादरः, अहो ! निरर्थकव्यापारेष्वभिनिवेशः अहो ! बालिशचरितेष्वासक्तिः । साधुफलं कर्म्म क्रियमाणं वृथा जातम् । अवश्यकर्त्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्य्यमुपपाद्यमानं नोपपन्नम् । राजधर्म्मः प्रवर्त्तितो न निष्पन्नः। गुर्वर्थः प्रारब्धो न परिसमाप्तः। विजिगीषुव्यापार-प्रयत्नो न सिद्धः । कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवार एतावतीं५ भूमिमायात: कस्माच्च मया निष्प्रयोजनमिदमनुसृतमश्व-


श्रमस्वेदेन परिश्रमजनितघर्मेण लार्ड्रे स्विन्नं शरीरं वपुर्यस्य तं तादृशं, इन्द्रायुधं अश्वम् आत्मानं निज-शरीरञ्च अवलोक्य निरीक्ष्य क्षणमिव क्षणसदृशं स्वयमेव आत्मनैव विचार्य चिन्तयित्वा विहस्य हास्यं विधाय अचिन्तयत् चिन्तितवान्—

किमितीति । किमिति हेतोः अयम् आत्मा देहः मया अज्ञेन शिशुनेव बालकेनेव आयासित एतावन्मार्गगमनेन खेदं प्रापितः । अनेन पुरो दृश्यमानेन किन्नरयुगलेन किन्नरमिथुनेन गृहीतेन स्वाधीनीकृतेन अगृहीतेन अस्वाधीनीकृतेन वा किं प्रयोजनं किं फलम् ? । यदि चेद् इदं किन्नरयुगलं गृहीतं ततः किं न किमपीत्यर्थः । अथ अथवा न गृहीतं ततस्तस्मादपि किं न किमपीत्यर्थः । 'अहो' इति शब्द आश्चर्ये । मे मम मूर्खताया अज्ञतायाः प्रकारो विशेषः । यत्किञ्चन कर्म करोति निष्पादयतीति तस्य भावस्तत्ता तस्यां तादृश्याम् आदरो बहुमानः । निरर्थका निष्प्रयोजना ये व्यापाराः क्रियाः तेषु अभिनिवेश आग्रहः । बालिशचरितेषु मूढजनकत्र्त्तव्येषु आसक्तिरेकाग्रता तन्मयत्वमित्यर्थः । साधु उत्कृष्टं फलं यस्य तत्तथोक्तं क्रियमाणं कर्म विधीयमानं दिग्विजय्यरूपं वृथा जातम् व्यर्थमभूत्, इतः परावर्त्तनाभावेन तत्फलभोगसम्भवादित्याशयः । अवश्यकर्त्तव्या अवश्यकरणयोग्या क्रिया दुष्टनिग्रह-शिष्टानुग्रहरूपणा प्रस्तुता आरब्धा, विफलीभूता निष्फलीभूता, इतः परावर्त्तनासम्भवात् । सुहृदो मित्रभूतस्यः तेषां कार्यं राज्येषु सुशासनव्यवस्थापनरूपम्, उपपद्यमानं मयैव विधीयमानं सद् न टपपन्नं न समाप्तम् इतः प्रतिनिवृत्त्यसम्भवात् । राजधर्मो दिग्विजयस्वरूपतः प्रवृत्तितः प्रस्तुतो न निष्पन्नः न समाप्तः स्वदेशं प्रति निवृत्त्यसम्भवात् । गुर्वर्थस्तातकार्यं तद्यशःप्रसारणं, प्रारब्धः प्रवर्त्तितो न परिसमाप्तः नोपपन्नः इहैव मे विद्यमानानन्तरं पराजयबोधनाभावात् । विजिगीषुव्यापाराय दिग्विजयस्वरूपाय प्रयत्न उद्योगो न सिद्धो न सफलः, भूयो भवनप्रतिनिवृत्त्यसम्भवात् ।

कस्मादिति । कस्मात् कुतो हेतोः अहं चन्द्रापीडः आविष्ट इव भूतग्रस्त इव सन्, उत्सृष्टः उज्झितो निजपरिवारः स्वीयपरिच्छदो येन तादृशः, एतावतीम् इयत्परिमाणां भूमिं पृथिवीम् आयात: प्राप्तः ।

कस्मादिति । किञ्चेति चार्थः । मया चन्द्रापीडेन निष्प्रयोजनं निरर्थकम् इदं पुरो दृश्यमानम् अश्व-


(पर) देखकर थोड़ी देर मन ही मन विचारकर आप ही आप हँस कर सोचने लगा—'मैंने क्यों बालकके समान व्यर्थ अपने शरीरको श्रम दिया ? इन किन्नरोंके जोड़ेको पकड़ने वा न पकड़नेसे मुझे क्या फल था ? और यदि नहीं पकड़ लिया तो क्या अनिष्ट हो गया है ? यदि इन्हें पकड़ ही लिया होता तो क्या हो जाता ? कितना आश्चर्य ! यह मैंने क्या मूर्खता की ? कैसा मैंने अविचारका कार्य किया, कैसे निरर्थक कार्यमें मेरा आग्रह ! एवं मूर्खोके व्यवहारमें आसक्ति जिसका फल उत्कृष्ट होना वह व्यर्थ हो गया । अवश्य करने योग्य जिसे प्रारम्भ किया था वह आज विफल हो गया । जो मित्रोंका कार्य करना था वह भी सम्पन्न नहीं हुआ । राजकर्म प्रारम्भ करके उसे फलीभूत (सम्पूर्ण) नहीं किया । पिताजी की कीर्त्ति फैलानेका कार्य आरम्भ किया था वह समाप्त नहीं हुआ । विजिगीषुके व्यवसायमें यत्न किया था वह सिद्ध नहीं हुआ । पिशाचादिसे ग्रस्तके समान क्यों मैं अपने परिजनोंको छोड़कर इतनी दूर आ गया ? और क्यों मैंने इन किन्नर-मिथुनके पीछे व्यर्थ अनुसरण


१. आसीद्वपुषम् ।
२. अन्वचिन्तयत् ।
३. क्वचिद् यदीति पदं न विद्यते ।
४. कर्त्तव्यक्रिया ।
५. ॰न्तावन्तम् ।
६. उत्सृज्य निजपरिवारम्, उत्सृष्टपरिवार एव पाठायोक्ष्यः ।