भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 403, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 403

३६४] | कादम्बरी- | [कथामुखम्

'लापस्तत्समीपमादरादुपसर्पिततुरङ्गः समुपसर्पन्^२, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितञ्च तन्पलायमानमनुसरन्, अनवरतपार्ष्णिप्रहारद्विगुणीकृतजवेनेन्द्रायुधेन एकाकी निर्गत्य निजबल^३समूहात्सुदूरमनुससार^४ । 'अत्र गृह्यते अत्र गृह्यते', इदं गृहीतम् इदं गृहीतम्' इत्यतिरसाकृष्टचेता महाजवतया तुरङ्गमस्य मुहूर्तमात्रेणैकपदमित्वासहायस्तस्मात् प्रदेशात् पञ्चदशयोजनमात्रमध्वानं जगाम । तञ्चानुबध्यमानं किन्नरमिथुनमालोकयत एवास्य सम्मुखापतितमचलतुङ्गशिखरमारुरोह । आरूढे च तस्मिन् शनैः शनैस्तदनुसारिणीं निवर्त्य दृष्टिम् अचल-शिखर-प्रस्तर-प्रतिहत^६-गतिप्रसरो विधृततुरङ्गः चन्द्रापीडस्तस्मिन् काले समारूढस्वेद-

समुत्पन्नकौतुकः कृतग्रहणाभिलाषः विहितस्वीकारेच्छाविशेषः सन्, तत्समीपं तन्निकटम् आदराद् बहुमानात् उपसर्पितः सञ्चालितः तुरगोऽश्वो येन स तादृशः समुपसर्पन् समीपे गच्छन्, अदृष्टपूर्वस्य प्रागनवलोकितस्य पुरुषस्य मनुष्यस्य चन्द्रापीडस्य दर्शनेन अवलोकनेन यः त्रासो भयं तेन प्रधावितं वेगेन चलितम्, तच्च किन्नरमिथुनम्, पलायमानं पलायनं कुर्वाणम् अनुसरन् अनुगच्छन् अनवरतं निरन्तरं यः पार्ष्णिप्रहारः चरणमूलाभ्यां ताडनं तेन द्विगुणीकृतो जवो वेगो यस्य तेन तादृशेन इन्द्रायुधेन अश्वेन एकाकी असहायो निर्गत्य निःसृत्य निजदलसमूहात् स्वसैन्यवृन्दात् सुदूरम् अतिविप्रकृष्टम् अनुससार पश्चाद्ययौ । 'पार्ष्णिः स्त्रीपुंसयोः पादमूले स्याद् धन्विनिःकटौ' इति रत्नकोशटोका ।

अत्रेति । अत्र द्वित्रिपदान्तरभूमौ, गृह्यते लादीयते मया इदं किन्नरमिथुनमिति शेषः । इति अनेन विचारेण अतिरभसेन अत्यन्तजवेन अतिप्रमोदेन वा आकृष्टम् आकर्षितं चेतश्चित्तं यस्य स तादृशः । तया तुरङ्गमस्य अश्वस्य महाजवतया महावेगवत्तया मुहूर्तमात्रेण क्षणमात्रेण एकपदमिव एकपदपरिमितस्थल-मिवेत्यर्थः, असहाय एकाकी तस्मात् प्रदेशात् स्थानात् पञ्चदशभिः पञ्चदशसंख्याकैः योजनैः क्रोशचतुष्टयैः प्रमितमिति पञ्चदशयोजनमात्रम्, प्रमाणे मात्रच्प्रत्ययः षष्टिक्रोशप्रमितमध्वानमित्यर्थः, अध्वानं पन्थानं अगाम ययौ । 'योजनं परमात्मनि । चतुष्क्रोश्यां च योगे च' इति मेदिनी । टीकान्तरेऽपि 'स्याद्योजनं क्रोशचतुष्टयेन' इति वर्त्तते ।

तञ्चेति । किञ्चेति चार्थः । अनुबध्यमानम् अनुस्रियमाणं किन्नरमिथुनं तुरङ्गवदनदम्पती, आलोकयतः पश्यत एव अस्य आलोकयन्तमिमं चन्द्रापीडमनादृत्येत्यर्थः, 'षष्ठी चानादरे' इत्यनेनानादरे षष्ठी बोध्या । सम्मुखे वनिमुखे आपतितम् उपस्थितम् अचलतुङ्गशिखरं पर्वतोच्चसानुम् आरुरोह आरोहणं चकार ।

आरूढ इति । किञ्च, तस्मिन् किन्नरमिथुने आरूढे सति, शनैः शनैः मन्दं मन्दं तदनुसारिणीं तदनुगामिनीं दृष्टिं चक्षुः निवर्त्य परावर्त्य, अचलशिखरस्य पर्वतशृङ्गस्य प्रस्तरैः पाषाणैः प्रतिहतः प्रतिरुद्धो गतिप्रसरः गमनप्रचारो यस्य स तादृशः, अत एव विधृततुरङ्गमनामप्रतिषिद्धाश्वः । समारूढेन सञ्जातेन

खेलनेके लिए निकला तब वनगन्धर्वोंमें विचरण करते-करते पहाड़को चोटी पर से उतरा हुआ एक किन्नरोंका जोड़ा उसे अचानक देख पड़ा। इस अपूर्व दर्शनसे उसको बड़ा कौतुक उत्पन्न हुआ और पकड़नेकी इच्छासे वह अपना घोड़ा आगे बढ़ा कर उस किन्नर-दम्पतिके निकट जाने लगा। इधर वे दोनों भी अदृष्टपूर्व पुरुषके दर्शन से भयभीत होकर भागने लगे। चन्द्रापीड भी निरन्तर एड़ मारकर इन्द्रायुधको दूने वेगसे दौड़ाते-दौड़ाते और अकेला ही उनके पीछे जाते-जाते अपनी सेनासे बहुत दूर निकल गया। 'यह पकड़ा यह पकड़ा, यहाँ पकड़ लेता हूँ, यहाँ पकड़ लेता हूँ' इस भाँति चित्तमें बहुत प्रसन्न होता गया, परन्तु घोड़ेके अत्यधिक वेगसे वह अकेला ही मुहूर्तमात्रमें उस (सुवर्णपुर) प्रदेशसे एक पद परिमित स्थानके समान पन्द्रह योजन (६० कोश) मार्ग दूर चला गया और जिन किन्नरोंके जोड़ेके पीछे वह शीघ्रतासे दौड़ा था वह तो उसके देखते-देखते ही एक सम्मुखवर्ती किसी पर्वतकी चोटी पर चढ़ गया। उनके पर्वतकी चोटी पर चढ़ जाने पर चन्द्रापीडने धीरे-धीरे अपनी दृष्टिको उनकी ओर से फेरा, एवं पर्वतकी चोटी पर जो पत्थर थे उनसे आगेका मार्ग रुका हुआ था इसलिए घोड़ेको खड़ा कर दिया, उस समय दौड़ने और अपने शरीरके परिश्रमजन्य (थकावटसे) निकले पसीने में कई


१. '...तुरङ्गः । २. समुपससर्प । ३. बलसमूहाद् । ४. उत्ससार । ५. 'अत्र गृह्यते' इत्यस्य चैतरूष्यं क्वचिदुपलभ्यते । ६. '...प्रस्तरशकलप्रतिहत...। ७. '...तुरङ्गमः । ८. समुपास्वेद-...।