भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 402, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 402

-चन्द्रापीडदिग्विजयवर्णना ३९] चन्द्रकला-विद्योतिनीसहिता ३६३

प्रथमं प्राचीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरञ्च सप्तर्षिताराशबलां दिशं विजिग्ये¹ एवं वर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं सकलमेव चतुरुदधि²-खाव-वलय-परिखा-प्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणावजितं सकल-भुवन-तलः प्रदक्षिणी-कृत्य वसुधां³ परिभ्रमन्, कदाचित् कैलाससमीपचारिणां हेमकृटनाम्नां⁴ किरातानां सुवर्ण-पुरं नाम निवासस्थानं नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखिलधरणि-तले पर्यटनखिन्नस्य निजबल्स्य विश्रामहेतोः कतिपयान् दिवसानतिष्ठत् ।

एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयानिर्गतः विचरन् ''काननं शैलशिखरादव-तीर्णं¹² यदृच्छया किन्नरमिथुनमद्राक्षीत् । अपूर्वदर्शनतया तु¹³ समुपजातकुतूहलः कृतग्रहणाभि-

प्रथयमिति। प्रथमम् आदौ प्राचीं पूर्वा दिशं विजिग्ये विजितवान् । त्रिशङ्कुः नामैज्ञ्को भूपतिः तिलक इव यस्यां तां तादृशीम्, दक्षिणां दिशम् । वरुणः प्रचेता लाञ्छनं स्वामिनया चिह्नं यस्यां तां तादृशीम्, पश्चिमां दिशम् । सप्तर्षिताराभिः नक्षत्ररूपमरीचयत्रिमभृतिमप्तर्षिभिः शबलां कर्बुरिताम् उत्तरां दिशम् ।

एवमिति । वर्षत्रयेण अब्दत्रयेण, आत्मीकृतानि स्वायत्तीकृतानि अशेषाणि समग्राणि द्वीपान्तराणि अन्तरीपान्तराणि येन तत्तादृशम्, तथा चतुर्णाम् अम्भोधीनां सागराणां खातवलयं खातशमण्डलमेव परिखा प्रमाणं परिमाणं यस्य तत्तादृशम्, सकलं समस्तमेव महीमण्डलं वसुधावलयं बभ्राम विचचार । इह सकलपदेनाधिकपदत्वं न दोषः तस्य अन्तर्गत्तभूमिविशेषपरित्यागशङ्कापनोदार्थत्वात् ।

तत इति । ततः तस्यानन्तरं क्रमेण क्रमशः, अवजितं स्वाधीनीकृतं सकलभुवनतलं समस्तवसु-धातलं येन स तादृशः, वसुधां धरित्रीं प्रदक्षिणीकृत्य प्रदक्षिणां विधाय परिभ्रमन् इतस्ततः पर्यटन्, कदाचित् कस्मिंश्चित्काले कैलाससमीपचारिणां रजताद्रिनिकटगामिनां हेमकृटनाम्नां हिमालयादुत्तरस्थित-पर्वतविशेषनिवासिनां किरातानां म्लेच्छविशेषाणां सुवर्णपुरम् एतत्संजकं नगरं नाम निवासस्थानं वसतिभूमिं पूर्वजलधेः पूर्वसमुद्रात् नातिविप्रकृष्टं नातिदूरं जित्वा विजित्य जग्राह गृहीतवान् ।

तत्रेति । किञ्चेति सार्थः । तत्र सुवर्णपुरे, निखिलधरणितलपर्यटनेन समस्तभूतलपरिक्रमणेन खिन्नस्य परिश्रान्तस्य निजबलस्य स्वीयसैन्यस्य विश्रामहेतोः खेदापनोदाय कतिपयान् दिवसान् कियतो वासरान् अनिष्ठत् अवस्थानमकरोत् ।

एकदेति । एकदा एकस्मिन् समये तत्रस्थ एव तस्मिन् स्थाने स्थित एव इन्द्रायुधम् अश्वम् आरुह्य आरोहणं कृत्वा मृगयानिर्गतः आखेटाय निष्क्रान्तः काननं वनं विचरन् भ्रमन् शैलशिखरादवतीर्णं गिरि-शृङ्गादुत्तीर्णं यदृच्छया स्वाधीनभावेन स्वेच्छया विचरदिति शेषः। किन्नरमिथुनं तुरङ्गमुखदम्पती अद्राक्षीत् अपश्यत् 'युवराज' इत्यस्यानुकर्षः ।

अपूर्वेति । अपूर्वं प्रागविहितं दर्शनम् अवलोकनं यस्य तस्य भावस्तया हेतुना। समुपजातकुतूहलः


वनों वनों को मलिन (नष्ट) करना, सैन्यगण के पदभार से उत्थित धूलियों द्वारा समस्त समुद्रके जलको मलिन करना, समग्र पृथिवीमें विचरण किया। पहले उसने पूर्व दिशा को जीता, उसके बाद त्रिशङ्कुरुपी तिलकवाली दक्षिण दिशाको जीता, फिर पीछे वरुणचिह्नित पश्चिम दिशामें और सबके पीछे सप्तऋषियों के तारोंसे शोभित उत्तर दिशामें उसने दिग्विजय किया। इस प्रकार तीन वर्षमें सब द्वीपान्तरोंको अधीनमें करके वह चार समुद्र-रुपी गोल खाईके प्रमाणावाली पृथिवीमें भ्रमण करता रहा। उसके बाद यथाक्रम समग्र भुवनमण्डल जीत कर, पृथ्वीकी प्रदक्षिणा कर परिक्रमण करने-करते उसने एक समय कैलासके निकट घूमने और हेमकूटपर्वतमें रहने वाले म्लेच्छों (किरातों) का-पूर्व समुद्रके समीप विद्यमान-सुवर्णपुर नामक निवास स्थान जीत लिया। वहाँ समग्र पृथिवी-मण्डलमें पर्यटन करनेसे परिश्रान्त हुई अपनी सेनाको विश्रान्ति देनेके लिए वह (चन्द्रापीड) कितने ही दिन तक ठहरा।

उस सुवर्णपुरमें रहनेके समयमें ही एक दिन चन्द्रापीड इन्द्रायुध पर आरोहण (चढ़) कर शिकार


१. जिग्ये । २. रुधिर वलयमिति न विद्यते । ३. वर्षत्रयेणात्मीकृत । ४. चतुरुदधि- । ५. निर्जित, आवर्जित । ६. द्युसुधरां । ७. हेमकूटनाम्ना, हेमकूटवासां । ८. विप्रकृष्टं । ९. धरणीतलः । १०. ०निर्गतः । ११. कानने । १२. शैलशिखरावतीर्णं + १३. अपूर्वदर्शनतया तु ।