भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

३६४] | कादम्बरी- | [कथामुखम्

'लापस्तत्समीपमादरादुपसर्पिततुरङ्गः समुपसर्पन्^२, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितञ्च तन्पलायमानमनुसरन्, अनवरतपार्ष्णिप्रहारद्विगुणीकृतजवेनेन्द्रायुधेन एकाकी निर्गत्य निजबल^३समूहात्सुदूरमनुससार^४ । 'अत्र गृह्यते अत्र गृह्यते', इदं गृहीतम् इदं गृहीतम्' इत्यतिरसाकृष्टचेता महाजवतया तुरङ्गमस्य मुहूर्तमात्रेणैकपदमित्वासहायस्तस्मात् प्रदेशात् पञ्चदशयोजनमात्रमध्वानं जगाम । तञ्चानुबध्यमानं किन्नरमिथुनमालोकयत एवास्य सम्मुखापतितमचलतुङ्गशिखरमारुरोह । आरूढे च तस्मिन् शनैः शनैस्तदनुसारिणीं निवर्त्य दृष्टिम् अचल-शिखर-प्रस्तर-प्रतिहत^६-गतिप्रसरो विधृततुरङ्गः चन्द्रापीडस्तस्मिन् काले समारूढस्वेद-

समुत्पन्नकौतुकः कृतग्रहणाभिलाषः विहितस्वीकारेच्छाविशेषः सन्, तत्समीपं तन्निकटम् आदराद् बहुमानात् उपसर्पितः सञ्चालितः तुरगोऽश्वो येन स तादृशः समुपसर्पन् समीपे गच्छन्, अदृष्टपूर्वस्य प्रागनवलोकितस्य पुरुषस्य मनुष्यस्य चन्द्रापीडस्य दर्शनेन अवलोकनेन यः त्रासो भयं तेन प्रधावितं वेगेन चलितम्, तच्च किन्नरमिथुनम्, पलायमानं पलायनं कुर्वाणम् अनुसरन् अनुगच्छन् अनवरतं निरन्तरं यः पार्ष्णिप्रहारः चरणमूलाभ्यां ताडनं तेन द्विगुणीकृतो जवो वेगो यस्य तेन तादृशेन इन्द्रायुधेन अश्वेन एकाकी असहायो निर्गत्य निःसृत्य निजदलसमूहात् स्वसैन्यवृन्दात् सुदूरम् अतिविप्रकृष्टम् अनुससार पश्चाद्ययौ । 'पार्ष्णिः स्त्रीपुंसयोः पादमूले स्याद् धन्विनिःकटौ' इति रत्नकोशटोका ।

अत्रेति । अत्र द्वित्रिपदान्तरभूमौ, गृह्यते लादीयते मया इदं किन्नरमिथुनमिति शेषः । इति अनेन विचारेण अतिरभसेन अत्यन्तजवेन अतिप्रमोदेन वा आकृष्टम् आकर्षितं चेतश्चित्तं यस्य स तादृशः । तया तुरङ्गमस्य अश्वस्य महाजवतया महावेगवत्तया मुहूर्तमात्रेण क्षणमात्रेण एकपदमिव एकपदपरिमितस्थल-मिवेत्यर्थः, असहाय एकाकी तस्मात् प्रदेशात् स्थानात् पञ्चदशभिः पञ्चदशसंख्याकैः योजनैः क्रोशचतुष्टयैः प्रमितमिति पञ्चदशयोजनमात्रम्, प्रमाणे मात्रच्प्रत्ययः षष्टिक्रोशप्रमितमध्वानमित्यर्थः, अध्वानं पन्थानं अगाम ययौ । 'योजनं परमात्मनि । चतुष्क्रोश्यां च योगे च' इति मेदिनी । टीकान्तरेऽपि 'स्याद्योजनं क्रोशचतुष्टयेन' इति वर्त्तते ।

तञ्चेति । किञ्चेति चार्थः । अनुबध्यमानम् अनुस्रियमाणं किन्नरमिथुनं तुरङ्गवदनदम्पती, आलोकयतः पश्यत एव अस्य आलोकयन्तमिमं चन्द्रापीडमनादृत्येत्यर्थः, 'षष्ठी चानादरे' इत्यनेनानादरे षष्ठी बोध्या । सम्मुखे वनिमुखे आपतितम् उपस्थितम् अचलतुङ्गशिखरं पर्वतोच्चसानुम् आरुरोह आरोहणं चकार ।

आरूढ इति । किञ्च, तस्मिन् किन्नरमिथुने आरूढे सति, शनैः शनैः मन्दं मन्दं तदनुसारिणीं तदनुगामिनीं दृष्टिं चक्षुः निवर्त्य परावर्त्य, अचलशिखरस्य पर्वतशृङ्गस्य प्रस्तरैः पाषाणैः प्रतिहतः प्रतिरुद्धो गतिप्रसरः गमनप्रचारो यस्य स तादृशः, अत एव विधृततुरङ्गमनामप्रतिषिद्धाश्वः । समारूढेन सञ्जातेन

खेलनेके लिए निकला तब वनगन्धर्वोंमें विचरण करते-करते पहाड़को चोटी पर से उतरा हुआ एक किन्नरोंका जोड़ा उसे अचानक देख पड़ा। इस अपूर्व दर्शनसे उसको बड़ा कौतुक उत्पन्न हुआ और पकड़नेकी इच्छासे वह अपना घोड़ा आगे बढ़ा कर उस किन्नर-दम्पतिके निकट जाने लगा। इधर वे दोनों भी अदृष्टपूर्व पुरुषके दर्शन से भयभीत होकर भागने लगे। चन्द्रापीड भी निरन्तर एड़ मारकर इन्द्रायुधको दूने वेगसे दौड़ाते-दौड़ाते और अकेला ही उनके पीछे जाते-जाते अपनी सेनासे बहुत दूर निकल गया। 'यह पकड़ा यह पकड़ा, यहाँ पकड़ लेता हूँ, यहाँ पकड़ लेता हूँ' इस भाँति चित्तमें बहुत प्रसन्न होता गया, परन्तु घोड़ेके अत्यधिक वेगसे वह अकेला ही मुहूर्तमात्रमें उस (सुवर्णपुर) प्रदेशसे एक पद परिमित स्थानके समान पन्द्रह योजन (६० कोश) मार्ग दूर चला गया और जिन किन्नरोंके जोड़ेके पीछे वह शीघ्रतासे दौड़ा था वह तो उसके देखते-देखते ही एक सम्मुखवर्ती किसी पर्वतकी चोटी पर चढ़ गया। उनके पर्वतकी चोटी पर चढ़ जाने पर चन्द्रापीडने धीरे-धीरे अपनी दृष्टिको उनकी ओर से फेरा, एवं पर्वतकी चोटी पर जो पत्थर थे उनसे आगेका मार्ग रुका हुआ था इसलिए घोड़ेको खड़ा कर दिया, उस समय दौड़ने और अपने शरीरके परिश्रमजन्य (थकावटसे) निकले पसीने में कई


१. '...तुरङ्गः । २. समुपससर्प । ३. बलसमूहाद् । ४. उत्ससार । ५. 'अत्र गृह्यते' इत्यस्य चैतरूष्यं क्वचिदुपलभ्यते । ६. '...प्रस्तरशकलप्रतिहत...। ७. '...तुरङ्गमः । ८. समुपास्वेद-...।

किन्नरमिथुनप्राप्तौ निर्वेद० ४० ] चन्द्रकला-विद्योतिनीसहिता । ३६५

स्वेदार्द्र-शरीरमिन्द्रायुधमात्मानञ्चावलोक्य क्षणमिव विचार्य्य स्वयमेव विहस्याचिन्तयत्२, किमिति निरर्थकमयमात्मा मया शिशुनेवायासितः। किमनेन गृहीतेनागृहीतेन वा किन्नरयुगलेन प्रयोजनम्। यदि३ गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् ? अहो ! मे मूर्खतायाः प्रकारः, अहो ! यत् किञ्चनकारितायामादरः, अहो ! निरर्थकव्यापारेष्वभिनिवेशः अहो ! बालिशचरितेष्वासक्तिः । साधुफलं कर्म्म क्रियमाणं वृथा जातम् । अवश्यकर्त्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्य्यमुपपाद्यमानं नोपपन्नम् । राजधर्म्मः प्रवर्त्तितो न निष्पन्नः। गुर्वर्थः प्रारब्धो न परिसमाप्तः। विजिगीषुव्यापार-प्रयत्नो न सिद्धः । कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवार एतावतीं५ भूमिमायात: कस्माच्च मया निष्प्रयोजनमिदमनुसृतमश्व-


श्रमस्वेदेन परिश्रमजनितघर्मेण लार्ड्रे स्विन्नं शरीरं वपुर्यस्य तं तादृशं, इन्द्रायुधं अश्वम् आत्मानं निज-शरीरञ्च अवलोक्य निरीक्ष्य क्षणमिव क्षणसदृशं स्वयमेव आत्मनैव विचार्य चिन्तयित्वा विहस्य हास्यं विधाय अचिन्तयत् चिन्तितवान्—

किमितीति । किमिति हेतोः अयम् आत्मा देहः मया अज्ञेन शिशुनेव बालकेनेव आयासित एतावन्मार्गगमनेन खेदं प्रापितः । अनेन पुरो दृश्यमानेन किन्नरयुगलेन किन्नरमिथुनेन गृहीतेन स्वाधीनीकृतेन अगृहीतेन अस्वाधीनीकृतेन वा किं प्रयोजनं किं फलम् ? । यदि चेद् इदं किन्नरयुगलं गृहीतं ततः किं न किमपीत्यर्थः । अथ अथवा न गृहीतं ततस्तस्मादपि किं न किमपीत्यर्थः । 'अहो' इति शब्द आश्चर्ये । मे मम मूर्खताया अज्ञतायाः प्रकारो विशेषः । यत्किञ्चन कर्म करोति निष्पादयतीति तस्य भावस्तत्ता तस्यां तादृश्याम् आदरो बहुमानः । निरर्थका निष्प्रयोजना ये व्यापाराः क्रियाः तेषु अभिनिवेश आग्रहः । बालिशचरितेषु मूढजनकत्र्त्तव्येषु आसक्तिरेकाग्रता तन्मयत्वमित्यर्थः । साधु उत्कृष्टं फलं यस्य तत्तथोक्तं क्रियमाणं कर्म विधीयमानं दिग्विजय्यरूपं वृथा जातम् व्यर्थमभूत्, इतः परावर्त्तनाभावेन तत्फलभोगसम्भवादित्याशयः । अवश्यकर्त्तव्या अवश्यकरणयोग्या क्रिया दुष्टनिग्रह-शिष्टानुग्रहरूपणा प्रस्तुता आरब्धा, विफलीभूता निष्फलीभूता, इतः परावर्त्तनासम्भवात् । सुहृदो मित्रभूतस्यः तेषां कार्यं राज्येषु सुशासनव्यवस्थापनरूपम्, उपपद्यमानं मयैव विधीयमानं सद् न टपपन्नं न समाप्तम् इतः प्रतिनिवृत्त्यसम्भवात् । राजधर्मो दिग्विजयस्वरूपतः प्रवृत्तितः प्रस्तुतो न निष्पन्नः न समाप्तः स्वदेशं प्रति निवृत्त्यसम्भवात् । गुर्वर्थस्तातकार्यं तद्यशःप्रसारणं, प्रारब्धः प्रवर्त्तितो न परिसमाप्तः नोपपन्नः इहैव मे विद्यमानानन्तरं पराजयबोधनाभावात् । विजिगीषुव्यापाराय दिग्विजयस्वरूपाय प्रयत्न उद्योगो न सिद्धो न सफलः, भूयो भवनप्रतिनिवृत्त्यसम्भवात् ।

कस्मादिति । कस्मात् कुतो हेतोः अहं चन्द्रापीडः आविष्ट इव भूतग्रस्त इव सन्, उत्सृष्टः उज्झितो निजपरिवारः स्वीयपरिच्छदो येन तादृशः, एतावतीम् इयत्परिमाणां भूमिं पृथिवीम् आयात: प्राप्तः ।

कस्मादिति । किञ्चेति चार्थः । मया चन्द्रापीडेन निष्प्रयोजनं निरर्थकम् इदं पुरो दृश्यमानम् अश्व-


(पर) देखकर थोड़ी देर मन ही मन विचारकर आप ही आप हँस कर सोचने लगा—'मैंने क्यों बालकके समान व्यर्थ अपने शरीरको श्रम दिया ? इन किन्नरोंके जोड़ेको पकड़ने वा न पकड़नेसे मुझे क्या फल था ? और यदि नहीं पकड़ लिया तो क्या अनिष्ट हो गया है ? यदि इन्हें पकड़ ही लिया होता तो क्या हो जाता ? कितना आश्चर्य ! यह मैंने क्या मूर्खता की ? कैसा मैंने अविचारका कार्य किया, कैसे निरर्थक कार्यमें मेरा आग्रह ! एवं मूर्खोके व्यवहारमें आसक्ति जिसका फल उत्कृष्ट होना वह व्यर्थ हो गया । अवश्य करने योग्य जिसे प्रारम्भ किया था वह आज विफल हो गया । जो मित्रोंका कार्य करना था वह भी सम्पन्न नहीं हुआ । राजकर्म प्रारम्भ करके उसे फलीभूत (सम्पूर्ण) नहीं किया । पिताजी की कीर्त्ति फैलानेका कार्य आरम्भ किया था वह समाप्त नहीं हुआ । विजिगीषुके व्यवसायमें यत्न किया था वह सिद्ध नहीं हुआ । पिशाचादिसे ग्रस्तके समान क्यों मैं अपने परिजनोंको छोड़कर इतनी दूर आ गया ? और क्यों मैंने इन किन्नर-मिथुनके पीछे व्यर्थ अनुसरण


१. आसीद्वपुषम् ।
२. अन्वचिन्तयत् ।
३. क्वचिद् यदीति पदं न विद्यते ।
४. कर्त्तव्यक्रिया ।
५. ॰न्तावन्तम् ।
६. उत्सृज्य निजपरिवारम्, उत्सृष्टपरिवार एव पाठायोक्ष्यः ।

३६६कादम्बरी-[ कथायाम्-

मुखद्वयमिति विचार्यमाणे सत्यम्¹ आत्मैव मे पर इव हासमुपजनयति । न जाने कियताऽध्वना विच्छिन्नमितो बलमनुदायि² मे । महाजवो हीन्द्रायुधो निमेष³-मात्रेणातिदूरमतिक्रामति⁴ । न चागच्छता मया तुरगवेगवशात् किन्नरमिथुने बद्धदृष्टिना⁵ अस्मिन्न॑विरलतरुशतशाखा-गुल्मलता-सन्तान-गहने निरन्तर-निपतितै⁶-शुष्क-पर्णावकीर्ण-तले महावने पन्था निरूपितः, येन प्रतिनिवृत्य यास्यामि । नचास्मिन् प्रदेशे प्रयत्नेनापि परिभ्रमता मया मर्त्यधर्मा कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया⁸ बहुशः कथ्यमानम्, 'उत्तरेण सुवर्णपुरं सीमान्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः

मुखद्वयं किन्नरमिथुनम् अनुसृतम् आश्रितमिति विचार्यमाणे विचिन्त्यमाने सति स्वयं विद्यमान आत्मैव स्वचैतन्यम् एव मे मम पर इव अन्य इव हासम् उपजनयति हास्यं निष्पादयति ।

ननु किमर्थं निर्वेदमापन्नः ? परित्यज्यैनं गत्वा स्वजनैः साकं त्वरितं संयोगो विधीयतामित्यत आह— न जान इति । न जाने नाकलयामि कियताऽध्वना कियन्मार्गेण विच्छिन्नं विश्लेपं प्राप्तम् इतो मत्संकाशात् मे बलं सैन्यम् अनुयायि अनुव्रजनशीलमित्यर्थः ।

ननु साम्प्रतमेवायातोऽसीति नातिदूरं तव सैन्यमित्यत आह— महाज्व इति । हि यस्मात्कारणात् महाजवो महावेगः इन्द्रायुधस्तन्नामाश्वः निमेषमात्रेण लोचनस्य निमीलनमात्रेण अतिदूरम् अतिविप्रकृष्टम् अतिक्रामति अतिक्रमणं करोति ।

नन्वेवमपि मार्गमवलोकयन्नेवेह प्राप्तोऽसीति तेनैव परिचितेन मार्गेण प्रतिनिवर्त्यतामित्यत आह— नचेति । अविरलानि सान्द्राणि अन्योन्यसंबद्धानीत्यर्थः, यानि तरुशतानि वृक्षसमूहाः तेषां शाखानां स्कन्धशाखानां गुल्मानां स्तम्बानां लतानां व्रततीनाञ्च सन्तानेन परम्परया गहने घने, तथा निरन्तरं निरवकाशं यथा स्यात्तथा निपतितैः स्रस्तैः शुष्कपर्णैः शुष्कपत्रैः अवकीर्णम् आच्छन्नं तलम् अधोभागो यस्य तस्मिन् तादृशे अस्मिन् महावने महारख्ये अनेन हि घोटकपदचिह्नानवलोकनेन परावर्त्तनमप्यसम्भवमिति ध्वनितम् । आगच्छता आगमनं कुर्वता मया पन्था मार्गो न च निरूपितः, नैव सम्यगवलोकितः, येन यथा प्रतिनिवृत्य परावर्त्य यास्यामि गमिष्यामि ।

इह सम्यगवलोकनाभावं प्रति किन्नरयुगले बद्धदृष्टित्वं तुरगजवः अविरलेत्यादि विशेषणद्वयार्थश्च हेतुरिति पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ।

ननु यद्येवं तर्हि कमपि पुरुषं मार्गं दृष्ट्वा व्रज इत्यत आह—नचेति । अस्मिन् प्रदेशे परिभ्रमन् भ्रमं विदधता मया कश्चित् मर्त्यधर्मा मानवः प्रयत्नेनापि उद्योगेनापि नासाद्यते न प्राप्तुं शक्यते । यः पुरुषः सुवर्णपुरगामिनं सुवर्णनगरयायिनं पन्थानं मार्गम् उपदेक्ष्यति उपदेशं करिष्यति, सुतरां कमपि पृष्ट्वापि निरूपणासम्भव इत्याशयः ।

ननु कथं न मर्त्यधर्मा कश्चिल्लभ्यत इत्याह—श्रुतमिति । हि यस्मात् मया बहुशः अनेकवारं कथ्यमानं प्रतिपाद्यमानं वृद्धैरिति शेषः । श्रुतम् आकणितं सुवर्णपुरम् उत्तरेण सुवर्णपुरादुत्तरदिशि 'एनपा द्वितीया' इत्येनप्योगे द्वितीया । पृथिव्याः वसुधायाः सर्वजनपदानां लोकस्थानानाम्, सीमान्तलेखा-अवधिशेषा रेखा । ततः परतोऽग्रतो निर्मनुषं मनुष्यरहितम् अरण्यं विपिनम् । तदरण्यम् अतिक्रम्य उङ्ग-

किया ? क्यों जब सोचता हूँ तब तो मेरी अन्तरात्मा ही मुझ पर-अन्य पुरुषके समान हँसती है। न मालूम मेरे अनुगामी सैन्यगण इस स्थानसे विभक्त होकर कितने दूर होंगे ? क्योंकि-महावेगवान् इन्द्रायुध निमेष मात्रमें ही बहुत दूर चला जाता है। आनेके समय घोड़ेके वेगसे एवं किन्नर-युगलके प्रति निश्चल-दृष्टि रखने से-सैकड़ों वृक्षों की निरन्तर उलझी हुई डालियोंसे भरे और लगातार गिरते सूखे पत्तोंसे आच्छादित हुई पृथिवीवाले महावनमें मैं मार्ग-निरूपण नहीं कर सकता हूँ कि जिसमें पीछे लौट जाऊँ। इस प्रदेशमें विशेष यत्नसे भटकनेपर भी कोई मनुष्य नहीं दीखता जो मुझे सुवर्णपुर जानेवाला मार्ग बतलावे। क्योंकि मैंने बहुतसे लोगोंको कहते सुना है कि-'सुवर्णपुर पृथिवी के समस्त देशोंकी उत्तर दिशाकी अन्तिम सीमाकी रेखा है, उसके


१. यत् सत्यम् । २. अन्वयायि । ३. विनिप ॰॰॰ । ४. अपचक्राम । ५. निबद्धदृष्टिना । ६. तस्मिन् । ७. ॰॰॰पतित ॰॰॰ । ८. क्वचित् मयेति पदं न विद्यते ।

जलान्वेषणवर्णना ४१ ] चन्द्रकला-विद्योतिनीसहिता । ३६७

परतो निर्मानुषमरण्यम् , तदतिक्रम्य कैलासगिरि'रिति । अयञ्च कैलासः । तदिदानीं प्रति- निवृत्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव इत्यवधार्य वामकरतल-वलितं-रश्मिपाशस्तु- रङ्गमं व्यावर्तयामास ।

व्यावर्तिततुरङ्गमश्च पुनश्चिन्तितवान्-'अयमुद्भासित-प्रभा-भास्वरो भगवान् भानुरधुना दिवसश्रियो रशनामणिरिव नभस्तलमध्यम्^३ अलङ्करोति । परिश्रान्तश्चायमिन्द्रायुधः तदेनं तावदागृहीत-कतिपय-दूर्वाप्रवाल-कवलं कस्मिंश्चित् सरसि शिलाप्रस्रवणे वा सरिदम्भसि वा स्नातपीतोदकमपनीतश्रमं कृत्वा स्वयञ्च सलिलं पीत्वा कस्यचित्तरोरधश्छायायां मुहूर्त्तमात्रं विश्रम्य ततो गमिष्यामि' इति चिन्तयित्वा सलिलमन्विष्यन्^४ मुहुर्मुहुरितस्ततो दत्तदृष्टिः


इह कैलासगिरिः हिमाचल इव तत इति शेषः, इति वध्यमानमिति सम्बन्धः । अयञ्च निकटेऽवलोक्य- मानः स कैलासः । सुतरामिह मनुष्यप्राप्तिमनोरथ एव न विद्यत इत्याशयः ।

तदिति । तत्तस्मात् कारणात् इदानीम् अधुना प्रतिनिवृत्य परावृत्य एकाकिना असहायेन मया स्वयम् उत्प्रेक्ष्योत्प्रेक्ष्य आगमनेव सम्भाव्य सम्भाव्य दक्षिणां याम्याम् आशां दिशम् अङ्गीकृत्य गन्तव्यत्वेन स्वीकृत्य आश्रित्येत्यर्थः । केवलं गन्तव्यं यातव्यम् । एवञ्च यदि स्वकीयः कोऽपि लभ्यते इत्याशयः ।

आत्मति । हि यतः आत्मकृतानां स्वयमाचरितानां दोषाणां दुष्कर्मणां नियतं निश्चितं फलम् आत्मनैव स्वयमेव अनुभवितव्यम् अनुभवविषयीकर्त्तव्यम्, इत्यवधार्य इति निश्चित्य वामकरतलेन सव्यपाणितलेन वलितः परावर्तनाधं कुटिलीकृत्य धृत इत्यर्थः, रश्मिपाशः प्रग्रहरज्जुर्येन स तादृशः, तुरङ्ग- मम्, इन्द्रायुधं व्यावर्तयामास निवर्त्तयामास ।

व्यावर्त्तितेति । व्यावर्तितः पश्चात्तिर्यक्कृतः तुरङ्गम इन्द्रायुधो येन तादृशः, पुनस्तदनन्तरं चिन्ति- तवान् ध्यानवान् । तदेवोपपादयति—अयमिति । उद्भासिताः संदीप्ता याः प्रभाः द्युतयः ताभिः भास्वरो विशेषेण दीप्तिमान् भगवान् ऐश्वर्यवान् भानुः सूर्यः, दिवसश्रियः वासन्लक्ष्म्याः रशनामणिरिव काञ्ची- दामरत्नमिव नभस्तलस्य गगनतलस्य मध्यं मध्यभागम् अलङ्करोति भूपयति, मध्याह्नः सञ्जात इत्यर्थः । इह जानूत्प्रेक्षा ।

परीति । परिश्रान्तः विप्रेश्न अयमिन्द्रायुधः अयमश्वः । तत्तावत् एनम् इन्द्रायुधम्, आगृहीता मुखेन धृता भक्षिता इत्यर्थः, कतिपये द्वित्तो दूर्वाप्रवालानां शतपर्वपल्लवानां कवला ग्रासा येन तं तादृशम्, कस्मिंश्चिन् अनिर्दिष्टनाम्नि सरसि कासारे शिलाप्रस्रवणे पर्वतनिर्झरे सरिदम्भसि नदीजले वा, आदौ स्नातम् अवगाहनीकृतं पश्चात् पीतम् उदकं जलं येन तं तादृशम् अतएव अपनीतः दूरीभूतः श्रमः खेदमो यस्य तं तादृशम् ।

इतीति । चिन्तयित्वा विचार्य सलिलं जलम् अन्विष्यन् मार्गयिष्यन् मुहुर्मुहुः वारंवारम् इतस्ततः


पीछे मनुष्य-रहित वन एवं उसके उस पार तो कैलास पर्वत है, यह वहाँ कैलास पर्वत देखने में आ रहा है। अत एव इस समय मुझे अकेला ही इधरसे लौट कर, अपने से ही सम्भावना (विवेचना) कर-करके केवल दक्षिण दिशा का अवलम्बन कर उसही ओर चलना चाहिए, 'अपने से किये हुए दोषोंका फल निश्चय अपने आप ही भोगना पड़ता है' इस प्रकार मन ही मन स्थिर करके बायें हाथसे लगाम तानकर उसने घोड़ेको लौटाया (मोड़ा) ।

घोड़ेको मोड़कर पुनः सोचने लगा कि—'प्रखर किरणसमूहसे अत्यन्त दीप्तिमान् सूरदेव, इस समय दिन-लक्ष्मीके करधनीदान (मेखलामणि) के समान-आकाशके मध्यभागको अलङ्कृत करता है। यह इन्द्रायुध भी अधिक परिश्रान्त हो (थक) गया है, अतः अब इसको थोड़ा सा दूर्वाङ्कुरोंकी घास खिला कर, किसी सरोवर (तालाब) में किंवा पत्थरके झरनेमे, अथवा नदीके जलमें स्नान करा, पानी पिला, इसकी थकावट दूर कर और स्वयं भी जलपान कर किसी वृक्षके नीचे छायामें कुछ देर विश्राम (आराम) कर उसके बाद जाऊँगा' । इस प्रकार विचार कर जलके अन्वेषणमें बारम्बार इधर-उधर दृष्टिपात कर वह विचरण करता हुआ आगे बढ़ा ।


१. ...'चलित...' ।
२. ...'तुरङ्गः, तुरङ्ग...' ।
३. क्वचित् नभस्तलेति पदं न विद्यते ।
४. अन्विष्यमाणः, अन्वेषमाणः, अन्वेषयन् ।

३६८कादम्बरी-[ कथायाम्-

-पर्यटन् नलिनीजलावगाहोत्थितस्याचिरादपक्रान्तस्य॑ च महतो गिरिचरस्य वनगजयूथस्य चरणोत्थापितैः² पङ्कपटलैरार्द्रीकृतम्, करावकृष्टैश्च समृणालमूलनालैः³ कमलकलापैः कल्माषितम्, आर्द्रार्द्रैश्च शैवालप्रवालैः श्यामलितोद्देशम्, उद्दलितैश्च कुमुद-कुवलय-कह्लार-कुङ्-मलैरन्तरान्तरा विच्छुरितम्, उत्खातैश्च सकर्दमैः शालूककन्दैराकीर्णम्, खण्डितैश्च कुसुमस्तवकशतैर्वनपल्लवैराच्छादितम्, आलुनाभिश्चकुसुमोपविष्टोल्लसत् षट्पदाभिर्वनलताभि-राकुलितम्, अभिनवकुसुम-परिमलवाहिना च तमालपल्लवरसश्यामेन मदजलेन सर्वतः सिक्तं मार्गमद्राक्षीत् ।

समन्तात् दत्तदृष्टिः पर्यटन् परिभ्रमन् चन्द्रापीडः मार्गमद्राक्षीदित्यत्तरेण सम्बन्धः । कमल्युक्तसरोवरस्य जले सलिले अवगाहनात् विलोडनात् परम् उत्थितस्य निःसृतस्य ।

'नलिनी पद्मिनी पद्म-व्योम-सिन्धु-सरोवरे । नलिकायां च नलिनां' इति विश्वः ॥

अचिरात् स्वल्पकालात् अपक्रान्तस्य अपसृतस्य महतो महीयसो गिरिचरस्य पर्वतचारिणो वन-गजयूथस्य हस्तिसमूहस्य चरणद्वारा उत्थापितैः ऊर्ध्वं नीतैः पङ्कपटलेः कर्दमसमूहैः आर्द्रीकृतं क्लिन्नी-कृतम् इत आरभ्य द्वितीयेकवचनान्तपदानि मार्गमित्यग्रेतनस्य विशेषणानि । करावकृष्टैः शुण्डाभिरा-कृष्टानीतैः मृणालमूलानि बिसमूलानि च नालानि च तैः सह वर्त्तमानैः कमलकलापैः पद्मसमूहैः कल्माषितं कर्बुरितं विचित्रीकृतमित्यर्थः । सर्वत्र चकाराणाम् अपि चेत्यर्थो ज्ञेयः । आर्द्रार्द्रैः तरङ्गोत्तो-लनादतिशयेन सलिलक्लिन्नैः, शैवालप्रवालैः शैवालकिसलयैः श्यामलितः कृष्णवर्णोकृतः उद्देशाः स्था-नानि यस्य तं तादृशम् । उद्दलितैः अवमृद्योर्ध्वं नीतैः, कुमुदानि श्वतोत्पलानि, कुवलयानि नीलोत्पलानि, कह्लाराणि सौगन्धिकानि तेषां कुड्मलः मुकुलैः, अन्तरान्तरा मध्ये मध्ये विच्छुरितं रञ्जितम् । 'नीलोत्पलं कुवलयम्,' 'सौगन्धिकं तु कह्लारम्,' 'कुड्मलो मुकुलोऽस्त्रियाम्,' इति चामरः । उत्खातैः उत्पादितैः सकर्दमैः पङ्कसहितैः, शालूककन्दैः उत्पलानां मूलैः आकीर्णं व्याप्तम् । 'शालूकमेषां कन्दः स्यात्' इत्यमरः। इहाधिकपदत्वदोषनिरासाय कन्दपदं न देयम् । खण्डितैः त्रोटितैः कुसुमस्तबकश तैः पुष्पगुच्छविचित्रैः वनपल्लवैः अरण्यकिसलयैः आच्छादितम् आवृत्तम् । आलुनाभिश्च्छिन्नाभिः कुसुमेषु पुष्पेषु उपविष्टा मध्यवर्त्तिनः सन्तः उल्लसन्तः स्फुरन्तः षट्पदाः भ्रमरा यासु ताभिस्तादृशीभिः वनलताभिः अरण्यव्रत-तिभिः आकुलितम् आकीर्णम् । तथा अभिनवं सद्यः प्रस्फुटितं यत् कुसुमं पुष्पं तस्य परिमलं सौरभं तत्सदृशगन्धमित्यर्थः, वहतीति तेन तादृशेन, तमालपल्लवस्य तापिच्छकिसलयस्य रसवत श्यामेन कृष्णवर्णेन मदजलेन दानवारिणा सर्वतो विष्वक् सिक्तं सेचितम् । अन्वयस्तु प्रागुक्त एव ।

इह 'अभिनवकुसुमपरिमलवाहिना' इत्यत्रासम्बद्धवस्तुसम्बन्धरूपा निदर्शना । तथा 'तमालपल्ल-वरसश्यामेन' इत्यत्र लुप्तोपमालङ्कारः ।


इतनेमें सरोवरके जलमें स्नान कर थोड़े ही समय पहले गये हुए बड़े बड़े पहाड़ी हाथियोंके चरणोंसे चिह्नित और कर्दम-समूह (कीचड़) से आई मार्ग उसे देख पड़ा । वह सूंड से तोड़े गये मृणाल-मूल और नालदण्ड के साथ कमलोंसे चितकबरा हो रहा था; अत्यन्त जलक्लिन्न (गीले) शैवाल-पल्लवोंसे उसका कुछ भाग श्यामवर्ण हो गया था; तोट कर डालो हुई श्वेतकमल, कुमुद, नीलोत्पल और कह्लारके पुष्पोंकी कलियां मध्य मध्यमें फैली हुई थीं; खोद कर डाले हुए कमल-कन्द कीचड़ सहित व्याप्त होकर पड़े थे; तोड कर टाले हुए पुष्पोंके गुच्छों से युक्त जंगलके पत्तोंसे आच्छादित था; काट कर गिरायी हुई वनलताओंके पुष्पों पर भ्रमरगण बैठ कर विलास कर रहे थे एवं अभिनव पुष्पके समान सौरभव्राही और तमाल-पल्लवके रसके समान श्यामवर्ण हस्तिगणके मदजलसे उक्त मार्ग का सब स्थान सिक्त था।


१. अपक्रान्तस्य, उत्थितस्यः, गिरिचरस्य, २. चरणोत्तारितैः उत्तारितैः । ३. करिकलमकृष्टैः मृणा-लनःलैः । ४. कमलकुमुद०००। ५. आखाण्डितैश्च । ६. तारैः । ७. ००कुसुमोपविष्टनिष्पिष्टोच्छ्वसत्, कुसुमोपविष्टनिष्पिष्टोच्छ्वसित, कुसुमोपविष्टनिष्पिष्टो भ्रनत् । ८. बकुल कुसुम०००। ९००००सरस०।

जलान्वेषणवर्णनम् ४१ ] चन्द्रकला-विद्योतिनीसहिता । [ ३६६

उपजातजलाशयशङ्कश्च^१ तं प्रतीपमनुसरन्, उद्ग्रीवैर्द्दश्यैरुपारच्छत्रमण्डलाकारैः सरल-साल-सल्लकी-प्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपतेन, स्थूल-कपिल-वालुकेन, शिलाबहुलतया विरलतृणोलपेन, वन-द्विप-दशन-दलित मनः-शिला-धूलि-कपिलेन, आमङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणभेदनामञ्जरी-भिर्जटिलितशिलातलेन, अनवरत-गलद्गुग्गुलु-द्रुम-द्रवार्द्रीकृतदृषदा, शिखर-स्रुत-शिला-जतु-रसपिच्छिलोपलेन, टङ्कन-हय-खुर-खण्डित-हरिताल-क्षोद-पांशुलेन, आखुनखरोत्खात-

उपजातेति । उपजाता जलादिचिह्नावलोकनादुत्पन्ना जलाशयस्य जलाधारस्य शङ्का सम्भावना यस्य स तादृशः चन्द्रापीडः, तं मार्गं प्रतीपं प्रतिकूलं यथा स्यात्तथा अनुसरन् तदभिमुख्येन गच्छन्, कैलासनलेन रजताद्रयधोभागेन कञ्चित् अध्वानं गत्वा तरुषण्डं ददर्शेत्यग्रिमेण सम्बन्धः । तमेव विशेषयितुमाह-उद्ग्री-वेति । उद्ग्रीवम् उन्नतकन्धरं यथा स्यात्तथैव दृश्यैर्द्रष्टुं योग्यैरत्युच्चैरित्यर्थः, उपरि उपरिभागे छत्रमण्डलस्य आतपत्रावरणवलयस्य आकार इव आकारो येषां तैस्तादृशैः सरलसालसल्लक्यः स्वनामप्रसिद्धपर्वतीयवृक्ष-विशेषाः प्राया बहुला येषु तैस्तादृशैः, अविरलैः सान्द्रैरपि निःशाखतया शिखरपर्यन्तशाखारहिततया कारणेन, विरलैः अमान्द्रैरिव उपलक्ष्यमाणैः अवलोक्यमानैः पादपैः वृक्षैः उपतेन युक्तेन ।

'इह 'उपरिच्छत्रमण्डलाकारैः' इत्यत्र लुप्तोपमालङ्कारः । 'विरलैरिव' इत्यत्र च गुणोत्प्रेक्षालङ्कारः ।

स्थूलेति । स्थूलाः पृथुलाः कपिलाः पिङ्गलवर्णाश्च वालुकाः सिकता यत्र तेन तादृशेन ।

शिलेति । शिलाबहुलतया पाषाणाधिकतया कारणेन, विरला अल्पाः, तृणानि उलपा विस्तीर्णा लताश्च यत्र तेन तादृशेन । 'लता प्रतानिनो वीरुद् गुल्ममुल्प इत्यपि' इत्यमरः ।

वनेति । वनद्विपाः वन्यहस्तिनः तेषां दशनैर्दन्तैः दलिता मर्दिता या मनःशिलाः पर्वतीयधातु-विशेषास्तासां धूलिभिः रेणुभिः कपिलेन पिङ्गलवर्णेन ।

आमङ्गीति । आ समन्तान् मङ्गो विविधमङ्गिभावामस्तीति ताभिस्तादृशीभिः, अत एव उत्कीर्णाभिरिव प्रस्तरं सन्तक्ष्य रचिताभिरिव विद्यमानाभिः, पत्रभङ्गवत् गण्डस्थलादौ पत्रलतादिचिह्नवत्ता कुटिलाभिर्व-क्राभिः, पाषाणभेदनानां तन्नामकवृक्षविशेषाणां मञ्जरीभिः वल्लरीभिः जटिलितानि विषमितानि शिला-तलानि प्रस्तरयोरन्तराणि यस्य तेन तादृशेन । 'पाषाणभेदनः (पुं) वृक्षविशेषः' इति शब्दकल्पद्रुमः ।

इह 'उत्कीर्णाभिरिव' इत्यत्र क्रियोत्प्रेक्षा, 'पत्रभङ्गकुटिलाभिः' इत्यत्र लुप्तोपमा, अनयोश्च परस्परं नैरपेक्ष्येण स्थितत्वात् संसृष्टिरलङ्कारः ।

अनवरतेति । अनवरतं निरन्तरं गलद्भिः स्रवद्भिः गुग्गुलुद्रुमाणां पलङ्कषवृक्षाणां द्रवा निर्यासाः तैः आर्द्रीकृताः क्लिन्नीकृता दृषदः प्रस्तरा यत्र तेन तादृशेन ।

शिखरेति । शिखरात् सानोः स्रुतेन च्युतेन शिलाजतुदवेन तत्संज्ञकगिरिजधातुद्रवेण पिच्छिला विजिला उपलाः पाषाणा यत्र तेन तादृशेन ।

टङ्केनेति । टङ्कनानि प्रस्तरदारकशास्त्राणि ये हयानां तुरगाणां खुराः शफाः तैः खण्डितानां शकली-कृतानां चूर्णितानामित्यर्थः, हरितालानामालानां क्षोदैश्चूर्णैः पांशुलं रेणुमयं तेन तादृशेन । 'टङ्कः पाषाणदारणः', पिञ्जरं पीतनं तालमालकं हरितालके' इति चामरः ।

आस्विति । आखूनां मूषकाणां नखरैर्नखैः उत्खातेभ्यः उत्खनितभ्यो बिलेभ्यो विवरेभ्यो विप्रकी-


उस मार्गको देखकर समीपमें जलाशयका अनुमान करके वह सामने ही जाने लगा और कैलास पर्वतके नीचे होकर तलहटीमें पहुँच गया। उस स्थानमें देखता है कि—सरल, साल और सल्लकीके वृक्ष अधिक परि-माणमें लगे हुए हैं। वे इतने ऊँचे हैं कि गर्दन ऊपर उठानेते ही देख पड़ते हैं। एवं ऊपरके भागमें छत्रके समान मण्डलाकार और सघन होनेपर भी शाखायें (टहनियाँ) न होनेसे, वे विरल होते दीख पड़ते हैं। उस स्थान का बालुकामय प्रदेश (रेती) मोटा और पिङ्गलवर्ण है। अधिक प्रस्तर होनेके कारण उस स्थानमें थोड़े ही घास और तृण आविर्भूत होते हैं। वन्य हस्तिगणके दन्त द्वारा चूर्णित (टूटी हुई) मैनसिलकी धूलसे वह स्थान पिङ्गल वर्ण (धूसर ?) हो गया है। चारों ओर मुड़ी हुई-और उत्कीर्ण-सी प्रतीत होतीं-पत्रलतादि चिह्नके समान, कुछ टेढ़े, पाषाण-भेदन वृक्षको मञ्जरियाँ उसकी शिलाओंके मध्यके छेदोंमें उत्कीर्ण पड़ी हैं। निरन्तर (रात्र-


१. "...जलाशय उपजातजलाशयशङ्कः ।
२. उद्ग्रीवैः ।
३. शिलातलवहुलतया ।
४. पाषाणभेद...' ।
५. शिलान्तरेण ।
६. टङ्कनखुरखुर...' ।

३७०कादम्बरी-[ कथामुखम्-

विल-विप्रकीर्ण¹-काञ्चनचूर्णेन, सिकता-निमग्न-चमर²-कस्तूरिका-मृगी-खुर-पङ्किना, संशीर्ण-रङ्क³-रुरु-रोम-प्रकर-निचितेन, विषम-शिलाच्छेदोपविष्ट-जीवञ्जीवक-युगलेन, वनमानुष-मिथुनाध्यासिततटगुहामुखेन, गन्धपाषाण-परिमलामोदिना, वेत्रलताप्रतानप्ररूढवेणुना⁴ कैलासतलेन, कञ्चिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागे जलभारालसं⁵ जलधर-व्यूहमिव बहुल-पक्ष⁶क्षपान्धकारमिव पुञ्जीकृतमत्यायतं तरुपण्डं⁷ ददर्श। तच्च⁸ सम्मुखा-दागतेन⁹ कुसुम¹⁰रजःकषायामोदिना जलसंसर्गशिशिरेण शीकरिणा¹¹ चन्दनरस-स्पर्शेनैव¹² आलि-

र्णेति विक्षिप्तानि काञ्चनचूर्णानि सुवर्णधूलयो यत्र तेन तादृशेन ।

सिकतेति । सिकतासु बालुकासु निमग्ना बुडिता चमराणां मृगविशेषाणां कस्तूरिकाहरिणीनाञ्च खुरपङ्किः खुरलक्षणपद्विर्यत्र तेन तादृशेन । 'चमरो चामरेऽपी तु मञ्जरीमृगभेदयोः' इति मेदिनी ।

संशीर्णेति । संशीर्णेन शरीरात् पतितेन रङ्कूणां रङ्कनाम्नाञ्च मृगविशेषाणां रोमप्रकरेण लोमजालेन निचितं व्याप्तं तेन तादृशेन । रमते रम्यत इति वा रङ्कः सुग्गवादिस्वात् (उ० १।१७) माधुः।

'कृष्णमारस्तुरुङ्गरुहृशम्बररौहिषाः । गोकर्णपृषतैणर्यरुहोहिताश्रमरो नृगाः ॥' इत्यमरः । केचित्तु रहति गच्छतीति रङ्कुरित्याहुः, तन्न रहिघातोर्घातुपाठेऽदर्शनात् ।

विषमेति । विषमेषु नीचोच्चेषु शिलाच्छेदेषु पाषाणखण्डेषु उपविष्टानि आसीनानि जीवञ्जीवक-युगलानि चकोरपक्षिक्षन्द्रानि यत्र तेन तादृशेन, जीवं प्राणिनं जीवयति विषनाशानेनेति जीवञ्जीवकः, कर्त्तरि ष्वुल् । 'जीवञ्जीवश्चकोरकः' इत्यमरः, 'जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे च' इति च हेमः।

वनेति । वनमानुषाणां मनुष्याकृतिमद्वशाकारवनचारिविशेषाणां मिथुनैर्दम्पतिभिः अध्यासितानि साश्रितानि तटगुहामुखानि पर्वतीयगह्वरद्वाराणि यत्र तेन तादृशेन ।

गन्धपाषाणेति । गन्धपाषाणानां गन्धकानां परिमलेन सौगन्ध्येन आमोदिना आहादविधायिना 'गन्धाश्मनि तु गन्धकः' इत्यमरः। वेत्रलतानां वेत्रवल्लीनां प्रतानेषु समूहेषु प्ररूढा उत्पन्ना वेणवो वंशा यत्र तेन तादृशेन कैलासतलेन रजताद्र्यधोभागेन ।

कञ्चिदिति । कञ्चिदध्वानं कियन्तं मार्ग गत्वा तस्यैव पूर्वोक्तस्यैव कैलासशिखरिणः रजताद्रेः पूर्वोत्तरे दिग्भागे ऐशान्यां जलधरव्यूहं मेघसमूहमिव, तथा बहुलपक्षस्य कृष्णपक्षस्य क्षपायाः त्रिषामायाः पुञ्जीकृतम् अन्धकारं तामिस्रमिव, सान्द्रतया गाढश्याममपमित्याशयः । अत्यायतम् अधिकस्थानव्यापि, तरुपण्डं वृक्षसमूहं ददर्श अवलोकयामास ।

इह श्रौतोपमयोर्मिथो नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः।

तच्चेति। सम्मुखागतेन अभिमुखायातेन कुसुमरजसां पुष्पपरागणां कषायैः सुगन्धिभिः आमोदिना आनन्दविधायिना, जलसंसर्गेण सलिलसम्बन्धेन शिशिरः शीतलः तेन तथोक्तेन, शीकरिणा सलिलबिन्दु-मता, तथा चन्दनरसस्य मलयजद्रवस्य स्पर्श इव स्पर्शो यस्य तेन तादृशेन, जलतरङ्गाग्रहेन जलतरङ्ग-


न्दिद) पिगलते गुगुलुड्स के रससे उसके प्रस्तर आर्द्र हो गये हैं। चोटीसे गिरते शिलाओंके रससे उसकी शिलाएँ चिकनी हो गई हैं। पाषाणविदारण जन्तुके समान कठिन घोटोंके खुरोंसे विदीर्ण हरितालके रेणुसे वह धूलिमय (मलिन) हो गई है। भूपोंके नखोंसे खोदे बिलोंके अन्दर वहां सुवर्णरज विक्षिप्त हैं। उसकी बालूका-राशि (रेती) के ऊपरके चमर और कस्तूरी मृगोंके पैरोंके निमग्न हो रही हैं। रङ्कमृग और रुरुमृग (समूही मृग) के गिरे रोमोंके गिरनेसे वह स्थान व्याप्त हुआ है। उल्टी ऊँची-नीची प्रस्तरखण्डों (चट्टानों) पर वहाँपर चकोर पक्षियोंके जोड़े बैठे हैं। पर्वतगुफाओंके द्वारमें बहुसंख्यक वनमानुषके जोड़े रहते हैं। सुगन्धि-पाषाण सौरभ आता है और वेंतकी बेलोंके प्रतानमें बांस उगे हैं। चन्द्रापीड उस कैलासपर्वतकी तलहटी होकर कुछ मार्ग अतिक्रान्त कर उस कैलासपर्वतके ही पूर्वोत्तर कोणमें जलके भारसे मन्थर मेघसमूहके समान एवं कृष्णपक्षकी रात्रियोंका एकत्रित हुई अन्धकारसमूहके समान कृष्णवर्ण, बहुस्थानव्यापी और पुञ्जीकृत वृक्षोंका मण्डल देखा। फूलोंके परागसे सुवासित जलसंसर्गसे शीतलविन्दुवाही एवं चन्दनरसके समान शीतलस्पर्शी सम्मुखसे


१. ऽवकीर्ण०...। २. चमरू०...। ३. संशीर्णजीर्णरङ्कु, संशीर्णरङ्क, संशीर्णरुरु०...। ४. ऽप्रतनप्ररूढ०...। ५. ऽलभारालस०...। ६. ऽबहुल०...। ७. ऽविहिततरुपण्डम् । ८. तच्च। ९. ऽभ्मुख०गतेन। १०. कुसुम०...। ११. दिशिरशीकरिणा। १२. ०रसतलस्पर्शन ।

अच्छोदसरोवरवर्णना ४२ ] चन्द्रकला-विद्योतिनीसहिता । ३७१


ङ्ख्यमान इव जलतरङ्गमरुतेन, कमलमधुपानमत्तानाञ्च श्रोत्रहारिभिः कलहंसानां कोलाह-लैराहूयमान इव प्रविवेश¹ । .

प्रविश्य च तस्य तरुषण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः, स्फटिकभू-मिगृहमिव वसुन्धरादेव्याः, निर्गमन²-मार्गमिव सागराणाम् , निस्यन्दमिव दिशां, अवता-रमिव जलाकारं गगनतलस्य, कैलासमिव, द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रा-तपमिव रसतामुपेतम्, हराट्टहासमिव जलीभूतम्, त्रिभुवन-पुण्यराशिमिव सरोरूपेणाव-स्थितम्, वैडूर्य्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्य-


वायुना आलिङ्गयमान इव, कमलस्य पद्मस्य यन्मधु रसस्तस्य पानेन आस्वादनेन मत्तानाम् उत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः मधुरतया कर्णाकर्षकैः कोलाहलैः कलकलैः आहूयमान इव आह्वा-नविषयीक्रियमाण इव च सन् सन् तरुषण्डं प्रविवेश प्रवेशं कृतवान् ।

इह 'आलिङ्ग्यमान इव' इत्यत्र 'आहूयमान इव' इत्यत्र च क्रियोत्प्रेक्षालङ्कारः ।

प्रविवेशेति । किञ्चेति चार्थः । प्रविश्य प्रवेशं कृत्वा तस्य तरुषण्डस्य मध्यभागे अन्तरालप्रदेशे 'अच्छोदं' नाम सरो दृष्टवानिति वक्ष्यमाणया दूरस्थायिन्या क्रियया सम्बन्धः । इह द्वितीयान्तानि पदानि 'अच्छोदं नाम सरः' इत्यस्य विशेषणानि । त्रैलोक्यलक्ष्म्याः त्रिभुवनश्रियः मणिदर्पणमिव रत्नादर्शमिव निर्मलतया समस्तप्रतिबिम्बग्रहणात् । वसुन्धरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव भूगर्भगतं स्फटिकमयं भवनमिव स्वच्छत्वात् । सागराणां समुद्राणां निर्गमनमार्गमिव पातालाद् भूतले निःसरणमार्गमिव विपुलत्वादतलस्पर्शत्वाच्च । दिशां हरितां निस्यन्दमिव द्रवीभूय प्रस्रवणमिव विशदत्वात् गगनतलस्य नभस्तलस्य जलाकारं सलिलरूपम् अवतारमिव अवतीर्णमिव स्वच्छत्वादेव । द्रवतां रसताम् आपन्नं प्राप्तं कैलासं तन्नामक-रजताद्रिशिखरमिव निर्मलत्वात् । विलीनं द्रवीभूतं तुषारगिरिं हिमाचलमिव शीतल-त्वात् । रसतां सलिलताम् उपेतं प्राप्तं चन्द्रस्य आतपं कान्तिमिव विशदशीतलश्वेतत्वात् । जलीभूतं हरस्य महेश्वरस्य अट्टहासं विपुलहास्यमिव श्वेतत्वात् । अत्याधिकशुभ्रत्वसूचनाय हरपदम् । सरोरूपेण कासाररूपेण अवस्थितं कृतावस्थानं, त्रिभुवनस्य त्रैलोक्यस्य पुण्यराशिमिव श्रेयःपुञ्जमिव पवित्रत्वात् । सलिलाकारेण जलस्वरूपेण परिणतं तद्रूपतामापन्नं वैडूर्य्यगिरिजालमिव वैडूर्यरत्नपर्वतसमूहमिव स्वच्छ-त्वात् । नूतनजलदगर्जनाद् विदूरभूमौ कानिचिद् रत्नानि जायन्ते तान्येव हि वैडूर्याणीत्यभिधीयन्ते । महाकविकालिदासास्तु कुमारसंभवे—

'विदूरभूमिर्नवमेघशब्दादुद्भिद्यया रत्नशलाकयेव'

इत्याहुः । तथा द्रवीभूय रसीभूय एकत्र एकस्मिन् स्थले निस्यन्दितं निर्गलितं शरदभ्रवृन्दं शर-त्सामयिकजलदसमूहमिव निर्मलत्वात् । शरत्समय एव हि मेघानां नैर्मल्यं भवतीत्येतद्वचनाय शरत्पदम् । प्रचेतसो वरुणस्य आदर्शभवनमिव दर्पणमयनिकेतनमिव प्रतिबिम्बितत्वाद् 'प्रचेता वरुणः पाशी' इत्यमरः ।


आगत, जलतरङ्गोंका वायु मानो उसका आलिङ्गन करने लगा हो, और कमल-मधु पान कर मत्त हुआ कलहंसों का सुमधुर (श्रोत्रहारी) कोलाहल मानो उसको आह्वान करता हो-इस प्रकार चन्द्रापीड ने उस वृक्षमण्डप में प्रवेश किया ।

प्रवेश करते ही मण्डप के मध्यमें एक अत्यन्त मनोहर लोचनोंको प्रमुदित करनेवाला-'अच्छोद' नामका सरोवर देखा । वह त्रैलोक्यलक्ष्मी के मणिमय दर्पण के समान, पृथिवीदेवी के भूतलान्तर्गत स्फटिकमय गृह (तैखाने) के समान, पातालसे सब समुद्रोंके भूतलमें निर्गमन-मार्गके समान, दिशाओंका जलरूपमें होकर झरनेके समान, आकाशके जलाकारमें अवतारग्रहण करनेके समान, तरलता प्राप्त (गले हुए) कैलास पर्वतके समान, द्रवीभूत हिमालयके समान, द्रवताको प्राप्त हुए चन्द्रमाके प्रभाके समान, शङ्करके जलीभूत अट्टहासके समान, सरोवरके रूपमें त्रैलोक्यके पुण्यसमूहके समान, जलाकारके रूपमें परिणत वैडूर्यमणिके पर्वतसमूहके समान, द्रवीभूत होकर


१. विवेश । २. वसुधादेव्याः । ३. उत्निर्गमन... । ४. अंशावतारमिव गगनतलस्य, अवतारमिव जलाकारम्, अंशावतारं जलाकारम्....।

३७२कादम्बरी-[ कथायाम्-

न्दितम्, आदर्शभवनमिव¹ प्रचेतसः, स्वच्छतया मुनिमनोवृत्तिभिरिव सज्जनगुणैरिव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निर्मितम्, आपूर्णपर्यन्तमप्यन्तःस्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणं, अनिलोद्धूतजलतरङ्गशीकर-धूलि, जन्मभिः सर्वतः संस्थितैः² रक्ष्यमाणमिवेन्द्रचापसहस्रैः, प्रतिभानिभेनान्तः प्रविष्टं³ सकानान⁴-शैल-नक्षत्र-ग्रहचक्रवालं त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, आसन्नकैलासावतीर्णस्य च शतशो भगवतः खण्डपरशोर्मज्जनोन्मज्जन-क्षोभ-चलितचूडामणि-चन्द्रखण्डच्युतेनामृतरसेन जल-


इह 'निस्यन्दमिव दिशाम्' इत्यत्र 'अवतारमिव जलाकारं गगनस्य' इत्यत्र च क्रियोत्प्रेक्षालङ्कारः । 'तुषारगिरिमिव विलीनम्' इत्यत्र द्रव्योत्प्रेक्षालङ्कारः । अवशिष्टेषु च जात्युत्प्रेक्षालङ्कारो ज्ञेयः ।

स्वच्छेति । स्वच्छतया निर्मलत्वेन हेतुना, मुनिमनोवृत्तिभिः ऋषिचित्तवृत्तिभिः निर्मितमिव रचितमिव तासामप्यतिनिर्मलत्वादित्याशयः । सज्जनानाम् आप्तानां गुणैः मार्दवार्ज्जवादिभिः, हरिणलोचनप्रभाभिरिव मृगनेत्रकान्तिभिरिव, मुक्ताफलांशुभिः मौक्तिककिरणैः निर्मितमिवेति सम्बन्धः । इह चतसृणामपि क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।

आपूर्णेति । आपूर्णः सलिलैः सम्पूर्णः पर्यन्त उपर्यवशिष्टसीमा यस्य तत्तथोक्तं सदपि, अन्तरभ्यन्तरे स्पष्टं स्फुटं यथा स्यात्तथा दृष्टा अवलोकिताः सकलवृत्तान्ताः प्रतिबिम्बभावेन वृत्तवल्लीस्पन्दनादिक्रियाः, यद्वा अधःस्वशुक्तिसैकतादिपदार्था यत्र तत्तादृशं तस्य भावस्तत्ता तया कारणेन, रिक्तं जलशून्यमिव उपलक्ष्यमाणम् अवलोक्यमानम् । इह क्रियोत्प्रेक्षालङ्कारः ।

अनिलेति । अनिलेन वायुना उदूधृतानाम् उत्पादितानां जलतरङ्गाणां सलिलकल्लोलानां शीकरधूलिभ्योऽम्बुकणेभ्यो जन्म उत्पत्तिः येषां तैः तादृशैः, सर्वतः समन्तात् संस्थितैः विद्यमानम् इन्द्रचापसहस्रैः इन्द्रधनुःसमूहैः रक्ष्यमाणमिव त्रायमाणमिव । इहापि क्रियोत्प्रेक्षालङ्कारः । तज्जलबिन्दुपु सूर्यरश्मिपातेन तेपामिन्द्रधनुर्वद्विविधवर्णतयाऽवलोक्यमानत्वादियमुत्प्रेक्षेत्यवधेयम् ।

प्रतिभेति । नारायणं विष्णुमिव, उद्भिन्नानि प्रस्फुटितानि पङ्कजानि कमलानि यत्र तेन तथोक्तेन उदरेण अभ्यन्तरप्रदेशेन, नारायणपक्षे तु उद्भिन्नम् उत्पन्नं पङ्कजं ब्रह्मकमलं यस्मात्तेन तथोक्तेन उदरेण कुक्षिणा करणेन, प्रतिमानिभेन प्रतिबिम्बव्याजेन अन्तःप्रविष्टम् अन्तर्लीनं, काननानां वनानां शैलानाम् अचलानां नक्षत्राणां तारकाणां ग्रहाणां सूर्यप्रभृतीनाञ्च चक्रवालेन मण्डलेन सहिति सकानानशैलनक्षत्रग्रहचक्रवालं त्रिभुवनं त्रिलोकं विभ्राणं धारयदिब पक्षे धारयन्तम् । सोऽपीत्थं त्रिभुवनं बिभर्ति ।

इह 'नारायणमिव' इति श्रौतोपमा, सकानानेत्यादि⁴...बिभ्राणमिवेति सापह्नवा प्रतीयमाना क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

आसन्नेति । अपि च, जलेन सलिलेन क्षालितस्य धौतस्य वामार्द्धस्य गिरिजारूपशरीरवामांशस्य कपोलात् गण्डात् गलितं च्युतं लावण्यप्रवाहं सौन्दर्यधाराम् अनुकरोतीति तेन तादृशेन, आसन्नाद् समीपवर्त्तिनः कैलासाद् अवतीर्णस्य उत्तारतस्य भगवतो माहात्म्यवतः खण्डपरशोः शङ्करस्य शतशोऽनेकवारं मज्ज-


एक स्थानमें गिरे हुए शरत्कालीन मेघसमूहके समान एवं वरुणके दर्पणमय गृहके समान देखनेमें आ रहा था । अत्यन्त स्वच्छ होनेके कारण वह सरोवर ऐसा प्रतीत होता था मानो तपस्वियोंके मनका, सज्जनोंके सद्गुणोंका, हरिणोंकी नयन-कान्तिका और मोतियोंकी किरणोंका ही निर्माण किया हुआ हो । जलसे परिपूर्ण होनेपर भी उसके अभ्यन्तरकी सब वस्तु स्पष्ट दिखलाई देती थी जिससे वह जलशून्य सा प्रतीत होता था । वायुसे उछलती हुई जलतरङ्गके विन्दुओंमें सूर्यके किरण पतित होनेसे सब दिशाओंमें से एकत्रित हुए मानो हजारों इन्द्रधनुष उसकी रक्षा करते थे । उस सरोवरके भीतरमें बहुतसे कमल खिले हुए थे एवं वन, पर्वत, नक्षत्र और ग्रहोंसे युक्त समस्त त्रिभुवन प्रतिबिम्बके बहानेसे उसके भीतरमें प्रवेश किये थे, अतएव नारायण (विष्णु) जिस प्रकार उत्पन्न-पद्म-समन्वित उदर द्वारा वन, पर्वत, नक्षत्र और ग्रहगणोंसे युक्त त्रिभुवन धारण करते हैं उसी प्रकार अच्छोद सरोवर ने भी मानो त्रिभुवन धारण किया था । भगवान् शङ्कर, निकटवर्ती कैलासपर्वतमेंसे उतरकर बार-


१. आदर्शमिव, आदर्शभवनमिव । २. सनुपस्थितैः, समुत्थितैः । ३. ...'प्रविष्ट । ४. ...'सजलचरकानन..., सकलकानन...।

अच्छोदसरोवरवर्णना ४२ ] चन्द्रकला-विद्योतिनीसहिता । ३७३

क्षालित-वामार्द्ध-कपोल-गलित-लावण्य-प्रवाहानुकारिणा सम्मिश्रितजलम्¹, उपकूल-तमालवन-प्रतिबिम्बान्धकारिताभ्यन्तरैर्दृश्यमान-रसातल-द्वारैरिव सलिलप्रदेशैर्गम्भीरतरम्², दिवाप्यु-पजातनिशाशङ्कैश्चक्रवाकमिथुनैः परिहियमाण-नीलोत्पल-वन-गहनम्, असकृत्-पितामह-परि-पूरित-कमण्डलु-परिपूतजलम्, अनेकशो बालखिल्य-कदम्बक-कृत-सन्ध्योपासनम्, बहुशः सलिलावतीर्ण-सावित्रीभग्न-देवतार्च्चन-कमलम्⁴, सहस्रशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्,

नोन्मज्जनाभ्यां यः क्षोभः सञ्चलनं ( चन्द्रखण्डस्य ) तेन चलितात् कम्पितात् चूडामणिरूपात् चन्द्रख-ण्डात् शशिखण्डाद् च्युतेन गलितेन अमृतरसेन पीयूषद्रवेण संमिश्रितानि संमिलितानि जलानि यस्य तत्तादृशम् ।

इह तथाविधामृतरसेन तज्जलानां मिश्रणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिर-लङ्कारः ।

उपकूलेति । उपकूलं कूलनिकटवर्त्तिनां तमालवनानां तापिच्छारण्यानां प्रतिबिम्बैः प्रतिच्छायाः अन्ध-कारितानि समुत्पन्नान्धकाराणि अभ्यन्तराणि मध्यप्रदेशा येषां तैः तादृशैः, अत एव दृश्यमानम् अवलोक्य-मानं रसातलस्य द्वारं येषु तैः तादृशैरिव विद्यमानैः सलिलप्रदेशैः जलस्थलैः गम्भीरतरम् अत्यन्तगभीरम् अन्धकारमाहात्म्यादस्य सलिलप्रदेशा अतीव निम्नतरा अत एव रसातलस्य द्वारमपि ( यद्धि अतीव निम्नम् ) अवलोकयत इत्यभिप्रायः ।

इह पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, रसतलद्वारावलोकनोग्प्रेक्षणात् क्रियोत्प्रेक्षा चेत्युभयोरङ्गा-ङ्गिभावसङ्करः ।

दिवापीति । दिवाऽपि दिवसेऽपि उपजातनिशाशङ्कः उत्पन्नरात्रिविभ्रमैः, तमालवनप्रतिबिम्बनाद्-न्धकारितमध्यदेशत्वादित्याशयः, चक्रवाकानां कोकानां मिथुनैर्द्वन्द्वैः परिहियमाणं परित्यज्यमानं नीलोत्प-लवनम् इन्दीवरखण्डमेव गहनं सान्द्रप्रदेशो यस्मिन् तत्तादृशम् ।

इह दिने रात्रिभ्रमाद् भ्रान्तिमानलङ्कारः, नीलोत्पलवनपरित्यागसम्बन्धाभावेऽपि तत्सम्बन्धप्रति-पादनादतिशयोक्तिः, तथा वनगहनशब्दयोः प्रतिशब्दतया आपाततः पुनरुक्तताऽवगमात् अनन्तरञ्च गह-नशब्दस्य सान्द्रार्थ पर्यवसानात् पुनरुक्तवदाभासश्च इत्येतेषामङ्गाङ्गिभावसङ्करः ।

असकृदिति । असकृद् बहुवारं पितामहेन ब्रह्मणा परिपूरितः भृतो यः कमण्डलुः कुण्डिका तेन परि-पूतानि पवित्रीकृतानि जलानि सलिलानि यस्य तत्तादृशम् । तत्कमण्डलोस्तीर्थरूपत्वेन पूतस्पर्शत्वा-दित्याशयः ।

अनेकश इति । बाल एव कुन्तल एव खिल्यः प्रतिबन्धको येषां ते बालखिल्याः अङ्गुष्ठपर्वपरिमित-शरीराः षष्टिसहस्र ६०००० मुनिविशेषाः, तेषां कदम्बकेन समूहेन कृता विहिता सन्ध्योपासना यस्मिन् तत्तादृशम् ।

बहुश इति । बहुशः अनेकशः सलिले जले अवतीर्ण्या उत्तीर्या सावित्र्या ब्रह्मपत्नया भग्नानि ( उन्मूलितानि ) त्रोटितानि देवतार्च्चनस्य सुरपूजनस्य कमलानि पद्मानि यत्र तत्तादृशम् ।

सहेति । सहस्रशः सहस्रवारं सप्तर्षीणां मरीचिप्रभृतीनां मण्डलं समूहः तस्य स्नानेन अवगाहनेन पवित्रीकृतं पावनीकृतम् ।


स्वार वहाँ डुबकी मारनेके क्षोभसे चलायमान हुए मस्तकास्थित चन्द्र-खण्डसे निकलता अमृतरस, जल प्रक्षालित पार्वतीके कपोलोंसे निस्सृत लावण्य-प्रवाहका अनुकरण करता हुआ उसके जलके साथ मिश्रित था । तीर के निकट-वर्त्ती तमाल-वनका प्रतिबिम्ब गम्भीर जलके भीतर पड़कर अन्धकार से व्याप्त कर दिया था, उससे प्रतीत होता था कि मानो पातालके द्वार को दिखा रहा है। इस प्रकार का अन्धकार होनेसे दिनके समयमें भी चक्रवाकदम्पति-गण को रात्रि का भ्रम उत्पन्न करता था, अत एव वे उसके नील-कमलके गहन वन को परित्याग करते थे । ब्रह्मा ने बारम्बार अपना कमण्डल भर कर उसके जलको पवित्र किया था । बालखिल्य मुनियोंके झुण्डने अनेकवार उसके जलमें सन्ध्योपासन किया था । सावित्रीदेवीने जलमें उतर कर अनेकों वार देवताओं की पूजाके लिए कमल तोड़े थे । सप्तर्षिगणने हजारोंवार स्नान कर उसका नल पवित्र किया था । सिद्धगणकी स्त्रियोंने भी सदा कल्प-

१. लावण्यानुकारिणा, मिश्रितजलम् ।
२. गंभीरतरम् ।
३. परिपूरितजलम् ।
४. ॰ देवार्च्चन-कमलसङ्घम् ।

३७४ कादम्बरी- [ कथायाम्-

सर्वदा सिद्ध-वधू-धौत-कल्पलता-वल्कल-पुण्योदकम्¹, उदकक्रीडादोहदागतानाञ्च गुह्यके- श्वरान्तःपुरकामिनीनां मकरकेतु-चापचक्राकृतिभिरतिविकटैरावर्त्तिभिर्नाभिमण्डलैरापीतसलि- लम्, क्वचिद्वरुण-हंसोपात्तकमलवनमकरन्दम्², क्वचिद्दिग्गजमज्जन-जर्जरित-जरन्मृणालदण्डम्³, क्वचित् त्र्यम्बक-वृषभ-विषाण-कोटि⁴-खण्डित-तट-शिलाखण्डम्, क्वचिद्यममहिष-शृङ्ग-शिखर- विक्षिप्त-फेन-पिण्डम्, क्वचिदैरावत-दशन-मुसलै⁵-खण्डित-कुमुद-षण्डम्, यौवनमिवोत्कलि- काबहुलम्, उत्कण्ठितमिव मृणालवलयालङ्कृतम्, महापुरुषमिव प्रकट-मीन-मकर-कूर्म-

सर्वदेति । सर्वदा सर्वकालं सिद्धानां देवयोनिविशेषाणां वधूभिः अङ्गनाभिः धौतैः क्षालितैः कल्पल- तावल्कलैः मन्दारवत्तत्वक्लैः पुण्योकृतानि पवित्रीकृतानि उदकानि सलिलानि यस्य तत्तादृशम् ।

उदकेति । उदकक्रीडादोहदेन जलक्रीडाभिलाषेण आगतानां प्राप्तानां गुह्यकेश्वरस्य कुबेरस्य अन्तः- पुरकामिनीनाम् अवरोधस्त्रीणां मकरकेतोः कामस्य चापचक्रस्य मण्डलीकृत ( आरोपित ) धनुषः आकृत्ति- राकारो येषां तैः तादृशैः, अतिविकटैरत्यन्तगम्भीरैः आवर्त्तौ वर्त्तुलस्वरूप एषामस्तीति तैः तादृशैः, नाभि- मण्डलैः तुन्दकूपिकासमूहैः आपीतानि अन्तर्गतकृतानि सलिलानि जलानि यस्य तत्तादृशम् । इहार्यो- पमालङ्कारः ।

क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसः हंसैस्तद्वाहनमरालैः उपात्ता गृहीताः कमल- वनस्य पद्मविपिनस्य मकरन्दा मधूनि यत्र तत्तादृशम् ।

क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे दिग्गजानां दिग्दन्तिनां मज्जनेन अवगाहनेन जर्जरिताः छिन्न- भिन्नाः जरन्तः बहुकालावस्थानेन स्वयं जीर्णाः मृणालदण्डा बिसदण्डा यत्र तत्तादृशम् ।

क्वचिदिति । त्र्यम्बकवृषभेण महेश्वरोक्षा विषाणकोटिभ्यां शृङ्गाग्रभागाभ्यां खण्डिताः त्रुटिताः तट- शिलाखण्डाः तीरप्रस्तरखण्डा यस्य तत्तादृशम् ।

क्वचिदिति । यममहिषेण कृतान्तकासरेण शृङ्गयोः विषाणयोः शिखराभ्याम् अग्रभागाभ्यां विक्षिप्ता मज्जनसमये विक्षीर्णाः फेनपिण्डाः डिण्डीरपुञ्जाः यत्र तत्तादृशम् ।

क्वचिदिति । ऐरावतेन इन्द्रगजेन, दशनौ दन्तौ मुसलौ इव दशनावैव मुसलौ वेति ताभ्यां खण्डितं त्रोटितं कुमुदषण्डं कैरववनं यत्र तत्तादृशम् । इहोपमारूपकयोः सन्देहसङ्करः । अच्छोदसरोवरस्योक्तवि- शेषणैः सुराणां विहारस्थानत्वमिति द्योतितम् ।

यौवनमिति । यौवनं तारुण्यसमयमिव उत्कलिका सञ्जातकूङ्मला अनुरागश्रोत्कण्ठाश्च यत्र तत्तादृशम् । 'उत्कण्ठोत्कलिके समे' इत्यमरः ।

उदिति । उत्कण्ठितं प्रियजनवियोगेनोन्मनस्कं लोकमिव, मृणालवलयेन बिससमूहेन वलङ्कृतं भूषितम्, एकत्र कामतापादग्यश्च स्वभावादित्याशयः ।

महेति । महापुरुषं भाग्यशालिनं नृपाहिमिव, प्रकटाः स्फुटमवलोक्यामाना, मीना मत्स्याः, मकरा

लताके वल्कल धोकर उसके जलको पवित्र किया था । जलक्रीडा की अभिलाषासे आई कुबेरके अन्तःपुरकी सुन्द- रियोंके-कामदेवके मण्डलीकृत धनुषके समान वर्तुलाकार अतिगम्भीर और भँवर के समान स्वरूपवाले-नाभि- मण्डलों ने उसका जल पिया था । उस सरोवरके किसी-किसी स्थानमें वरुणके हंसगण कमलवनका मधु-पान कर रहे थे । किसी-किसी भागमें दिग्गजोंके स्नान करने के समयमें पके मृणालदण्ड छिन्न-भिन्न हो गए थे । किसी किसी स्थलमें महादेवके बैलके सींगों के अग्रद्वारा तटकी शिलाएं टूट गई थीं । कहीं-कहीं यम-महिषने स्नान करनेके समयमें सींग के अग्रभागद्वारा फेन इधर-उधर फैला दिये थे । कहीं-कहीं ऐरावतके दन्तरूपी मूसलसे कुमुद-खण्ड टुकड़े-टुकड़े हो गए थे । यौवनकाल जिस प्रकार उत्कण्ठासे परिपूर्ण रहता है, वह सरोवर भी उसी प्रकार उत्पन्न कलिकासे परिपूर्ण था । प्रिय विरहसे उत्कण्ठित व्यक्तिके समान वह सरोवर भी मृणालवलय ( मृणा- लके वलय; मृणाल-रूपी वलय ) से अलङ्कृत था । महापुरुषके हाथ और पाँव में जिसप्रकार मत्स्य, मकर ( मगर ), कछुए और चक्रके चिह्न स्पष्ट देखनेमें आते हैं उस सरोवरमें भी उसी प्रकार मत्स्य, मकर, कछुए, चक्रवाक और सारस-पक्षियों सहस्रोंमें प्रकट थे । कार्त्तिकेयके चरित्रमें जिसप्रकार क्रौञ्च दैत्यके मर्मस्थलोंके विदारणकी


१. पुण्योदकम् ।
२. हंसक्रान्ताविकचकमलवनमकरन्दम्, हंसाक्रन्दकमलवनमकरन्दम्, हंसापादपद्मवन-मकरन्दम् ।
३. ॰मृणालनालदण्डम् ।
४. ॰॰धववृषभविषाणकोटिण्ट॰॰॰ ।
५. ॰मुसल॰॰॰ ।

च्छोदसरोवरवर्णना ४१ ] चन्द्रकला-विद्योतिनीसहिता । ३७५

चक्रलक्षणम्, षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, भारतमिव पाण्डु-धार्त्तरा- ष्ट्रकुल-पक्ष-कृत-क्षोभम्, अमृतमथनसमयमिव तीरावस्थित-शितिकण्ठ-पीयमानविषम्, कृष्ण- बाल-चरितमिव तट-कदम्ब-शाखारूढ-हरिकृत-जल-प्रपात-क्रीडम्, मदनध्वजमिव मकरा- धिष्ठितम्, दिव्यमिवानिमिषलोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्,

जलचरविशेषाः, कूर्माः कच्छपाः, चक्राः चक्रवाकाः, लक्ष्णाः सारस्यश्च यत्र तत्तादृशम्। पक्षे तु प्रकटानि स्फुटानि मीनमकर्कूर्मचक्रस्वरूपाणि लक्ष्णानि पाणिपादयोः रेखात्मकचिह्नानि यस्य तं तादृशम् ।

'लक्ष्मं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्' । इति मे०। 'ज्योत्स्नायां च सारस्यां स्त्री, क्लीवे नामचिह्नयोः । स्यादश्वे लक्षणः पुंसि सौमित्रौ, श्रीमति त्रिषु ॥' इति रभ०

षण्मुखेति । षण्मुखचरितं कार्तिकेयचरितमिव, श्रूयमाणः आकर्ण्यमानः क्रौञ्चवनितानां क्रुञ्चपक्षिणीनां प्रहारः कलरवो यत्र तत्तादृशम्, अन्यत्र तु श्रूयमाणः क्रौञ्चवनितानां क्रौञ्चसंज्ञकदैत्यस्त्रीणां प्रलापो रोदनं यत्र तत्तादृशम् । मयदैत्यसुतः क्रौञ्चदैत्यः कार्तिकेयेन मारित इति हरिवंशीया कथा ।

भारतमिति । भारतं महाभारतमितिहासमिव, पाण्डूनां पाण्डुवर्णानां धार्त्तराष्ट्राणां श्यामवर्णचञ्चुचरणयुक्तानां हंसानां यत् कुलं समूहः तस्य पक्षैः पतत्रैः कृतो विहितः क्षोभः सङ्क्षोभनं यस्य तत्तादृशम्। पक्षे तु पाण्डुकुलं पाण्डुराजवंशो धर्मराजादिः तथा धृतराष्ट्रस्येदमिति धार्त्तराष्ट्रं कुलं दुर्योधनादि तयाः पक्षाभ्यां सहायभूताभ्यां संग्रामकारिभ्यां कृतः क्षोभः सङ्ग्रामो यत्र तत्तादृशम् ।

'राजहंसास्तु ते चञ्चुचरणैर्लोहिताः सिताः । मलिनैर्मृत्तिकाङ्गाभै धार्त्तराष्ट्राः सितेतरैः ॥' इत्यमरः।

अमृतेति । अमृतमथनसमयमिव समुद्रमथनसमयमिव, तीरावस्थितैः तटावस्थानैः शितिकण्ठैः मयूरैः पीयमानानि आस्वाद्यमानानि विषाणि जलानि यस्य तत्तादृशम् । पक्षे तु तीरावस्थितेन शितिकण्ठेन शम्भुना पीयमानं विषं सागरोत्थितं गरलं यत्र तं तादृशम् । 'विषं तु गरले तोये' इति मेदिनी । पुरा मन्दराचलेन समुद्रमथनादाविर्भूतं गरलं महादेवः पपाविति भारतीया कथा ।

कृष्णेति । कृष्णस्य देवकीनन्दनस्य बालचरितं शैशवक्रीडितमिव, तटे तीरे ये कदम्बाः नीपाः तेषां शाखासु अधिरूढैः हरिभिः कपिभिः हरिणा तेनैव देवकीनन्दनेन च कृता जले प्रपात एव क्रीडा यत्र तत्तादृशम् ।

मदनेति । मदनः कामः तस्य ध्वजं पताकामिव, मकरैः तत्संज्ञकैर्जलचरविशेषैः मकरेण मकरसदृशपुत्तलिकया च अधिष्ठितम् आश्रितम् ।

दिव्येति । दिवि भवं दिव्यं स्वर्गीयं कञ्चिद्देवमिव, नास्ति निमिषः निमेषो ययोस्तथोक्ते लोचने नयने देषां तैः तयोर्हैतैर्मनोज्ञैर्मनोहरम् । पक्षे तु अनिमिषे ये लोचने ताभ्यां रमणीयम् । देवमीनयोर्द्वयोरेव निमेषाभावात् ।

अरण्येति । अरण्यं महाविपिनमिव, विजृम्भमाणानि प्रस्फुटं भजमानानि पुण्डरीकाणि सिताम्म्भोजानि यत्र तत्तादृशम् । पक्षे तु विजृम्भमाणा निद्रामङ्गानन्तरं निजाङ्गान्यावच्छूमाना पुण्डरीका व्याघ्रा यत्र तत्तादृशम् ।


रूप सुननेमें आती है, उस सरोवरमें भी इसी प्रकार क्रौञ्चकुल-पक्षिणियों का कलरव सुनाई देता था। महाभारत में जिसप्रकार पाण्डुवंश और धृतराष्ट्रवंश इन दोनों पक्षोंमे किये हुए युद्धों का वृत्तान्त है, उस सरोवरमें भी उसीप्रकार श्वेत-हंसगणके परोंकी वायुसे जलका उद्वेलन होता था। समुद्रमन्थनके समय जिसप्रकार शङ्करजी तीरमें रहकर कालकूट-विष पान किया था, उस सरोवर में भी उसी प्रकार मयूरगण तीरमें रहकर जल पान करते थे। श्रीकृष्ण शैशवचरितमें जिसप्रकार यमुनातीरस्थित कदम्बवृक्षकी शाखा पर चढ़कर ऊपरसे ही जल-प्रपात-रूप क्रीडा करते थे, उस सरोवरमें भी उसी प्रकार तीरस्थित कदम्ब वृक्षके शाखा पर चढ़कर पुनः वहीं से जलमें कूद कर वानरगण क्रीडा करते थे। कामदेव की ध्वजमें जिसप्रकार मकराकृति पुत्तलिका है, उस सरोवरमें भी उसी प्रकार मकर नामक जलजन्तु रहता है। स्वर्गीय देवगण जिसप्रकार निमेषरहित लोचनद्वारा शोभा पाते हैं, वह सरोवरभी उसीप्रकार मत्स्यद्वारा शोभा पाता था। महावनमें जिसप्रकार व्याघ्र निद्रामङ्गके अनन्तर जृम्भा (हाई) कर मुखविकास करते हैं, वह सरोवर भी उसी प्रकार श्वेतकमलसे विकसित होता था। सर्वोका कुल


१. मीन० प्रकटलक्षणम् । २. तीरेणसारायन्वित ० । ३. यत्कृत० ० ० । ४. ऽतट० ० ० ।

३७६कादम्बरी-[ कथायाम्-

उरगः कुलमिवानन्त-शतपत्र-पद्मोद्भासितम्, कंसबलमिव मधुकरकुलोपगीयमानं-कुवलया-पीडम्, कद्रू-स्तनयुगलमिव नागसहस्रपीतपयोधरण्डूषम्, मलयमिव चन्दन-शिशिरवनम्, असत्साधनमिवादृष्टान्तम्, अतिमनोहरमाह्लादनं दृष्टेः, अच्छोदं नाम सरो दृष्टवान्।

'पुण्डरीकः सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्रामिदिङ्नागे कोशकारान्तरेऽपि च ॥' इति मे० ।

उरगेति । उरगकुलं नागवंशमिव, अनन्तैः अगणितैः शतपत्रपद्मैः शतदलकमलैः उद्भासितं शोभितम्। पक्षे तु अनन्तेन नागाधिपेन वासुकिनेत्यर्थः, शतपत्रेण पद्मेन च नागविशेषेण उद्भासितम् ।

कंसेति । कंसस्य उग्रसेनसुतस्य बलं सैन्यमिव, मधुकरकुलेन भ्रमरवृन्देन उपगीयमानानि स्वगानविषयीक्रियमाणानि कुवल्यानि इन्दीवराण्येव आपीडः शेखरो यस्य तत्तादृशम् । पक्षे तु मधुकरकुलेन भ्रमरसमूहेन उपगीयमानः दानवारिपरिमललोभेनागत्य स्वगीतश्रवणविषयीक्रियमाणः कुवलयापीडः तन्नामको गजेन्द्रो यस्मिन् तत् तादृशम्, अथवा मध्वौ मधूवने करः नृपग्राह्यभागो येषां ते मधुकराः कंसप्रभृतयः तेषां कुलेन समूहेन उपगीयमानः प्रशस्यमानः कुवलयापीडसंज्ञको गजो यस्मिंस्तत्तादृशम् ।

कद्रिवति । कद्रूः नागमाता तस्याः कश्यपस्त्रीविशेषस्य स्तनयुगलं कुचद्वयमिव, नागानां गजानां सर्पाणाञ्च सहस्रेण समूहेन पीतः पानविषयीकृतः पयसां सलिलानां दुग्धानाञ्च गण्डूषश्चुलुको यस्मा-त्तत्तादृशम् ।

मलयमिति । मलयो मलयाचलस्तमिव, चन्दनवत् मलयजवत् शिशिराणि शीतनानि वनानि सलिलानि यस्मिंस्तत् । पक्षे तु चन्दनानां वृक्षाणां शिशिरवनं शीतलकाननं यस्मिंस्तं तादृशम् । 'वनं नपुंसके नीरे निवासालयकानने' इति रामाश्रमी ।

इह 'यौवनमिवोत्कलिकाबहुलम्' इत्यारभ्य 'मलयमिव चन्दनशिशिरवनम्' इत्यन्तं पूर्णोपमा-लङ्कारः । 'उरगकुलमिवानन्त-शतपत्र पद्मोद्भासितम्' इत्यत्र तु शतपत्र पद्मशब्दयोः प्रतिशब्दतया आपा-ततः पुनरुक्ताऽवगमादनन्तरञ्च शतदलान्वितपद्मार्थे पर्यवसानात् पुनरुक्तवदाभासोऽलङ्कारः पूर्णोपमा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

अस्रदिति । असत्साधनमिव हेत्वाभासदुष्टं हेतुमिव नक्षत्रत्ववान् मनुष्यादित्यादिसाध्याभाववत्पक्ष-वृत्तिहेतुमिवेत्यर्थः, न दृष्टो न केनाऽपि वीक्षितः अन्तो विरामो यस्य तत्तादृशम् अतिविस्तृतमित्यर्थः । पक्षे तु नास्ति दृष्टान्तो निश्चितसाध्यवान् दृष्टान्तसंज्ञको न्यायावयवविशेषो यत्र तत्, अश्वत्ववान् मनुष्यत्वादि-त्यादौ असद्धेतौ निश्चितसाध्य-(गोत्व) वत्स्थलं(दृष्टान्तः) नास्तीत्यर्थः, अत एवासत्साधनत्वमित्यभिप्रायः ।

इह तत्सरोवरस्यान्तावलोकन सम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः पूर्णोपमा चेत्युभयोः सङ्करः ।

अतीति । अतिमनोहरम् अतिसुन्दरं दृष्टेर्नेत्रस्य साह्लादनं प्रमोदजनकम्, अच्छानि निर्मलानि उदकानि तोयानि यस्य तदच्छोदं नाम सरः कासारं दृष्टवान् अवलोकितवान् ।


जिस प्रकार अनन्त, शतपत्र और पद्मनामक सर्पोंद्वारा शोभित है, वह सरोवर भी उसी प्रकार असंख्य शतदल (सैकड़ों पंखड़ी वाले) कमलद्वारा शोभित था। कंसकी सेनाओके मध्यमें जिस प्रकार भ्रमरगण-गुञ्जन-श्रवण-परायण कुवलयापीड नामक एक हाथी था, उस सरोवरमें भी उसी प्रकार नीलोत्पललूप उसके शिरोभूषणमें भ्रमर-गण गान (गुञ्जार) करते थे। कश्यपपत्नी कद्रूके स्तनयुगलसे जिस प्रकार सर्पगण दुग्ध पान करते थे, उस सरोवर से भी उसी प्रकार हस्तिगण जल-पान करते थे। मलयपर्वतमें जिस प्रकार शीतल चन्दनवन है, उस सरोवरमें भी उसी प्रकार शीतल जल था। असद्धेतु (हेत्वाभास) का जिस प्रकार दृष्टान्त नहीं है, उस सरोवर का भी उसी प्रकार शेषसीमा (अन्त) दृष्टिगोचर नहीं होता था। इस प्रकार वह अच्छोदसरोवर अत्यन्त सुन्दर और नेत्र का आह्लादजनक था।


१. '...उपगीयमान...' । २. कद्रू... ।

च्छोदसरोवरवर्णनं ४८ ] चन्द्रकला-विद्योतिनीसहिता । ३७७

आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मनस्येवमकरोत्¹-'अहो ! निष्फलमपि मे तुरङ्ग- मुखमिथुनानुसरणं² एतदालोकयतः सरः सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् । आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्लादनीयानामवधिः, वीक्षिता मनोहराणां सीमान्तरेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानाम- वसानभूमिः । इदमुत्पाद्य सरःसलिलम् अमृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः⁵। इदमपि खल्वमृतमिव सर्वेन्द्रियाह्लादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपज- नयति, शिशिरतया स्पर्शसुखमुपहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया


आलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैव अपगतश्रमः दूरीभूतक्लान्तिः चित्रप्रसन्नत्वादि- स्याशयः । दृष्ट्वा भूयो विशेषेणावलोक्य मनसि चित्ते एवम् इत्थम् अकरोत् अवदद्यत्—अहो इत्याश्चर्ये निष्फलं निरर्थकमपि एतत्सरः कासारम् आलोकयतो दृष्टवतो मे मम तुरगमुखमिथुनानुसरणं किन्नरयुग- लानुगमनं सफलताम् अवगतं प्राप्तम् । अद्य अस्मिन् दिने परिसमाप्तं परितृप्तं ईक्षणयुगलस्य लोचन- द्वयस्य द्रष्टव्यफलं दर्शनीयफलम्, खलु निश्चयेन रमणीयानां मनोहराणाम् अन्तोऽवसानम् आलोकितो वीक्षितः, एतदपरं रमणीयं न विद्यत इत्यर्थः । आह्लादनीयानां प्रमोदविधायिनाम् अवधिः शेषसीमा दृष्टोऽवलोकितः⁴मनोहराणां चित्तहारिणां सीमान्तलेखा अवधिरेखा वीक्षिता लोचनगोचरीकृता अतः परं हृदयाकर्षकं किमपि नास्तीत्याशयः । प्रीतिजननानां प्रीत्युत्पादकानां परिसमाप्तिः संपूर्णासमापनं प्रत्यक्षीकृता इन्द्रियगोचरीकृता । दर्शनीयानां द्रष्टुं योग्यानाम् अवसानभूमिश्चरमदशा विलोकिता दृष्टा नाधिकमितः परं द्रष्टव्यमस्तीत्याशयः । इहैकार्थख्यानि पुनः पुनरुक्त्या दोषमापतति किन्तु चन्द्रापीड- स्यानन्दमग्नतया विस्मयेन च नया कथनान्नोक्तदोषो विषादादौ कथितपदतावदित्यवधेयम् । तथा च दर्पणे—'...........................................................................कथितं च पदं पुनः ।

विहितस्यानुवादत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाद्यनुप्रासेऽनुकम्पायां प्रसादने ॥ अर्थान्तरसङ्क्रमितवाच्ये हर्षेऽवधारणे ॥' इति ।

इदमिति । इदं सरःसलिलं कासारजलम् उत्पाद्य निर्माय पुनः अमृतरसं पीयूषद्रवम् उत्पादयता सृजता वेधसा ब्रह्मणा, स्वसृष्टिः स्वकीयान्विनिर्मितिः पुनरुक्ततामिव नीता प्रापिता एकमेव वस्तु नामान्तरेण विहितमित्याशयः । एतेनास्यामृतसादृश्यं प्रत्याय्यते ।

ननु कथं पुनरुक्ततां प्रापितेदत आह—इदमपीति । इदमपि सरःसलिलं कर्तृ । खलु निश्चिनम् । अमृतं पीयूषमिव, सर्वेषां समग्राणाम् इन्द्रियाणां कर्मेन्द्रियाणां ज्ञानेन्द्रियाणञ्च आह्लादनं प्रीणनं तत्र समर्थम्, अतिविमलतया अतिस्वच्छतया चक्षुषो लोचनस्य प्रीतिं स्नेहम् उपजनयति उत्पादयति, तथा शिशिरतया शीतकतया स्पर्शसुखं स्पर्शजनितानन्दम् उपहरति जनयति । कमलस्येव शोभनो गन्धः सौरभोऽस्यास्तीति कमलसुगन्धि, मत्वर्थीय 'अत इनिठनौ' इति पा० सूत्रेण इनिप्रत्ययः ततः 'तस्य भावस्त्वतलौ' इति पा० सूत्रेण तल्प्रत्ययः, तया हेतुना । प्रशंसायामत्रेनिः । घ्राणं नासिकााम् आप्या-


उस सरोवरको केवल देखनेसे ही चन्द्रापीडकी थकावट दूर हो गई, उस समय वह विशेषरूपसे देखकर इस प्रकार मनमें विचार करने लगा—'अहो ! मेरा किन्नरयुगलका अनुसरण निष्फल होनेपर भी इस सरोवरके देखनेसे सफल हुआ । आज ही मेरे नेत्रोंको द्रष्टव्य (वस्तु) देखनेका पूरा फल मिला । यहाँ निश्चय ही मैंने सुन्दर पदार्थोंका अन्त देखा । आह्लादजनक वस्तुओंकी सीमा देखी । मनोहर पदार्थोंकी अन्तिम-सीमा- रेखाको दृष्टिगोचर किया । आनन्ददायक पदार्थोंकी परिसमाप्तिका साक्षात्कार किया एवं दर्शनीयोंकी अव- सान-भूमि देखी । इस सरोवरका जल उत्पन्न करके अमृत उत्पन्न करनेवाले विधाताने मानो अपनी सृष्टिको पुनरुक्त दोष-युक्त कर दिया है, क्योंकि—इस सरोवरका जल भी अमृतके समान सब इन्द्रियोंको आह्लाद उत्पन्न करनेके लिए समर्थ है । अत्यधिक स्वच्छताके कारण आँखोंको आनन्द उत्पन्न करता है । शीतलताके कारण स्पर्श- सुख देता है । कमलकी सुगन्धसे नासिकाको तृप्त करता है । हंसके स्वरसे कानोंको आनन्दित करता है एवं


१. आलोकयतः । २. मनस्यकरोत् । ३. तुरङ्गम । ४. दृष्टोऽवलोकितः । ५. स्वप्रकृतिः ।
२४ का०

३६८कादम्बरी-[ च्छायायाम्-

श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतञ्चास्यैव दर्शनतृष्णया न परित्यजति भगवान् कैलासनिवासव्यसनमुमापतिः । न खलु साम्प्रतमाचरति जलशयनदोहदं देवः रथाङ्गपाणिः, यदिदममृतरस-सुरभि-सलिलमपहाय लवण-रस-परुषपयस्युदन्वति स्वपिति । नूनञ्चेदं न प्रथममासीत् सरः, येनप्रलयवराहघोणाभिघात-भीतो भूतधात्री कलसयोनि-पान-परिकलित-सकल-सलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधैपाताल-गम्भीराम्भसि निमग्ना भवेन्महासरसि, किमेकेन, महावराह-सहस्रैरपि नासादिता भवेत् । नूनञ्चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितदशदिशः प्लावयन्ति भुव-

यति प्रीणयति । हंसमुखरतया हंसशब्दैः शब्दायमानतया, श्रुतिं कर्णम् आनन्दयति प्रमोदयति तथा स्वादुतया मिष्टतया रसनां जिह्वाम् आह्लादयति आनन्दयति । अत एव सर्वथैवामृतसदृशतया पुनः पीयूषनिर्माणं पुनरुक्तमेव प्रापितमित्यभिप्रायः ।

नियमिति । उमापतिर्भगवान् महेशः अस्य सरस एव दर्शनतृष्णायावलोकनलोभेन कैलासनिवासे रजताद्रपवस्थाने व्यसनमासक्तिं न परित्यजति न जहातीति नियतं निश्चितम् अन्यथाऽन्यत्र निवसेदि-त्याशयः । इह वाच्या अभावाभिमानिनी क्रियोत्प्रेक्षा ध्रुवपर्यायनियतशब्दोपादानात् ।

नेति । देवो रथाङ्गपाणिश्चक्रपाणिर्भगवान् विष्णुः, जलशयनस्य सलिलस्वापस्य दोहदम् अभिलाषं न खलु साम्प्रतं युक्तम् आचरति विदधाति 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः । यद् यस्मात्, अमृतस्य पीयूषस्येव रसो यस्य तदमृतरसंसुरभि सुगन्धि च सलिलं पानीयं यस्य तदिदं सरः, अपहाय परित्यज्य लवणरसेन परुषाणि रूक्षाणि पयांसि सलिलानि यस्य तस्मिंस्तादृशे उदन्वति समुद्रे स्वपिति शयनं करोति । यदि जलशयनाभिलाषमुचितमेवाकरिष्यत्तदा लवणसमुद्रं विहायास्मिन्नेवामृतोपमसलिलॆ नून-मस्वप्स्यदित्यभिप्रायः ।

नूनमिति । प्रलये कल्पान्तसमये वराहस्य अवताररूपयज्ञशूकरस्य घोणाया नासिकाया अभिघा-तात् प्रहाराद् भीता त्रस्ता दंष्ट्राग्रेणोत्थापनसमये नासिकाघातः सम्भवत्येवेत्यवलोकनीयम् । भूतधात्री पृथिवी, कलसयोनिना अगस्त्येन पानाय पानार्थं परिकलितं सम्भावितं सकलं समग्रं सलिलं जलं यस्य तं तादृशम्, एतेनास्यातिन्यूनत्वं ध्वनितम्; सागरं समुद्रम् अवतीर्णा पलायनाय प्रविष्टा । अन्यथा यदीदं सरः प्रथममासीदित्यर्थः, यदि च अगाधपातालवत् गम्भीरम् अतस्तपर्शि लग्नः सलिलं यस्मिं-स्तस्मिंस्तथोक्ते अत्र महासरसि निमग्ना भवेत् सा भूतधात्रीति शेषः, तदा एकेन असहायेन तेन वरा-हेण किम्, महावराहसहस्रैरपि आसादिता प्राप्ता न भवेत् अत एव नूनं निश्चितम् इदं सरः प्रथमं पूर्वं नासीदित्याशयः ।

इह नूनमित्यादिवाक्ये अभावाभिमानिनी वाच्या क्रियोत्प्रेक्षा, तावता वाक्येन च व्यतिरेको ध्वन्यते इति वस्तुनाऽलङ्कारध्वनिः ।

नूनमिति । नूनं निश्चितं महाप्रलयेषु कल्पान्तेषु अस्मादेव सरसः सलिललेशं जलबिन्दुम् आदायादाय गृहीत्वा गृहीत्वा प्रलयपयोदाः कल्पान्तमेघाः, प्रलये यद्दुर्दिनं मेघजं गाढतमस्तेन अन्धकारिताः समु-त्पादितान्धकाराः दश दिशो यैस्ते तथोक्ताः सन्तः, भुवनान्तराणि जगन्मध्यदेशान् प्लावयन्ति जलमयी-


सुस्वादु होनेसे रसनाको तृप्ति करता रहता है। भगवान् शंकर इस सरोवरके दर्शनकी अभिलाषासे ही निश्चय कैलासपर्वतमें वास करनेकी आसक्तिको नहीं छोड़ते हैं। भगवान् नारायणको अब जल-शयनकी उत्कट अभि-लाषा नहीं रही, क्योंकि वे अमृतके समान सुस्वादु और सुगन्धि जलसे परिपूर्ण इस सरोवरको त्याग कर लवण-रससे कर्कश (खार) जलवाले समुद्रमें शयन करते हैं। यथार्थ में यह सरोवर पहले नहीं था, क्योंकि-प्रलयकालमें यज्ञवराहकी नासिकाके आघातसे भयभीत होकर पृथिवी, - महर्षि अगस्त्यके पान करनेसे जिसके जलकी थाह मिल गई थी-ऐसे समुद्र मध्यमें उतर (प्रवेश कर) गई थी, नहीं तो जो वह कभी इस सरोवरके अगाध एवं अनेक पातालोंके समान गम्भीर जलमें निमग्न होती तो एक क्या हजारों महावराह भी उसका पता नहीं लग सकते। एवं निश्चय ही महा-प्रलय-कालमें प्रलय-मेघ-समूह इस सरोवरमेंसे ही थोड़ा-थोड़ा जल-ग्रहण कर प्रलयकी वर्षासे दशो दिशाओंमें घोर अन्धकार करके सब भुवनोंको प्लावित कर देते हैं और मेरा विचार।


१ '...दोहदमितः।
२. '...मन्निभूता।
३. 'अगाधानेकपाताल...' ।
४. क्वचित् दिशश्चिन्नर्नास्ति ।

अच्छोद सरोवरवर्णना ४८ ] चन्द्रकला-विद्योतिनीसहिता । ३७६


नान्तराणि । मन्ये च यत्^१ सृष्टेरर्वाक् सलिलमयं ब्रह्माण्डरूपमादौ भुवनमभूत्, तदिदं पिण्डीभूयं^२ सरोव्यपदेशेनावस्थितम् ।

इति विचारयन्नेव तस्य शिला-शकल-कर्कश-बालुकाप्रायं विद्याधरोद्धृत-सनालकुमुद-कलापार्चितानेक^३-चारु-सैकत-लिङ्गम्, अरुन्धती-दत्त-दिनकरार्घ्य^४-पयःपर्यस्त-रक्त^५-कमलशोभितम्^६, उपकूल-शिलातलोपविष्टजलमानुषनिषेव्यमाणातपम्, अभ्यर्णतया च कैलासस्य स्नानागतमातृमण्डल-पद-पङ्क्तिमुद्राङ्कितम्^७, अवकीर्ण^८-भस्म-सूचित-मज्जोत्थित-गण-वृन्दो^९-द्धूलनम्, अवगाहावतीर्ण^१०-गणपति-गण्डस्थल-गलित-मद^११-प्रस्रवणसिक्तम्, अतिप्रमाणपादानुमीयमान^१२-तृषित-कात्यायनी-सिंहावतरणं^१३-मार्गम्, दक्षिण^१४-तीरमासाद्य तुरगादवततार ।

कुर्वन्ति । इह भावाभिमानिनी क्रियोत्प्रेक्षा ।

मन्ये इति । किञ्चेति चार्थः । सृष्टेः विश्वनिर्मितेः अर्वाक् पूर्वम्, आदौ प्रथमं सलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपम् अभूत् आसीत् । तत्सलिलं पिण्डीभूय एकत्र समवेतीभूय सरोव्यपदेशेन सरोवरव्याजेन इदमवस्थितमित्यहं मन्ये जानामि । इहाधिकपदतादोषनिवारणाय 'आदौ' इत्यस्य परित्यागो विधेयः । इहाऽपि भावाभिमानिनी वाच्य सापह्नवा क्रियोत्प्रेक्षा बोध्या । विश्वनिर्मितेः पूर्वं भुवनस्य जलमयत्वे प्रमाणम्-'अप एव ससर्जादौ तासु बीजमवासृजत्' इति मनुवचनम् ।

इतीति । इति एवं विचारयन् चिन्तयन्नेव चन्द्रापीडः तस्य सरोवसरस्य दक्षिणं तीरं दक्षिणदिग्वर्तितटम् आसाद्य प्राप्य तुरगात् अश्वात् अवततार अवतीर्णवानित्यन्वयः । इह नपुंसके द्वितीयान्तपदानि 'तीरम्' इत्यस्य विशेषणानि । शिलाशकलवत् पाषाणखण्डवत् कर्कशाः कठिनाः वालुकाः सिकतास्ताः प्रायो यासुत्येन यन्न तत्तादृशम् । विद्याधरैर्योमचारिभिर्देवयोनिविशेषैः उद्धृतेन गृहीतेन सनालानां कुमुदानां कैरवाणां कलापेन समूहेन अर्चितानि पूजितानि अनेकानि असंख्यानि चारूणि मनोहराणि सैकतलिङ्गानि वालुकामयशिवलिङ्गानि यत्र तत्तादृशम् । अरुन्धत्या वसिष्ठपत्न्या दत्तं समर्पितं दिनकराय सूर्याय यदर्घ्यं पदार्थमुदकं तस्य पयसो जलात् पर्यस्तैः प्रपतितैः रक्तकमलैः रक्ताब्जैः शोभितं विराजितम् । उपकूले तीरनिकटे शिलातलेषु प्रस्तरनलेषु उपविष्टैः स्थितैः जलमानुषैः जलमानुषाकृतिजीवविशेषैः निषेव्यमाणः आतपः सूर्यरश्मिः यस्मिंस्तत्तादृशम् । कैलासस्य रजताद्रे अभ्यर्णतया समीपवर्त्तिनया कारणेन स्नानाय मज्जनाय आगतस्य आयातस्य मातृमण्डलस्य ब्राह्मायादिमातृगणस्य पदपङ्क्त्येश्वरनश्रेण्याः मुद्राभिर्भूमो नक्षत्रतिकृतिरूपाभिः अङ्कितं चिह्नितम् । अवकीर्णैः इतस्ततो विक्षिप्तैः भस्मभिः भूतिभिः सूचितानि अनुमितानि मज्जोत्थितानां स्नानानन्तरोत्थितानां गणानां प्रमथानां वृन्दस्य समुदायस्य उद्धूलनानि रेणुवन्मर्हनानि त्रिपुण्ड्रादिकरणाय रेणुवत् सूच्मविधानाथं भस्मनां पेषणानि यत्र तत्तादृशम् । अवगाहाय जलक्रीडनार्थम् अवतीर्गस्य अवतरितुं प्रस्थितस्य गजपतेर्विनायकस्य (गजवदनस्य) गण्डस्थलात्


कि सृष्टिके पहले जो यह जगत ब्रह्माण्ड-रूपसे-जल-मय भुवन था वह जल-राशि हो एकत्र समवेत होकर इन सरोवरके स्वरूपमें स्थित है ।

चन्द्रापीड इस प्रकार मन ही मन वितर्क करते करते उस अच्छोदसरवरके दक्षिणतट पर जाकर घोड़ेसे उतरा । वहां (दक्षिण तीरमें) पाषाण-खण्डके समान अत्यन्त कठिन बहुत वालुका थी-(अर्थात् उसकी नैसी पथरीली थी) । वहां विद्याधरों ने नाल सहित कुमुदके फूल तोड़कर वालुकाके सुन्दर शिवलिंगों पर पूजा किये थे । अरुन्धती देवीने सूर्यनारायणको जो अर्घ्य दिया था, उसके ही जलमेंसे गिरे रक्तकमल वहां शोभायमान थे । कितने जल-मानुष तीरके निकटमें ही एक चट्टान पर बैठ कर रौद्र (धूप) सेवन कर रहे थे । कैलासपर्वतके निकट होनेसे स्नान करनेके लिए आई ब्राह्मी आदि माताओंके चरणोंकी पंक्ति के चिह्न बने हुए थे । वहां इतस्ततः भस्म बिखरी हुई थी, जिससे प्रतीत होता था कि स्नान करनेके अनन्तर भस्मके तिलक धारण करनेके लिए प्रमथ गण कितने भस्म धूलिके समान मर्दित किये थे । स्नान करने के लिए उतरे गणेशजीके गण्डस्थलमें से मद-जल निस्स्रुत हो कर उस स्थान को सिक्त किया था और वहां चरणोंके बड़े बड़े चिह्नों को देखकर अनुमान होना था किपार्वती का


१. यच्च सलिलमयम् । २. पिण्डीभूतं । ३. ॰॰॰अचितन् । ४. ॰॰दत्तार्घ्यं ॰॰दत्तदिनकरार्घ्यं ॰॰, इस्तदत्तदिनकरार्घं ॰॰। ५. ॰॰॰भारक्त॰॰॰। ६. कमलोपशोभितम् । ७. ॰॰॰मण्डलमुद्राङ्कितम् । ८. अवतीर्णे ॰॰। ९. ॰॰॰कदम्बक ॰॰॰। १०. अवगाहनावतीर्ण ॰॰॰। ११. ॰॰गण्डस्थलमद ॰॰॰। १२. ॰॰पद ॰॰॰। १३॰॰अवतार ॰॰॰। १४. दक्षिणं ।

३८० कादम्बरी- [ कथायाम्-

अवतीर्य्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् क्षितितल-लुण्ठितोत्थितञ्च गृहीतकतिपय-यवसग्रासं सरोऽवतार्य्य पीत-सलिलमिच्छया स्नातं चोत्थाप्यान्यतमस्य समीपवर्त्तिनस्तरोर्मूलशाखायामपगतखलीनं हस्तपाशशृङ्खलया कनकमय्या चरणौ बद्ध्वा कृपाणिकावलूनान् क्षिप्त्वा चाग्रतः कतिचित् सरस्तीरप्ररूढदूर्वा-प्रवालकवलान्, स्वयमपि सलिलमवततार । ततश्च प्रक्षालितकरयुगलः चातक इव कृत्वा जलमयमाहारम्, चक्राह्वय इवास्वाद्य मृणालशकलानि, शिशिरांशुरिव कराग्रैः स्पृष्ट्वा कुमुदानि, फणीवाभिनन्द्य जलतरङ्गवातान् , अनङ्ग-

कपोलप्रदेशात् गलितस्य च्युतस्य मदस्य दानवारिणः प्रस्रवणेन क्षरणेन ( धारया ) सिक्तं सेचितम् । तथा अतिप्रमाणैः अतिदीर्घैः पादैः पदचिह्नैः अनुमीयमानः अनुमानविषयीक्रियमाणस्तृषितस्य पिपासितस्य कात्यायनीसिंहस्य श्रीमद्दुर्गावाहनभूतकेसरिणः अवतरणमार्गः सरसि गमनागमनपथः यत्र तत्तादृशम् ।

अवेति । अवतीर्य अश्वादवतरणं विधाय इन्द्रायुधं तन्नामकवाहनीभूतमश्वरत्नं व्यपनीतम् अपसारितं दूरीकृतमित्यर्थः, पर्याणं पल्ययनं यस्य तं तथोक्तम् अकरोत् कृतवान् ।

क्षितीति । अपि च पूर्वं क्षितितले पृथिवीतले लुंठितः पल्ययनापसारणानन्तरमेव लुठितः पश्चात् उत्थितः कृतोत्थानः तं तादृशम्, इयमध्वप्रकृतिः । गृहीताः आप्ताः कतिपये कियन्तो यवसानां घासानां ग्रासाः कवला येन तं तादृशम् इन्द्रायुधम्, सरोऽवतार्य सरोमध्ये नीत्वा, इच्छया स्वेच्छया पीतं सलिलं पीतजलं च पुनः इच्छया ज्ञातं विहितस्नानं च उत्थाप्य उत्थापनं विधाय पश्चात्तदानीय अन्यतमस्य कस्यचित् समीपवर्त्तिनो निकस्थायिनः तरोर्वृक्षस्य मूलशाखायां स्कन्धशाखायाम् अपगतखलीनम् अपसृतमुखयन्त्रणम्, कनकमय्या सुवर्णनिमितया हस्तपाशशृङ्खलया हस्तबन्धनरज्जुरूपनिगडेन चरणौ पादौ बद्ध्वा नियम्य, कृपाणिकया छुरिकया अवलूनान् कत्तितान् सरस्तीरे सरोवरतटे प्ररूढा उत्पन्ना या दूर्वाः शतपर्विकाः तासां प्रवालकवलान् किसलयग्रासान्, अग्रतः क्षिप्त्वा इन्द्रायुधस्य सम्मुखे निधाय च स्वयमपि चन्द्रापीडः सलिलं जलम् अवततार उत्तीर्णवान् ।

तत इति । ततस्तदनन्तरं प्रक्षालितचरणयुगलः धौतपादद्वयः चातक इव शारङ्ग इव जलमयं पानीयमयम् आहारं कृत्वा उदरं परिपूर्य जलं पीत्वेत्यर्थः । 'अथ शारङ्गस्तोककश्चातकः समाः' इत्यमरः । चातको लोके 'पपीहा' इति ख्यातः । चक्राह्वयश्चक्रवाक इव मृणालानां बिसानां शकलानि खण्डानि आस्वाद्य चर्वयित्वा, शिशिरांशुश्चन्द्र इव कराग्रैः अङ्गुलिभिः किरणाग्रैश्च कुमुदानि कैरवाणि स्पृष्ट्वा स्पर्शं विधाय, फणी सर्प इव जलतरङ्गवातान् अम्भाहल्लोलसमीरान् अभिनन्द्य संस्तुत्य सुखदत्वेन निषेव्येत्यर्थः, अनङ्गशरप्रहरातुर इन कामवाणप्रहारव्यथितजन इव नलिनीदलरूपं कमलिनीपत्ररूपम् उत्तरीयम्


सिंह उस मार्गसे जल पीने को उतरा था ।

चन्द्रापीड घोड़े परसे उतर कर फिर इन्द्रायुधका जीन उतार ली । उस समय इन्द्रायुध पहले भूमि पर जरा लोट कर बाद उठकर कुछ हरे घासों का ग्रास मुखमें लिया; उसके बाद चन्द्रापीड उसे सरोवरमें ले जाकर इच्छानुसार जल-पान कराकर और स्नान करा कर उसको बाहर लाया । बाद लगाम निकाल कर अपने हस्तस्थित बाधने की सुवर्णमय शृङ्खलाद्वारा समीपवर्ती किसी वृक्षके मूलके निकटकी शाखासे उसके चरणद्वय बाध कर छुरिका (छूरा) से सरोवर के तीरजात दूर्वाके पल्लवों (दूर्वांकुरों) को काटकर उसे इन्द्रायुधके सम्मुखमें रख कर स्वयं भी जलमें उतरा । उसके बाद उसमें हस्त प्रक्षालन कर, चातकके समान जल-मय आहार कर, चक्रवाकके समान मृणालके टुकटों का स्वाद नस, चन्द्रमाके समान कराग्र (किरण, हाथ) द्वारा कुमुदों का स्पर्श कर, सर्पके समान जल-तरङ्गके वायु का सुखजनक समझ सेवन कर, कामदेवके बाणोंके प्रहारसे पीड़ित हुए


१. अवतीर्य । २. ०"गताखलीनम् । ३. चरणे । ४. सरस्तीरदूर्वा... । ५. पुनरपि । ६. ०"कर-चरणयुगलः । ७. जलमाहारम् । ८. चक्राह्वः । ९. आनन्द ।

विश्रामगीतश्रवणवर्णनम् ४९ ] चन्द्रकला-विद्योतिनीसहिता । ३८१

शरप्रहारात्तुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकराईपुष्करोपशो- भितकरः सरः सलिलादुदगात् । प्रत्यग्रमग्नशिशिरैश्च समृणालकैरजलकणिकाचितैः कमलि- नीपलाशैर्लतामण्डपपरिक्षिप्ते शिलातले संस्तरम् आस्तीर्य, निधाय शिरसि पिण्डीकृतमुत्त- रीयं न्यषदात् ।

मुहूर्त्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तम्, उन्मुक्तकवलेन निश्चल- श्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातन्त्रीझङ्कारमिश्र- ममानुषं गीतशब्दमशृणोत् । श्रुत्वा च 'कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः सम्भू- तिः' इति समुपजातकौतुकः कमलिनीदलसंस्तरात् उत्थाय तामेव गीतसम्पात-सूचितां दिशं चक्षुः प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यावृतलोचनोऽपि विलोक-

उपरिवस्त्रम् उरसि वक्षःस्थले निधाय संस्थाप्य, अरण्यगज इव वन्यहस्तीव शीकरैः अम्बुकणैः आई क्लिन्नं यत् पुष्करं कमलं तेन उपशोभितः करः पाणिः शुण्डा च यस्य स तादृशो युवराजश्चन्द्रापीडः, सरः- सलिलात् कासारजलात् उदगात् उदतिष्ठत् । इह सर्वथाप्य एव पूर्णोपमालङ्कारः । प्रत्यग्रेति । क्रियेति शेषः । प्रत्यग्रम् अभिनवम् अचिरं यथा स्यात्तथा मग्नानि सङ्गितानि च तानि, अत एव शिशिराणि शीतनानि च तैस्तादृशैः, समृणालकैः सबिसैः जलकणिकाभिः सलिलबि- न्दुभिः चितैर्व्याप्तैः, कमलिनीपलाशैः नलिनीपत्रैः लतामण्डपपरिक्षिप्ते मण्डपाकारं प्राप्ताभिर्लताभिः परि- वेष्टिते शिलातले कस्मिंश्चिद्विस्तीर्णप्रस्तरोर्ध्वप्रदेशे संस्तरम् आस्तरणम् आस्तीर्य प्रसार्य पातयित्वा, पिण्डी- कृतं मूरीकृतं पिण्डतां प्रापितमित्यर्थः, उत्तरीयम् उपरितनवस्त्रं शिरसि निधाय मस्तकाधःप्रदेशे दत्त्वा न्यषदात् सुप्तवान् । मुहूर्तमिति । मुहूर्तं क्षणं विश्रान्तः विहितविश्रामः सन्, तस्य सरसः पम्पासरोवरस्य उत्तरे उत्तर- दिक्सम्बन्धिनि तीरप्रदेशे तटप्रदेशे समुच्चरन्तम् उदगच्छन्तम्, उन्मुक्तकवलेन परित्यक्तग्रासग्रासेन, निश्चले स्थिरे श्रवणपुटे कर्णयुगलं यस्य तेन तादृशेन गीतमाधुर्यादित्याशयः । तन्मुखीभूतेन तदभिमुखीभूतेन उद्ग्रीवेण ऊर्ध्वकन्धरेण इन्द्रायुधेन, प्रथमं पूर्वम् आकर्णितं श्रुतं श्रुतिसुभगं कर्णमनोहरं वीणातन्त्रीझङ्का- रमिश्रं वल्लकीतन्मयीनिनादसंसृक्तम् अमानुषं दिव्यं गीतशब्दं गेयध्वनिम् अशृणोत् आकर्णयत् । श्रुत्वेति । श्रुत्वा निशम्य । विगतो मर्त्यानां मानवानां संपातः सञ्चारो यतस्तस्मिंस्तादृशे प्रदेशे- ऽविजने गीतध्वनेः गीतशब्दस्य सम्भूतिरुत्पत्तिः । इति विभाव्य समुत्जातकौतुकः समुत्पन्नकौतूहलः चन्द्रापीडः, कमलिनीदलसंस्तरात् नलिनीपत्रशयनीयाद् उत्थाय, गीतसंपातेन गेयोत्पत्त्या सूचितां ज्ञापितां तामेव दिशं ककुभं प्रति चक्षुर्नैत्रं प्राहिणोत् प्रेषयामास । अतीति । तु किन्तु तस्य प्रदेशस्य पूर्वोक्तगीतस्थलस्य अतिदवीयस्तया अतिदूरत्तया प्रयत्नेन उद्यो-

मनुष्यके समान वक्षःस्थल (छाती) पर कमलनयनी वस्त्र रख कर एवं वन्य-हस्तीके समान जलबिन्दुसे आर्द्र पुष्कर (शुण्डाग्र, कमल) से शोभित कर (शुण्ड, हाथ) सहित सरोवरके जलमेंसे बाहर निकला । उसी क्षण डोरे लगेके कारण शीतल, मृणालसहित और जलबिन्दुओसे व्याप्त कमल-पत्रोंका आस्तरण (बिछौना) मन्दवा- कारके लतासे वेष्टित किसी बृहद् पाषाणके ऊपरमें बिछाकर, उसके ऊपरमें, मस्तकके नीचे अपने उत्तरीय वस्त्र (दुपट्टे) को लपेटकर रखकर वहीं शयन किया ।

इस प्रकार मुहूर्त भर विश्राम करनेके बाद उसने उस सरोवरके उत्तर तीरसे उत्थित, वीणातन्त्रीके झङ्कारसे मिश्रित एवं श्रवण करनेमें कानोंको मधुर लगनेवाली अलौकिक गीतध्वनि सुनी । इधर इन्द्रायुधने घास चरना छोड़कर, कानोंको निश्चलरूपसे (खड़े करके) रखकर, उत्तर दिशाकी ओर मुँह फेर, ऊँची गर्दन कर उस गीतध्वनिको पहले सुना था । उस गीतध्वनिको सुनकर मन ही मन सोचने लगा कि—'यहाँ मनुष्योंके पादपात नहीं हैं तब फिर कहाँ से इस गीतध्वनिकी उत्पत्ति हुई है?' इस प्रकार उसे कौतूहल उत्पन्न हुआ । उस समय वह उस कमल-पत्रकी शय्यासे उठकर, जिस दिशासे गीतध्वनि आती थी, उसीकी ओर देखने लगा । किन्तु वह स्थान अत्यधिक दूर था इसलिए विशेष यत्नपूर्वक आँख फेर-फेरकर देखनेसे भी उसे कुछ दिखलाई नहीं


१. निषसाद । २. क्वचित् 'संस्तरं' न विद्यते । ३. ००नटदेशिकेरेण । ४. मण्डपपरिक्षिप्तांशिलातले । ५. संस्तरम्, प्रस्तारम् । ६. शोधन् । ७. 'श्रुत्वा च' इति पदं क्वचिन्न विद्यते । ८. समुत्पादकौतुकः ! ९. ००दलसंस्तरात्, पत्रसंस्तरात् ।

३८२ | कादम्बरी- | [ कथामुखम्-

यन्न किञ्चिद्ददर्श, तनेव केवलमनवरतं गीतशब्दं शुश्राव। कुतूहलवशाच्च गीतध्वनि-प्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तपर्याणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवर्त्मा, सप्तच्छद-बकुलेला-लवङ्ग-लवली-लोल-कुसुम-सुरभि-परिमलया अलिकुल-विरुति-मुखरितया तमालनीलया दिङ्नागमदवीथ्येव पश्चिमया सरस्तीरे-वनलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे।

क्रमेण च सन्मुखागतैः, अच्छ-निर्झरजल-कणजाल-जनित-जडिमभिः, जर्जरितभूर्ज-वल्कलैः, धूर्जटि-वृषभ-रोमन्थ-फेन-बिन्दुवाहिभिः, षण्मुख-शिखण्डि-शिखा-चुम्बिभिः,

गोन व्यापृते निश्चेष्टं प्रवृत्ते लोचने नयने यस्य स तथोक्तः सन्नपि विलोकयन् पश्यन् न किञ्चित् किमपि ददर्श सवलोकयामास केवलम् अनवरतं निरन्तरं तमेव शब्दं गीतध्वनिं शुश्राव आकर्णयामास।

कुतूहलेति। कुतूहलवशात् कौतुकवशात्, प्रभवति अस्मादिति प्रभव उत्पत्तिस्थानम्, गीतध्वनिः गेयशब्दः तस्य प्रभवस्य जिज्ञासया ज्ञातुमिच्छया कृतगमनबुद्धिः विहितगमनमतिश्चन्द्रापीडः, दत्तपर्याणम् आरोपितपल्ययनम् इन्द्रायुधम्, आरुह्य आरोहणं कृत्वा, प्रियं मनोहरं गीतं येषां तैस्तादृशौः, प्रथमप्रस्थितैः अग्रे प्रयातैः, अप्रार्थितैरपि मार्गमुपदेष्टुमयाचितैरपि वनहरिणैः वन्यमृगैः उपदिश्यमानं कथ्यमानं वर्त्म मार्गो यस्य स तथोक्तः सन्, सप्तच्छदानां विशालत्वचां बकुलानां केसराणाम् एलानां चन्द्रबालानां लवङ्गानां देवकुसुमानां लवलीनां तत्संज्ञकवल्लीविशेषाणाञ्च लोलः पवनेन चलितः कुसुमानां पुष्पाणां सुरभिरपरिमलो भ्रागतर्पणगन्धो यस्यां तया, अन्यत्र तु तत्कुसुमानामिव सुरभिपरिमलो यस्यास्तया तादृश्या अलिकुलस्य भ्रमरसमूहस्य विरुत्या रवेण मुखरितया शब्दिताया, तमालैस्तापिच्छतसंभैर्नीला श्यामवर्णा च तया दिङ्नागस्य दिग्गजस्य मदवीथ्या दानवारिपंक्त्या तत्मवाहेणेव विद्यमानया, पश्चिमा प्रतीच्या वनलेखया काननपंक्त्या करणेन, तं गीतध्वनिं निमित्तीकृत्य उद्दिश्य अभिप्रतस्थे तदभिमुखं ययौ । 'पृथ्वौका चन्द्रवालैला निष्कुटिर्बहुला' इत्यमरः। पूर्णोपमा।

क्रमेणेति। किञ्चेति चार्थः। क्रमेण परिपाट्या संमुखागतैः अभिमुखायातैः कैलासमारुतैरभिनन्द्यमानश्चन्द्रापीडस्तं प्रदेशं गत्वा पादपैः परिवृतं वृत्तैः परिवेष्टितं शूलपाणेर्महेश्वरस्य शून्यं सिद्धायतनं सिद्धपीठम् अपश्यदित्यतिदूरेण सम्बन्धः। तत्रादितस्तृतीयाबहुवचनान्तपदानि 'कैलासमारुतैः' इत्यस्य विशेषणानि। अच्छानां विशदानां निर्झरपलानां प्रस्रवणसलिलानां कणजालेन बिन्दुनिकरेण जनित उत्पादितः जडिमा शीतलत्वं येषां तैः तादृशौः। जर्जरितानि शिथिलीकृतानि भूर्जानां मुरुड्वचां वृक्षाणां वल्कलानि वल्कानि यैस्तैस्तादृशैः। धूर्जटिवृषभस्य महेशबलीवर्दस्य रोमन्थे चर्वितचर्वणकाले ये फेनाः डिण्डीरास्तेषां बिन्दुवाहिभिः कणवहनशीलैः। षण्मुखस्य षडाननस्य कार्त्तिकेयस्येत्यर्थः, यः शिखण्डी वाहनीभूतमयूरः तस्य शिखाचुम्बिभिः चूडास्पर्शकारिभिः। अम्बिकायाः पार्वत्याः कर्णपूरयोः कर्णावतंसभूतयोः पल्लवयोः किसलययोः उल्लासनेन सञ्चालनेन दुर्ललिताः हठविधायिनः तैस्तादृशैः। उत्तरकुरुसंज्ञको हिमालयोत्तर-


दिया। केवल अविश्रान्त वह गीतध्वनि ही सुनाई पड़ता था। इसके बाद कौतूहलवश गीतध्वनिका उत्पत्तिस्थान जाननेकी अभिलाषा कर, जानेका कृतसङ्कल्प होकर इन्द्रायुध पर पल्ययन (जीन) रख और स्वयं उसके ऊपर चढ़कर गीत पर प्रीतिके कारण आगे-आगे दौड़ते वन-हरिणोंके बिना पूछे बताये हुए-मार्ग पर वह, गीतध्वनि को लक्ष्य कर उस सरोवरके पश्चिम तीरकी वनपङ्क्तिसे होकर आगे बढ़ा। उस वनके भीतर सप्तपर्ण, बकुल, इलायची, लवङ्ग और लवली पुष्पके मनोहर सौरभ वायुके मन्दसे परिचालित होता था, भ्रमरोंके झङ्कारसे वह वन मुखरित हो गया था एवं तमाल वृक्षोंसे काली पड़नेके कारण दिग्गजोंके मदजल प्रवाहके समान नील वर्ण था।

क्रमसे सामने आती आनन्दजनक और पवित्र कैलास पर्वतके पवनोंने सन्तुष्ट होकर चन्द्रापीड़ उस प्रदेशके समीप जा पहुँचा। कैलास पर्वतकी हवा निर्मल जलकी बूँदोंसे शीतल थी, भोजपत्रकी छालको उसने जर्जरित कर दिया था, शङ्करके वृषभके चर्वित चर्वण (जुगाली) के समयमें उत्पन्न हुए फेन-बिन्दुको लाती थी,


१. क्वचित् 'गीत' पदं न विद्यते ।
२. ...'प्रभवाच्च ।
३. ...'ध्वनित ।
४. क्वचिद सप्तच्छदपदं नोपलभ्यते ।
५. क्वचिद 'सरस्तीरे' इति पदं नोपलभ्यते ।
६. अनिर्झरखटं... ।
७. ...'वृष... ।

शिवसिद्धायतनवर्णनम् ५० ] चन्द्रकला-विद्योतिनीसहिता । ३८३

अम्बिका-कर्ण-पूर-पल्लवोल्लासन'-दुर्ललितैः, उत्तर-कुरु-कामिनी-कर्णोत्पल-प्रेङ्खोलन-दोहदिभिः, आकम्पितकक्कोलैः नमेरु-कुसुम-पांशुपातिभिः, पशुपति-जटा बन्धार्त्त-वासुकि-परिपोत-शेषैः, आह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशम्, सर्वतो मरकतहरितैः, हारि हारीत-रुचि-रमणीयैः, भ्रमद्भृङ्गराज नखर-जर्जरित-जरठ-कुडमलैः, उन्मद-कोकिल कुल-कवलीकृत-सहकार-कोमलाग्रपल्लवैः, उन्मदषट्चरण-चक्रवाल-वाचालित-विकच-चूत-कालकैः, अचकित-चकोर-चञ्चु-चुम्बित-मरिचाङ्कुरैः, चम्पक-पराग-पुञ्ज पिञ्जर-कपिञ्जल-जग्ध-पिप्पली-

वर्त्ती देशविशेषः यस्य कामिनीनां वनितानां यानि कर्णोत्पलानि श्रवणकुवलयानि तेषां प्रेङ्खोलने आन्दोलने दोहद्भिः अभिलाषकारिभिः । आकम्पितानि बाघूनितानि कक्कोलानि कोशफलानि यैस्तैः तादृशैः । नमेरुकुसुमानां रुद्राक्षपुष्पाणां पांशवः परागास्तान् पातयन्तीति तैः तादृशैः । पशुपतेर्महेशस्य जटाबन्धेन जटानियन्त्रणेन आर्त्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीतेभ्यः भुजङ्गानां पवनभोजिस्वात् भुक्तेभ्यः शेषैः अवशिष्टैः । आह्लादिभिः प्रमोदकारिभिः । तथा पुण्यैः देवस्पर्शित्वात् पूतैः कैलासमारुतैः कैलासाचलस्पशिंपवनैः अभिनन्द्यमानः सेव्यमानश्चन्द्रापीडः तं प्रदेशं गीतोत्पत्तिभूमिम् गत्वा प्राप्य ।

सर्वत इति । सर्वतश्चतुर्दिक्षु मरकतवत् तन्नामकरत्नवत् हरितैः श्यामवर्णैः । इतः प्रभृति तृतीया-बहुवचनान्तपदानि अग्रेतनस्य 'पादपैः' रित्यस्य विशेषणानि । इह लुप्तोपमा ।

हारीति । हारिणो मनोहरा हारि मनोहरम् इतं गमनं येषां ते हारीता 'हरियाल' इति ख्यातनामानः पक्षिविशेषाः तेषां रुचिभिः कलरवैः रमणीयाश्चेतोहरास्तैः ।

भ्रमदिति । भ्रमतां पर्यटतां भृङ्गराजानां पक्षिविशेषाणां नखरैर्नखैः जर्जरितानि क्षतानि जरठानि परिणतानि कुड्मलानि कोरकाणि यषा तैस्तादृशैः । 'अथ भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे' इति मेदिनी ।

उन्मदेति । उन्मदेन तन्मत्तेन कोकिलकुलेन पिकसमूहेन कवलीकृतानि ग्रासीकृतानि (भक्षितानि) सहकाराणाम् आम्रवृक्षाणां कोमलानि मृदुलानि अग्रपल्लवानि प्रान्तकिसलयानि येषु तैः तादृशैः ।

उन्मदेति । उन्मदेन मदमत्तेन षट्चरणचक्रवालेन मधुकरसमूहेन वाचालिता मुखरीकृताः विकचा विकसिताः चूतककिकाः सहकारकोरका येषु तैः तादृशैः ।

अचकितेति । अचकिता अत्रस्ता ये चकोरा जीवञ्जीवाः पक्षिणः तैः कर्तृभिः, चञ्चुभिस्त्रोटिभिः करणैः चुम्बिता भक्षणाय स्पृष्टा मरिचाङ्कुराः श्वेतशोभाञ्जनप्ररोहा येषु तैः तादृशैः ।

चम्पकेति । चम्पकानां हेमपुष्पाणां परागपुञ्जेन पुष्परजःसमूहेन अङ्गेषु तत्पतनेनेत्यर्थः, पिञ्जराः पिङ्गलवर्णाः ये कपिञ्जलास्तित्तिरिपक्षिणस्तैर्जग्धानि खादितानि पिप्पलफलानि अश्वत्थफलानि येषु तैः तादृशैः । 'पिप्पलो बोधिरश्वत्थः' इति रत्नकोषः ।

कार्त्तिकेयके मयूरकी शिखा का चुम्बन करती थी, पार्वतीके कर्ण-पल्लव को आन्दोलित करनेसे साहसिनी हुई थी, उत्तर कुरुदेशों की सुन्दरियोंके धारण किये हुए कर्ण-कमलको आन्दोलित करने की अभिलाषिणी थी, कोशफल वृक्षों को हिलाती थी, रुद्राक्षपुष्पोंमें से धूलियों को गिराती थी, ओर शङ्कर की जटामें बँधनेसे व्यथित अनन्तनागके पीनेसे बची हुई थी। वहाँ उस सरोवरके पश्चिमके तटपर, चन्द्रापीडने चन्द्रिकाके समान श्वेत प्रभासे समस्त प्रदेशको धवलित करती 'चन्द्रप्रभा' नामके कैलासपर्वतके एक भागके अधोदेशमें बना हुआ भगवान् शङ्कर का एक शून्य (जनरहित) सिद्ध-मन्दिर देखा। उसके चारों तरफ मरकतमणि के समान हरे वृक्ष लगे थे। वे मनोहर हारीत पक्षियों की गुञ्जारसे रमणीय लगते थे। उनकी पकी कलियां उड़ते भृङ्गराज पक्षी के नखोंसे जर्जरित हो गई थीं। वहां आमोंके कोमल अग्रपल्लवों को उन्मत्त कोकिल गण खा जाते थे और खिली हुई आमकी कलियों पर मदमत्त भमरोंके झुण्ड गुञ्जार करते थे। निर्भय चित्तसे चकोर पक्षिगण चञ्चुद्वारा मरिच (मिर्च) के अङ्कुर भक्षण करते थे। चम्पक-पुष्पोंके परागोंसे पीले पड़े कपिञ्जल-(चातकोंकी रूपक्षिगण) पीपलके


१. 'उल्लसन । २. आकम्पितकमलैर्नमेरुकुसुममालापांशुवाहिभिः, आकम्पितकक्कोलैः । ३. बन्धन-वासुकि** । ४. नखजर्जरितजरठकुट्मलैः । ५. सहकारकोरकैः । ६. चकोरचुम्बित