कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 410, कुल 709 में से
संदर्भ में पढ़ेंअच्छोदसरोवरवर्णना ४२ ] चन्द्रकला-विद्योतिनीसहिता । ३७१
ङ्ख्यमान इव जलतरङ्गमरुतेन, कमलमधुपानमत्तानाञ्च श्रोत्रहारिभिः कलहंसानां कोलाह-लैराहूयमान इव प्रविवेश¹ । .
प्रविश्य च तस्य तरुषण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः, स्फटिकभू-मिगृहमिव वसुन्धरादेव्याः, निर्गमन²-मार्गमिव सागराणाम् , निस्यन्दमिव दिशां, अवता-रमिव जलाकारं गगनतलस्य, कैलासमिव, द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रा-तपमिव रसतामुपेतम्, हराट्टहासमिव जलीभूतम्, त्रिभुवन-पुण्यराशिमिव सरोरूपेणाव-स्थितम्, वैडूर्य्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्य-
वायुना आलिङ्गयमान इव, कमलस्य पद्मस्य यन्मधु रसस्तस्य पानेन आस्वादनेन मत्तानाम् उत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः मधुरतया कर्णाकर्षकैः कोलाहलैः कलकलैः आहूयमान इव आह्वा-नविषयीक्रियमाण इव च सन् सन् तरुषण्डं प्रविवेश प्रवेशं कृतवान् ।
इह 'आलिङ्ग्यमान इव' इत्यत्र 'आहूयमान इव' इत्यत्र च क्रियोत्प्रेक्षालङ्कारः ।
प्रविवेशेति । किञ्चेति चार्थः । प्रविश्य प्रवेशं कृत्वा तस्य तरुषण्डस्य मध्यभागे अन्तरालप्रदेशे 'अच्छोदं' नाम सरो दृष्टवानिति वक्ष्यमाणया दूरस्थायिन्या क्रियया सम्बन्धः । इह द्वितीयान्तानि पदानि 'अच्छोदं नाम सरः' इत्यस्य विशेषणानि । त्रैलोक्यलक्ष्म्याः त्रिभुवनश्रियः मणिदर्पणमिव रत्नादर्शमिव निर्मलतया समस्तप्रतिबिम्बग्रहणात् । वसुन्धरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव भूगर्भगतं स्फटिकमयं भवनमिव स्वच्छत्वात् । सागराणां समुद्राणां निर्गमनमार्गमिव पातालाद् भूतले निःसरणमार्गमिव विपुलत्वादतलस्पर्शत्वाच्च । दिशां हरितां निस्यन्दमिव द्रवीभूय प्रस्रवणमिव विशदत्वात् गगनतलस्य नभस्तलस्य जलाकारं सलिलरूपम् अवतारमिव अवतीर्णमिव स्वच्छत्वादेव । द्रवतां रसताम् आपन्नं प्राप्तं कैलासं तन्नामक-रजताद्रिशिखरमिव निर्मलत्वात् । विलीनं द्रवीभूतं तुषारगिरिं हिमाचलमिव शीतल-त्वात् । रसतां सलिलताम् उपेतं प्राप्तं चन्द्रस्य आतपं कान्तिमिव विशदशीतलश्वेतत्वात् । जलीभूतं हरस्य महेश्वरस्य अट्टहासं विपुलहास्यमिव श्वेतत्वात् । अत्याधिकशुभ्रत्वसूचनाय हरपदम् । सरोरूपेण कासाररूपेण अवस्थितं कृतावस्थानं, त्रिभुवनस्य त्रैलोक्यस्य पुण्यराशिमिव श्रेयःपुञ्जमिव पवित्रत्वात् । सलिलाकारेण जलस्वरूपेण परिणतं तद्रूपतामापन्नं वैडूर्य्यगिरिजालमिव वैडूर्यरत्नपर्वतसमूहमिव स्वच्छ-त्वात् । नूतनजलदगर्जनाद् विदूरभूमौ कानिचिद् रत्नानि जायन्ते तान्येव हि वैडूर्याणीत्यभिधीयन्ते । महाकविकालिदासास्तु कुमारसंभवे—
'विदूरभूमिर्नवमेघशब्दादुद्भिद्यया रत्नशलाकयेव'
इत्याहुः । तथा द्रवीभूय रसीभूय एकत्र एकस्मिन् स्थले निस्यन्दितं निर्गलितं शरदभ्रवृन्दं शर-त्सामयिकजलदसमूहमिव निर्मलत्वात् । शरत्समय एव हि मेघानां नैर्मल्यं भवतीत्येतद्वचनाय शरत्पदम् । प्रचेतसो वरुणस्य आदर्शभवनमिव दर्पणमयनिकेतनमिव प्रतिबिम्बितत्वाद् 'प्रचेता वरुणः पाशी' इत्यमरः ।
आगत, जलतरङ्गोंका वायु मानो उसका आलिङ्गन करने लगा हो, और कमल-मधु पान कर मत्त हुआ कलहंसों का सुमधुर (श्रोत्रहारी) कोलाहल मानो उसको आह्वान करता हो-इस प्रकार चन्द्रापीड ने उस वृक्षमण्डप में प्रवेश किया ।
प्रवेश करते ही मण्डप के मध्यमें एक अत्यन्त मनोहर लोचनोंको प्रमुदित करनेवाला-'अच्छोद' नामका सरोवर देखा । वह त्रैलोक्यलक्ष्मी के मणिमय दर्पण के समान, पृथिवीदेवी के भूतलान्तर्गत स्फटिकमय गृह (तैखाने) के समान, पातालसे सब समुद्रोंके भूतलमें निर्गमन-मार्गके समान, दिशाओंका जलरूपमें होकर झरनेके समान, आकाशके जलाकारमें अवतारग्रहण करनेके समान, तरलता प्राप्त (गले हुए) कैलास पर्वतके समान, द्रवीभूत हिमालयके समान, द्रवताको प्राप्त हुए चन्द्रमाके प्रभाके समान, शङ्करके जलीभूत अट्टहासके समान, सरोवरके रूपमें त्रैलोक्यके पुण्यसमूहके समान, जलाकारके रूपमें परिणत वैडूर्यमणिके पर्वतसमूहके समान, द्रवीभूत होकर
१. विवेश । २. वसुधादेव्याः । ३. उत्निर्गमन... । ४. अंशावतारमिव गगनतलस्य, अवतारमिव जलाकारम्, अंशावतारं जलाकारम्....।