भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 409, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 409
३७०कादम्बरी-[ कथामुखम्-

विल-विप्रकीर्ण¹-काञ्चनचूर्णेन, सिकता-निमग्न-चमर²-कस्तूरिका-मृगी-खुर-पङ्किना, संशीर्ण-रङ्क³-रुरु-रोम-प्रकर-निचितेन, विषम-शिलाच्छेदोपविष्ट-जीवञ्जीवक-युगलेन, वनमानुष-मिथुनाध्यासिततटगुहामुखेन, गन्धपाषाण-परिमलामोदिना, वेत्रलताप्रतानप्ररूढवेणुना⁴ कैलासतलेन, कञ्चिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागे जलभारालसं⁵ जलधर-व्यूहमिव बहुल-पक्ष⁶क्षपान्धकारमिव पुञ्जीकृतमत्यायतं तरुपण्डं⁷ ददर्श। तच्च⁸ सम्मुखा-दागतेन⁹ कुसुम¹⁰रजःकषायामोदिना जलसंसर्गशिशिरेण शीकरिणा¹¹ चन्दनरस-स्पर्शेनैव¹² आलि-

र्णेति विक्षिप्तानि काञ्चनचूर्णानि सुवर्णधूलयो यत्र तेन तादृशेन ।

सिकतेति । सिकतासु बालुकासु निमग्ना बुडिता चमराणां मृगविशेषाणां कस्तूरिकाहरिणीनाञ्च खुरपङ्किः खुरलक्षणपद्विर्यत्र तेन तादृशेन । 'चमरो चामरेऽपी तु मञ्जरीमृगभेदयोः' इति मेदिनी ।

संशीर्णेति । संशीर्णेन शरीरात् पतितेन रङ्कूणां रङ्कनाम्नाञ्च मृगविशेषाणां रोमप्रकरेण लोमजालेन निचितं व्याप्तं तेन तादृशेन । रमते रम्यत इति वा रङ्कः सुग्गवादिस्वात् (उ० १।१७) माधुः।

'कृष्णमारस्तुरुङ्गरुहृशम्बररौहिषाः । गोकर्णपृषतैणर्यरुहोहिताश्रमरो नृगाः ॥' इत्यमरः । केचित्तु रहति गच्छतीति रङ्कुरित्याहुः, तन्न रहिघातोर्घातुपाठेऽदर्शनात् ।

विषमेति । विषमेषु नीचोच्चेषु शिलाच्छेदेषु पाषाणखण्डेषु उपविष्टानि आसीनानि जीवञ्जीवक-युगलानि चकोरपक्षिक्षन्द्रानि यत्र तेन तादृशेन, जीवं प्राणिनं जीवयति विषनाशानेनेति जीवञ्जीवकः, कर्त्तरि ष्वुल् । 'जीवञ्जीवश्चकोरकः' इत्यमरः, 'जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे च' इति च हेमः।

वनेति । वनमानुषाणां मनुष्याकृतिमद्वशाकारवनचारिविशेषाणां मिथुनैर्दम्पतिभिः अध्यासितानि साश्रितानि तटगुहामुखानि पर्वतीयगह्वरद्वाराणि यत्र तेन तादृशेन ।

गन्धपाषाणेति । गन्धपाषाणानां गन्धकानां परिमलेन सौगन्ध्येन आमोदिना आहादविधायिना 'गन्धाश्मनि तु गन्धकः' इत्यमरः। वेत्रलतानां वेत्रवल्लीनां प्रतानेषु समूहेषु प्ररूढा उत्पन्ना वेणवो वंशा यत्र तेन तादृशेन कैलासतलेन रजताद्र्यधोभागेन ।

कञ्चिदिति । कञ्चिदध्वानं कियन्तं मार्ग गत्वा तस्यैव पूर्वोक्तस्यैव कैलासशिखरिणः रजताद्रेः पूर्वोत्तरे दिग्भागे ऐशान्यां जलधरव्यूहं मेघसमूहमिव, तथा बहुलपक्षस्य कृष्णपक्षस्य क्षपायाः त्रिषामायाः पुञ्जीकृतम् अन्धकारं तामिस्रमिव, सान्द्रतया गाढश्याममपमित्याशयः । अत्यायतम् अधिकस्थानव्यापि, तरुपण्डं वृक्षसमूहं ददर्श अवलोकयामास ।

इह श्रौतोपमयोर्मिथो नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः।

तच्चेति। सम्मुखागतेन अभिमुखायातेन कुसुमरजसां पुष्पपरागणां कषायैः सुगन्धिभिः आमोदिना आनन्दविधायिना, जलसंसर्गेण सलिलसम्बन्धेन शिशिरः शीतलः तेन तथोक्तेन, शीकरिणा सलिलबिन्दु-मता, तथा चन्दनरसस्य मलयजद्रवस्य स्पर्श इव स्पर्शो यस्य तेन तादृशेन, जलतरङ्गाग्रहेन जलतरङ्ग-


न्दिद) पिगलते गुगुलुड्स के रससे उसके प्रस्तर आर्द्र हो गये हैं। चोटीसे गिरते शिलाओंके रससे उसकी शिलाएँ चिकनी हो गई हैं। पाषाणविदारण जन्तुके समान कठिन घोटोंके खुरोंसे विदीर्ण हरितालके रेणुसे वह धूलिमय (मलिन) हो गई है। भूपोंके नखोंसे खोदे बिलोंके अन्दर वहां सुवर्णरज विक्षिप्त हैं। उसकी बालूका-राशि (रेती) के ऊपरके चमर और कस्तूरी मृगोंके पैरोंके निमग्न हो रही हैं। रङ्कमृग और रुरुमृग (समूही मृग) के गिरे रोमोंके गिरनेसे वह स्थान व्याप्त हुआ है। उल्टी ऊँची-नीची प्रस्तरखण्डों (चट्टानों) पर वहाँपर चकोर पक्षियोंके जोड़े बैठे हैं। पर्वतगुफाओंके द्वारमें बहुसंख्यक वनमानुषके जोड़े रहते हैं। सुगन्धि-पाषाण सौरभ आता है और वेंतकी बेलोंके प्रतानमें बांस उगे हैं। चन्द्रापीड उस कैलासपर्वतकी तलहटी होकर कुछ मार्ग अतिक्रान्त कर उस कैलासपर्वतके ही पूर्वोत्तर कोणमें जलके भारसे मन्थर मेघसमूहके समान एवं कृष्णपक्षकी रात्रियोंका एकत्रित हुई अन्धकारसमूहके समान कृष्णवर्ण, बहुस्थानव्यापी और पुञ्जीकृत वृक्षोंका मण्डल देखा। फूलोंके परागसे सुवासित जलसंसर्गसे शीतलविन्दुवाही एवं चन्दनरसके समान शीतलस्पर्शी सम्मुखसे


१. ऽवकीर्ण०...। २. चमरू०...। ३. संशीर्णजीर्णरङ्कु, संशीर्णरङ्क, संशीर्णरुरु०...। ४. ऽप्रतनप्ररूढ०...। ५. ऽलभारालस०...। ६. ऽबहुल०...। ७. ऽविहिततरुपण्डम् । ८. तच्च। ९. ऽभ्मुख०गतेन। १०. कुसुम०...। ११. दिशिरशीकरिणा। १२. ०रसतलस्पर्शन ।