कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 408, कुल 709 में से
संदर्भ में पढ़ेंजलान्वेषणवर्णनम् ४१ ] चन्द्रकला-विद्योतिनीसहिता । [ ३६६
उपजातजलाशयशङ्कश्च^१ तं प्रतीपमनुसरन्, उद्ग्रीवैर्द्दश्यैरुपारच्छत्रमण्डलाकारैः सरल-साल-सल्लकी-प्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपतेन, स्थूल-कपिल-वालुकेन, शिलाबहुलतया विरलतृणोलपेन, वन-द्विप-दशन-दलित मनः-शिला-धूलि-कपिलेन, आमङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणभेदनामञ्जरी-भिर्जटिलितशिलातलेन, अनवरत-गलद्गुग्गुलु-द्रुम-द्रवार्द्रीकृतदृषदा, शिखर-स्रुत-शिला-जतु-रसपिच्छिलोपलेन, टङ्कन-हय-खुर-खण्डित-हरिताल-क्षोद-पांशुलेन, आखुनखरोत्खात-
उपजातेति । उपजाता जलादिचिह्नावलोकनादुत्पन्ना जलाशयस्य जलाधारस्य शङ्का सम्भावना यस्य स तादृशः चन्द्रापीडः, तं मार्गं प्रतीपं प्रतिकूलं यथा स्यात्तथा अनुसरन् तदभिमुख्येन गच्छन्, कैलासनलेन रजताद्रयधोभागेन कञ्चित् अध्वानं गत्वा तरुषण्डं ददर्शेत्यग्रिमेण सम्बन्धः । तमेव विशेषयितुमाह-उद्ग्री-वेति । उद्ग्रीवम् उन्नतकन्धरं यथा स्यात्तथैव दृश्यैर्द्रष्टुं योग्यैरत्युच्चैरित्यर्थः, उपरि उपरिभागे छत्रमण्डलस्य आतपत्रावरणवलयस्य आकार इव आकारो येषां तैस्तादृशैः सरलसालसल्लक्यः स्वनामप्रसिद्धपर्वतीयवृक्ष-विशेषाः प्राया बहुला येषु तैस्तादृशैः, अविरलैः सान्द्रैरपि निःशाखतया शिखरपर्यन्तशाखारहिततया कारणेन, विरलैः अमान्द्रैरिव उपलक्ष्यमाणैः अवलोक्यमानैः पादपैः वृक्षैः उपतेन युक्तेन ।
'इह 'उपरिच्छत्रमण्डलाकारैः' इत्यत्र लुप्तोपमालङ्कारः । 'विरलैरिव' इत्यत्र च गुणोत्प्रेक्षालङ्कारः ।
स्थूलेति । स्थूलाः पृथुलाः कपिलाः पिङ्गलवर्णाश्च वालुकाः सिकता यत्र तेन तादृशेन ।
शिलेति । शिलाबहुलतया पाषाणाधिकतया कारणेन, विरला अल्पाः, तृणानि उलपा विस्तीर्णा लताश्च यत्र तेन तादृशेन । 'लता प्रतानिनो वीरुद् गुल्ममुल्प इत्यपि' इत्यमरः ।
वनेति । वनद्विपाः वन्यहस्तिनः तेषां दशनैर्दन्तैः दलिता मर्दिता या मनःशिलाः पर्वतीयधातु-विशेषास्तासां धूलिभिः रेणुभिः कपिलेन पिङ्गलवर्णेन ।
आमङ्गीति । आ समन्तान् मङ्गो विविधमङ्गिभावामस्तीति ताभिस्तादृशीभिः, अत एव उत्कीर्णाभिरिव प्रस्तरं सन्तक्ष्य रचिताभिरिव विद्यमानाभिः, पत्रभङ्गवत् गण्डस्थलादौ पत्रलतादिचिह्नवत्ता कुटिलाभिर्व-क्राभिः, पाषाणभेदनानां तन्नामकवृक्षविशेषाणां मञ्जरीभिः वल्लरीभिः जटिलितानि विषमितानि शिला-तलानि प्रस्तरयोरन्तराणि यस्य तेन तादृशेन । 'पाषाणभेदनः (पुं) वृक्षविशेषः' इति शब्दकल्पद्रुमः ।
इह 'उत्कीर्णाभिरिव' इत्यत्र क्रियोत्प्रेक्षा, 'पत्रभङ्गकुटिलाभिः' इत्यत्र लुप्तोपमा, अनयोश्च परस्परं नैरपेक्ष्येण स्थितत्वात् संसृष्टिरलङ्कारः ।
अनवरतेति । अनवरतं निरन्तरं गलद्भिः स्रवद्भिः गुग्गुलुद्रुमाणां पलङ्कषवृक्षाणां द्रवा निर्यासाः तैः आर्द्रीकृताः क्लिन्नीकृता दृषदः प्रस्तरा यत्र तेन तादृशेन ।
शिखरेति । शिखरात् सानोः स्रुतेन च्युतेन शिलाजतुदवेन तत्संज्ञकगिरिजधातुद्रवेण पिच्छिला विजिला उपलाः पाषाणा यत्र तेन तादृशेन ।
टङ्केनेति । टङ्कनानि प्रस्तरदारकशास्त्राणि ये हयानां तुरगाणां खुराः शफाः तैः खण्डितानां शकली-कृतानां चूर्णितानामित्यर्थः, हरितालानामालानां क्षोदैश्चूर्णैः पांशुलं रेणुमयं तेन तादृशेन । 'टङ्कः पाषाणदारणः', पिञ्जरं पीतनं तालमालकं हरितालके' इति चामरः ।
आस्विति । आखूनां मूषकाणां नखरैर्नखैः उत्खातेभ्यः उत्खनितभ्यो बिलेभ्यो विवरेभ्यो विप्रकी-
उस मार्गको देखकर समीपमें जलाशयका अनुमान करके वह सामने ही जाने लगा और कैलास पर्वतके नीचे होकर तलहटीमें पहुँच गया। उस स्थानमें देखता है कि—सरल, साल और सल्लकीके वृक्ष अधिक परि-माणमें लगे हुए हैं। वे इतने ऊँचे हैं कि गर्दन ऊपर उठानेते ही देख पड़ते हैं। एवं ऊपरके भागमें छत्रके समान मण्डलाकार और सघन होनेपर भी शाखायें (टहनियाँ) न होनेसे, वे विरल होते दीख पड़ते हैं। उस स्थान का बालुकामय प्रदेश (रेती) मोटा और पिङ्गलवर्ण है। अधिक प्रस्तर होनेके कारण उस स्थानमें थोड़े ही घास और तृण आविर्भूत होते हैं। वन्य हस्तिगणके दन्त द्वारा चूर्णित (टूटी हुई) मैनसिलकी धूलसे वह स्थान पिङ्गल वर्ण (धूसर ?) हो गया है। चारों ओर मुड़ी हुई-और उत्कीर्ण-सी प्रतीत होतीं-पत्रलतादि चिह्नके समान, कुछ टेढ़े, पाषाण-भेदन वृक्षको मञ्जरियाँ उसकी शिलाओंके मध्यके छेदोंमें उत्कीर्ण पड़ी हैं। निरन्तर (रात्र-
१. "...जलाशय उपजातजलाशयशङ्कः ।
२. उद्ग्रीवैः ।
३. शिलातलवहुलतया ।
४. पाषाणभेद...' ।
५. शिलान्तरेण ।
६. टङ्कनखुरखुर...' ।