कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 411, कुल 709 में से
संदर्भ में पढ़ें| ३७२ | कादम्बरी- | [ कथायाम्- |
|---|
न्दितम्, आदर्शभवनमिव¹ प्रचेतसः, स्वच्छतया मुनिमनोवृत्तिभिरिव सज्जनगुणैरिव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निर्मितम्, आपूर्णपर्यन्तमप्यन्तःस्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणं, अनिलोद्धूतजलतरङ्गशीकर-धूलि, जन्मभिः सर्वतः संस्थितैः² रक्ष्यमाणमिवेन्द्रचापसहस्रैः, प्रतिभानिभेनान्तः प्रविष्टं³ सकानान⁴-शैल-नक्षत्र-ग्रहचक्रवालं त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, आसन्नकैलासावतीर्णस्य च शतशो भगवतः खण्डपरशोर्मज्जनोन्मज्जन-क्षोभ-चलितचूडामणि-चन्द्रखण्डच्युतेनामृतरसेन जल-
इह 'निस्यन्दमिव दिशाम्' इत्यत्र 'अवतारमिव जलाकारं गगनस्य' इत्यत्र च क्रियोत्प्रेक्षालङ्कारः । 'तुषारगिरिमिव विलीनम्' इत्यत्र द्रव्योत्प्रेक्षालङ्कारः । अवशिष्टेषु च जात्युत्प्रेक्षालङ्कारो ज्ञेयः ।
स्वच्छेति । स्वच्छतया निर्मलत्वेन हेतुना, मुनिमनोवृत्तिभिः ऋषिचित्तवृत्तिभिः निर्मितमिव रचितमिव तासामप्यतिनिर्मलत्वादित्याशयः । सज्जनानाम् आप्तानां गुणैः मार्दवार्ज्जवादिभिः, हरिणलोचनप्रभाभिरिव मृगनेत्रकान्तिभिरिव, मुक्ताफलांशुभिः मौक्तिककिरणैः निर्मितमिवेति सम्बन्धः । इह चतसृणामपि क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।
आपूर्णेति । आपूर्णः सलिलैः सम्पूर्णः पर्यन्त उपर्यवशिष्टसीमा यस्य तत्तथोक्तं सदपि, अन्तरभ्यन्तरे स्पष्टं स्फुटं यथा स्यात्तथा दृष्टा अवलोकिताः सकलवृत्तान्ताः प्रतिबिम्बभावेन वृत्तवल्लीस्पन्दनादिक्रियाः, यद्वा अधःस्वशुक्तिसैकतादिपदार्था यत्र तत्तादृशं तस्य भावस्तत्ता तया कारणेन, रिक्तं जलशून्यमिव उपलक्ष्यमाणम् अवलोक्यमानम् । इह क्रियोत्प्रेक्षालङ्कारः ।
अनिलेति । अनिलेन वायुना उदूधृतानाम् उत्पादितानां जलतरङ्गाणां सलिलकल्लोलानां शीकरधूलिभ्योऽम्बुकणेभ्यो जन्म उत्पत्तिः येषां तैः तादृशैः, सर्वतः समन्तात् संस्थितैः विद्यमानम् इन्द्रचापसहस्रैः इन्द्रधनुःसमूहैः रक्ष्यमाणमिव त्रायमाणमिव । इहापि क्रियोत्प्रेक्षालङ्कारः । तज्जलबिन्दुपु सूर्यरश्मिपातेन तेपामिन्द्रधनुर्वद्विविधवर्णतयाऽवलोक्यमानत्वादियमुत्प्रेक्षेत्यवधेयम् ।
प्रतिभेति । नारायणं विष्णुमिव, उद्भिन्नानि प्रस्फुटितानि पङ्कजानि कमलानि यत्र तेन तथोक्तेन उदरेण अभ्यन्तरप्रदेशेन, नारायणपक्षे तु उद्भिन्नम् उत्पन्नं पङ्कजं ब्रह्मकमलं यस्मात्तेन तथोक्तेन उदरेण कुक्षिणा करणेन, प्रतिमानिभेन प्रतिबिम्बव्याजेन अन्तःप्रविष्टम् अन्तर्लीनं, काननानां वनानां शैलानाम् अचलानां नक्षत्राणां तारकाणां ग्रहाणां सूर्यप्रभृतीनाञ्च चक्रवालेन मण्डलेन सहिति सकानानशैलनक्षत्रग्रहचक्रवालं त्रिभुवनं त्रिलोकं विभ्राणं धारयदिब पक्षे धारयन्तम् । सोऽपीत्थं त्रिभुवनं बिभर्ति ।
इह 'नारायणमिव' इति श्रौतोपमा, सकानानेत्यादि⁴...बिभ्राणमिवेति सापह्नवा प्रतीयमाना क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
आसन्नेति । अपि च, जलेन सलिलेन क्षालितस्य धौतस्य वामार्द्धस्य गिरिजारूपशरीरवामांशस्य कपोलात् गण्डात् गलितं च्युतं लावण्यप्रवाहं सौन्दर्यधाराम् अनुकरोतीति तेन तादृशेन, आसन्नाद् समीपवर्त्तिनः कैलासाद् अवतीर्णस्य उत्तारतस्य भगवतो माहात्म्यवतः खण्डपरशोः शङ्करस्य शतशोऽनेकवारं मज्ज-
एक स्थानमें गिरे हुए शरत्कालीन मेघसमूहके समान एवं वरुणके दर्पणमय गृहके समान देखनेमें आ रहा था । अत्यन्त स्वच्छ होनेके कारण वह सरोवर ऐसा प्रतीत होता था मानो तपस्वियोंके मनका, सज्जनोंके सद्गुणोंका, हरिणोंकी नयन-कान्तिका और मोतियोंकी किरणोंका ही निर्माण किया हुआ हो । जलसे परिपूर्ण होनेपर भी उसके अभ्यन्तरकी सब वस्तु स्पष्ट दिखलाई देती थी जिससे वह जलशून्य सा प्रतीत होता था । वायुसे उछलती हुई जलतरङ्गके विन्दुओंमें सूर्यके किरण पतित होनेसे सब दिशाओंमें से एकत्रित हुए मानो हजारों इन्द्रधनुष उसकी रक्षा करते थे । उस सरोवरके भीतरमें बहुतसे कमल खिले हुए थे एवं वन, पर्वत, नक्षत्र और ग्रहोंसे युक्त समस्त त्रिभुवन प्रतिबिम्बके बहानेसे उसके भीतरमें प्रवेश किये थे, अतएव नारायण (विष्णु) जिस प्रकार उत्पन्न-पद्म-समन्वित उदर द्वारा वन, पर्वत, नक्षत्र और ग्रहगणोंसे युक्त त्रिभुवन धारण करते हैं उसी प्रकार अच्छोद सरोवर ने भी मानो त्रिभुवन धारण किया था । भगवान् शङ्कर, निकटवर्ती कैलासपर्वतमेंसे उतरकर बार-
१. आदर्शमिव, आदर्शभवनमिव । २. सनुपस्थितैः, समुत्थितैः । ३. ...'प्रविष्ट । ४. ...'सजलचरकानन..., सकलकानन...।