भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 418, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 418

अच्छोद सरोवरवर्णना ४८ ] चन्द्रकला-विद्योतिनीसहिता । ३७६


नान्तराणि । मन्ये च यत्^१ सृष्टेरर्वाक् सलिलमयं ब्रह्माण्डरूपमादौ भुवनमभूत्, तदिदं पिण्डीभूयं^२ सरोव्यपदेशेनावस्थितम् ।

इति विचारयन्नेव तस्य शिला-शकल-कर्कश-बालुकाप्रायं विद्याधरोद्धृत-सनालकुमुद-कलापार्चितानेक^३-चारु-सैकत-लिङ्गम्, अरुन्धती-दत्त-दिनकरार्घ्य^४-पयःपर्यस्त-रक्त^५-कमलशोभितम्^६, उपकूल-शिलातलोपविष्टजलमानुषनिषेव्यमाणातपम्, अभ्यर्णतया च कैलासस्य स्नानागतमातृमण्डल-पद-पङ्क्तिमुद्राङ्कितम्^७, अवकीर्ण^८-भस्म-सूचित-मज्जोत्थित-गण-वृन्दो^९-द्धूलनम्, अवगाहावतीर्ण^१०-गणपति-गण्डस्थल-गलित-मद^११-प्रस्रवणसिक्तम्, अतिप्रमाणपादानुमीयमान^१२-तृषित-कात्यायनी-सिंहावतरणं^१३-मार्गम्, दक्षिण^१४-तीरमासाद्य तुरगादवततार ।

कुर्वन्ति । इह भावाभिमानिनी क्रियोत्प्रेक्षा ।

मन्ये इति । किञ्चेति चार्थः । सृष्टेः विश्वनिर्मितेः अर्वाक् पूर्वम्, आदौ प्रथमं सलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपम् अभूत् आसीत् । तत्सलिलं पिण्डीभूय एकत्र समवेतीभूय सरोव्यपदेशेन सरोवरव्याजेन इदमवस्थितमित्यहं मन्ये जानामि । इहाधिकपदतादोषनिवारणाय 'आदौ' इत्यस्य परित्यागो विधेयः । इहाऽपि भावाभिमानिनी वाच्य सापह्नवा क्रियोत्प्रेक्षा बोध्या । विश्वनिर्मितेः पूर्वं भुवनस्य जलमयत्वे प्रमाणम्-'अप एव ससर्जादौ तासु बीजमवासृजत्' इति मनुवचनम् ।

इतीति । इति एवं विचारयन् चिन्तयन्नेव चन्द्रापीडः तस्य सरोवसरस्य दक्षिणं तीरं दक्षिणदिग्वर्तितटम् आसाद्य प्राप्य तुरगात् अश्वात् अवततार अवतीर्णवानित्यन्वयः । इह नपुंसके द्वितीयान्तपदानि 'तीरम्' इत्यस्य विशेषणानि । शिलाशकलवत् पाषाणखण्डवत् कर्कशाः कठिनाः वालुकाः सिकतास्ताः प्रायो यासुत्येन यन्न तत्तादृशम् । विद्याधरैर्योमचारिभिर्देवयोनिविशेषैः उद्धृतेन गृहीतेन सनालानां कुमुदानां कैरवाणां कलापेन समूहेन अर्चितानि पूजितानि अनेकानि असंख्यानि चारूणि मनोहराणि सैकतलिङ्गानि वालुकामयशिवलिङ्गानि यत्र तत्तादृशम् । अरुन्धत्या वसिष्ठपत्न्या दत्तं समर्पितं दिनकराय सूर्याय यदर्घ्यं पदार्थमुदकं तस्य पयसो जलात् पर्यस्तैः प्रपतितैः रक्तकमलैः रक्ताब्जैः शोभितं विराजितम् । उपकूले तीरनिकटे शिलातलेषु प्रस्तरनलेषु उपविष्टैः स्थितैः जलमानुषैः जलमानुषाकृतिजीवविशेषैः निषेव्यमाणः आतपः सूर्यरश्मिः यस्मिंस्तत्तादृशम् । कैलासस्य रजताद्रे अभ्यर्णतया समीपवर्त्तिनया कारणेन स्नानाय मज्जनाय आगतस्य आयातस्य मातृमण्डलस्य ब्राह्मायादिमातृगणस्य पदपङ्क्त्येश्वरनश्रेण्याः मुद्राभिर्भूमो नक्षत्रतिकृतिरूपाभिः अङ्कितं चिह्नितम् । अवकीर्णैः इतस्ततो विक्षिप्तैः भस्मभिः भूतिभिः सूचितानि अनुमितानि मज्जोत्थितानां स्नानानन्तरोत्थितानां गणानां प्रमथानां वृन्दस्य समुदायस्य उद्धूलनानि रेणुवन्मर्हनानि त्रिपुण्ड्रादिकरणाय रेणुवत् सूच्मविधानाथं भस्मनां पेषणानि यत्र तत्तादृशम् । अवगाहाय जलक्रीडनार्थम् अवतीर्गस्य अवतरितुं प्रस्थितस्य गजपतेर्विनायकस्य (गजवदनस्य) गण्डस्थलात्


कि सृष्टिके पहले जो यह जगत ब्रह्माण्ड-रूपसे-जल-मय भुवन था वह जल-राशि हो एकत्र समवेत होकर इन सरोवरके स्वरूपमें स्थित है ।

चन्द्रापीड इस प्रकार मन ही मन वितर्क करते करते उस अच्छोदसरवरके दक्षिणतट पर जाकर घोड़ेसे उतरा । वहां (दक्षिण तीरमें) पाषाण-खण्डके समान अत्यन्त कठिन बहुत वालुका थी-(अर्थात् उसकी नैसी पथरीली थी) । वहां विद्याधरों ने नाल सहित कुमुदके फूल तोड़कर वालुकाके सुन्दर शिवलिंगों पर पूजा किये थे । अरुन्धती देवीने सूर्यनारायणको जो अर्घ्य दिया था, उसके ही जलमेंसे गिरे रक्तकमल वहां शोभायमान थे । कितने जल-मानुष तीरके निकटमें ही एक चट्टान पर बैठ कर रौद्र (धूप) सेवन कर रहे थे । कैलासपर्वतके निकट होनेसे स्नान करनेके लिए आई ब्राह्मी आदि माताओंके चरणोंकी पंक्ति के चिह्न बने हुए थे । वहां इतस्ततः भस्म बिखरी हुई थी, जिससे प्रतीत होता था कि स्नान करनेके अनन्तर भस्मके तिलक धारण करनेके लिए प्रमथ गण कितने भस्म धूलिके समान मर्दित किये थे । स्नान करने के लिए उतरे गणेशजीके गण्डस्थलमें से मद-जल निस्स्रुत हो कर उस स्थान को सिक्त किया था और वहां चरणोंके बड़े बड़े चिह्नों को देखकर अनुमान होना था किपार्वती का


१. यच्च सलिलमयम् । २. पिण्डीभूतं । ३. ॰॰॰अचितन् । ४. ॰॰दत्तार्घ्यं ॰॰दत्तदिनकरार्घ्यं ॰॰, इस्तदत्तदिनकरार्घं ॰॰। ५. ॰॰॰भारक्त॰॰॰। ६. कमलोपशोभितम् । ७. ॰॰॰मण्डलमुद्राङ्कितम् । ८. अवतीर्णे ॰॰। ९. ॰॰॰कदम्बक ॰॰॰। १०. अवगाहनावतीर्ण ॰॰॰। ११. ॰॰गण्डस्थलमद ॰॰॰। १२. ॰॰पद ॰॰॰। १३॰॰अवतार ॰॰॰। १४. दक्षिणं ।