कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 417, कुल 709 में से
संदर्भ में पढ़ें| ३६८ | कादम्बरी- | [ च्छायायाम्- |
|---|
श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतञ्चास्यैव दर्शनतृष्णया न परित्यजति भगवान् कैलासनिवासव्यसनमुमापतिः । न खलु साम्प्रतमाचरति जलशयनदोहदं देवः रथाङ्गपाणिः, यदिदममृतरस-सुरभि-सलिलमपहाय लवण-रस-परुषपयस्युदन्वति स्वपिति । नूनञ्चेदं न प्रथममासीत् सरः, येनप्रलयवराहघोणाभिघात-भीतो भूतधात्री कलसयोनि-पान-परिकलित-सकल-सलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधैपाताल-गम्भीराम्भसि निमग्ना भवेन्महासरसि, किमेकेन, महावराह-सहस्रैरपि नासादिता भवेत् । नूनञ्चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितदशदिशः प्लावयन्ति भुव-
यति प्रीणयति । हंसमुखरतया हंसशब्दैः शब्दायमानतया, श्रुतिं कर्णम् आनन्दयति प्रमोदयति तथा स्वादुतया मिष्टतया रसनां जिह्वाम् आह्लादयति आनन्दयति । अत एव सर्वथैवामृतसदृशतया पुनः पीयूषनिर्माणं पुनरुक्तमेव प्रापितमित्यभिप्रायः ।
नियमिति । उमापतिर्भगवान् महेशः अस्य सरस एव दर्शनतृष्णायावलोकनलोभेन कैलासनिवासे रजताद्रपवस्थाने व्यसनमासक्तिं न परित्यजति न जहातीति नियतं निश्चितम् अन्यथाऽन्यत्र निवसेदि-त्याशयः । इह वाच्या अभावाभिमानिनी क्रियोत्प्रेक्षा ध्रुवपर्यायनियतशब्दोपादानात् ।
नेति । देवो रथाङ्गपाणिश्चक्रपाणिर्भगवान् विष्णुः, जलशयनस्य सलिलस्वापस्य दोहदम् अभिलाषं न खलु साम्प्रतं युक्तम् आचरति विदधाति 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः । यद् यस्मात्, अमृतस्य पीयूषस्येव रसो यस्य तदमृतरसंसुरभि सुगन्धि च सलिलं पानीयं यस्य तदिदं सरः, अपहाय परित्यज्य लवणरसेन परुषाणि रूक्षाणि पयांसि सलिलानि यस्य तस्मिंस्तादृशे उदन्वति समुद्रे स्वपिति शयनं करोति । यदि जलशयनाभिलाषमुचितमेवाकरिष्यत्तदा लवणसमुद्रं विहायास्मिन्नेवामृतोपमसलिलॆ नून-मस्वप्स्यदित्यभिप्रायः ।
नूनमिति । प्रलये कल्पान्तसमये वराहस्य अवताररूपयज्ञशूकरस्य घोणाया नासिकाया अभिघा-तात् प्रहाराद् भीता त्रस्ता दंष्ट्राग्रेणोत्थापनसमये नासिकाघातः सम्भवत्येवेत्यवलोकनीयम् । भूतधात्री पृथिवी, कलसयोनिना अगस्त्येन पानाय पानार्थं परिकलितं सम्भावितं सकलं समग्रं सलिलं जलं यस्य तं तादृशम्, एतेनास्यातिन्यूनत्वं ध्वनितम्; सागरं समुद्रम् अवतीर्णा पलायनाय प्रविष्टा । अन्यथा यदीदं सरः प्रथममासीदित्यर्थः, यदि च अगाधपातालवत् गम्भीरम् अतस्तपर्शि लग्नः सलिलं यस्मिं-स्तस्मिंस्तथोक्ते अत्र महासरसि निमग्ना भवेत् सा भूतधात्रीति शेषः, तदा एकेन असहायेन तेन वरा-हेण किम्, महावराहसहस्रैरपि आसादिता प्राप्ता न भवेत् अत एव नूनं निश्चितम् इदं सरः प्रथमं पूर्वं नासीदित्याशयः ।
इह नूनमित्यादिवाक्ये अभावाभिमानिनी वाच्या क्रियोत्प्रेक्षा, तावता वाक्येन च व्यतिरेको ध्वन्यते इति वस्तुनाऽलङ्कारध्वनिः ।
नूनमिति । नूनं निश्चितं महाप्रलयेषु कल्पान्तेषु अस्मादेव सरसः सलिललेशं जलबिन्दुम् आदायादाय गृहीत्वा गृहीत्वा प्रलयपयोदाः कल्पान्तमेघाः, प्रलये यद्दुर्दिनं मेघजं गाढतमस्तेन अन्धकारिताः समु-त्पादितान्धकाराः दश दिशो यैस्ते तथोक्ताः सन्तः, भुवनान्तराणि जगन्मध्यदेशान् प्लावयन्ति जलमयी-
सुस्वादु होनेसे रसनाको तृप्ति करता रहता है। भगवान् शंकर इस सरोवरके दर्शनकी अभिलाषासे ही निश्चय कैलासपर्वतमें वास करनेकी आसक्तिको नहीं छोड़ते हैं। भगवान् नारायणको अब जल-शयनकी उत्कट अभि-लाषा नहीं रही, क्योंकि वे अमृतके समान सुस्वादु और सुगन्धि जलसे परिपूर्ण इस सरोवरको त्याग कर लवण-रससे कर्कश (खार) जलवाले समुद्रमें शयन करते हैं। यथार्थ में यह सरोवर पहले नहीं था, क्योंकि-प्रलयकालमें यज्ञवराहकी नासिकाके आघातसे भयभीत होकर पृथिवी, - महर्षि अगस्त्यके पान करनेसे जिसके जलकी थाह मिल गई थी-ऐसे समुद्र मध्यमें उतर (प्रवेश कर) गई थी, नहीं तो जो वह कभी इस सरोवरके अगाध एवं अनेक पातालोंके समान गम्भीर जलमें निमग्न होती तो एक क्या हजारों महावराह भी उसका पता नहीं लग सकते। एवं निश्चय ही महा-प्रलय-कालमें प्रलय-मेघ-समूह इस सरोवरमेंसे ही थोड़ा-थोड़ा जल-ग्रहण कर प्रलयकी वर्षासे दशो दिशाओंमें घोर अन्धकार करके सब भुवनोंको प्लावित कर देते हैं और मेरा विचार।
१ '...दोहदमितः।
२. '...मन्निभूता।
३. 'अगाधानेकपाताल...' ।
४. क्वचित् दिशश्चिन्नर्नास्ति ।