कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 416, कुल 709 में से
संदर्भ में पढ़ेंच्छोदसरोवरवर्णनं ४८ ] चन्द्रकला-विद्योतिनीसहिता । ३७७
आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मनस्येवमकरोत्¹-'अहो ! निष्फलमपि मे तुरङ्ग- मुखमिथुनानुसरणं² एतदालोकयतः सरः सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् । आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्लादनीयानामवधिः, वीक्षिता मनोहराणां सीमान्तरेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानाम- वसानभूमिः । इदमुत्पाद्य सरःसलिलम् अमृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः⁵। इदमपि खल्वमृतमिव सर्वेन्द्रियाह्लादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपज- नयति, शिशिरतया स्पर्शसुखमुपहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया
आलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैव अपगतश्रमः दूरीभूतक्लान्तिः चित्रप्रसन्नत्वादि- स्याशयः । दृष्ट्वा भूयो विशेषेणावलोक्य मनसि चित्ते एवम् इत्थम् अकरोत् अवदद्यत्—अहो इत्याश्चर्ये निष्फलं निरर्थकमपि एतत्सरः कासारम् आलोकयतो दृष्टवतो मे मम तुरगमुखमिथुनानुसरणं किन्नरयुग- लानुगमनं सफलताम् अवगतं प्राप्तम् । अद्य अस्मिन् दिने परिसमाप्तं परितृप्तं ईक्षणयुगलस्य लोचन- द्वयस्य द्रष्टव्यफलं दर्शनीयफलम्, खलु निश्चयेन रमणीयानां मनोहराणाम् अन्तोऽवसानम् आलोकितो वीक्षितः, एतदपरं रमणीयं न विद्यत इत्यर्थः । आह्लादनीयानां प्रमोदविधायिनाम् अवधिः शेषसीमा दृष्टोऽवलोकितः⁴ । मनोहराणां चित्तहारिणां सीमान्तलेखा अवधिरेखा वीक्षिता लोचनगोचरीकृता अतः परं हृदयाकर्षकं किमपि नास्तीत्याशयः । प्रीतिजननानां प्रीत्युत्पादकानां परिसमाप्तिः संपूर्णासमापनं प्रत्यक्षीकृता इन्द्रियगोचरीकृता । दर्शनीयानां द्रष्टुं योग्यानाम् अवसानभूमिश्चरमदशा विलोकिता दृष्टा नाधिकमितः परं द्रष्टव्यमस्तीत्याशयः । इहैकार्थख्यानि पुनः पुनरुक्त्या दोषमापतति किन्तु चन्द्रापीड- स्यानन्दमग्नतया विस्मयेन च नया कथनान्नोक्तदोषो विषादादौ कथितपदतावदित्यवधेयम् । तथा च दर्पणे—'...........................................................................कथितं च पदं पुनः ।
विहितस्यानुवादत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाद्यनुप्रासेऽनुकम्पायां प्रसादने ॥ अर्थान्तरसङ्क्रमितवाच्ये हर्षेऽवधारणे ॥' इति ।
इदमिति । इदं सरःसलिलं कासारजलम् उत्पाद्य निर्माय पुनः अमृतरसं पीयूषद्रवम् उत्पादयता सृजता वेधसा ब्रह्मणा, स्वसृष्टिः स्वकीयान्विनिर्मितिः पुनरुक्ततामिव नीता प्रापिता एकमेव वस्तु नामान्तरेण विहितमित्याशयः । एतेनास्यामृतसादृश्यं प्रत्याय्यते ।
ननु कथं पुनरुक्ततां प्रापितेदत आह—इदमपीति । इदमपि सरःसलिलं कर्तृ । खलु निश्चिनम् । अमृतं पीयूषमिव, सर्वेषां समग्राणाम् इन्द्रियाणां कर्मेन्द्रियाणां ज्ञानेन्द्रियाणञ्च आह्लादनं प्रीणनं तत्र समर्थम्, अतिविमलतया अतिस्वच्छतया चक्षुषो लोचनस्य प्रीतिं स्नेहम् उपजनयति उत्पादयति, तथा शिशिरतया शीतकतया स्पर्शसुखं स्पर्शजनितानन्दम् उपहरति जनयति । कमलस्येव शोभनो गन्धः सौरभोऽस्यास्तीति कमलसुगन्धि, मत्वर्थीय 'अत इनिठनौ' इति पा० सूत्रेण इनिप्रत्ययः ततः 'तस्य भावस्त्वतलौ' इति पा० सूत्रेण तल्प्रत्ययः, तया हेतुना । प्रशंसायामत्रेनिः । घ्राणं नासिकााम् आप्या-
उस सरोवरको केवल देखनेसे ही चन्द्रापीडकी थकावट दूर हो गई, उस समय वह विशेषरूपसे देखकर इस प्रकार मनमें विचार करने लगा—'अहो ! मेरा किन्नरयुगलका अनुसरण निष्फल होनेपर भी इस सरोवरके देखनेसे सफल हुआ । आज ही मेरे नेत्रोंको द्रष्टव्य (वस्तु) देखनेका पूरा फल मिला । यहाँ निश्चय ही मैंने सुन्दर पदार्थोंका अन्त देखा । आह्लादजनक वस्तुओंकी सीमा देखी । मनोहर पदार्थोंकी अन्तिम-सीमा- रेखाको दृष्टिगोचर किया । आनन्ददायक पदार्थोंकी परिसमाप्तिका साक्षात्कार किया एवं दर्शनीयोंकी अव- सान-भूमि देखी । इस सरोवरका जल उत्पन्न करके अमृत उत्पन्न करनेवाले विधाताने मानो अपनी सृष्टिको पुनरुक्त दोष-युक्त कर दिया है, क्योंकि—इस सरोवरका जल भी अमृतके समान सब इन्द्रियोंको आह्लाद उत्पन्न करनेके लिए समर्थ है । अत्यधिक स्वच्छताके कारण आँखोंको आनन्द उत्पन्न करता है । शीतलताके कारण स्पर्श- सुख देता है । कमलकी सुगन्धसे नासिकाको तृप्त करता है । हंसके स्वरसे कानोंको आनन्दित करता है एवं
१. आलोकयतः । २. मनस्यकरोत् । ३. तुरङ्गम । ४. दृष्टोऽवलोकितः । ५. स्वप्रकृतिः ।
२४ का०