भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 415, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 415
३७६कादम्बरी-[ कथायाम्-

उरगः कुलमिवानन्त-शतपत्र-पद्मोद्भासितम्, कंसबलमिव मधुकरकुलोपगीयमानं-कुवलया-पीडम्, कद्रू-स्तनयुगलमिव नागसहस्रपीतपयोधरण्डूषम्, मलयमिव चन्दन-शिशिरवनम्, असत्साधनमिवादृष्टान्तम्, अतिमनोहरमाह्लादनं दृष्टेः, अच्छोदं नाम सरो दृष्टवान्।

'पुण्डरीकः सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्रामिदिङ्नागे कोशकारान्तरेऽपि च ॥' इति मे० ।

उरगेति । उरगकुलं नागवंशमिव, अनन्तैः अगणितैः शतपत्रपद्मैः शतदलकमलैः उद्भासितं शोभितम्। पक्षे तु अनन्तेन नागाधिपेन वासुकिनेत्यर्थः, शतपत्रेण पद्मेन च नागविशेषेण उद्भासितम् ।

कंसेति । कंसस्य उग्रसेनसुतस्य बलं सैन्यमिव, मधुकरकुलेन भ्रमरवृन्देन उपगीयमानानि स्वगानविषयीक्रियमाणानि कुवल्यानि इन्दीवराण्येव आपीडः शेखरो यस्य तत्तादृशम् । पक्षे तु मधुकरकुलेन भ्रमरसमूहेन उपगीयमानः दानवारिपरिमललोभेनागत्य स्वगीतश्रवणविषयीक्रियमाणः कुवलयापीडः तन्नामको गजेन्द्रो यस्मिन् तत् तादृशम्, अथवा मध्वौ मधूवने करः नृपग्राह्यभागो येषां ते मधुकराः कंसप्रभृतयः तेषां कुलेन समूहेन उपगीयमानः प्रशस्यमानः कुवलयापीडसंज्ञको गजो यस्मिंस्तत्तादृशम् ।

कद्रिवति । कद्रूः नागमाता तस्याः कश्यपस्त्रीविशेषस्य स्तनयुगलं कुचद्वयमिव, नागानां गजानां सर्पाणाञ्च सहस्रेण समूहेन पीतः पानविषयीकृतः पयसां सलिलानां दुग्धानाञ्च गण्डूषश्चुलुको यस्मा-त्तत्तादृशम् ।

मलयमिति । मलयो मलयाचलस्तमिव, चन्दनवत् मलयजवत् शिशिराणि शीतनानि वनानि सलिलानि यस्मिंस्तत् । पक्षे तु चन्दनानां वृक्षाणां शिशिरवनं शीतलकाननं यस्मिंस्तं तादृशम् । 'वनं नपुंसके नीरे निवासालयकानने' इति रामाश्रमी ।

इह 'यौवनमिवोत्कलिकाबहुलम्' इत्यारभ्य 'मलयमिव चन्दनशिशिरवनम्' इत्यन्तं पूर्णोपमा-लङ्कारः । 'उरगकुलमिवानन्त-शतपत्र पद्मोद्भासितम्' इत्यत्र तु शतपत्र पद्मशब्दयोः प्रतिशब्दतया आपा-ततः पुनरुक्ताऽवगमादनन्तरञ्च शतदलान्वितपद्मार्थे पर्यवसानात् पुनरुक्तवदाभासोऽलङ्कारः पूर्णोपमा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

अस्रदिति । असत्साधनमिव हेत्वाभासदुष्टं हेतुमिव नक्षत्रत्ववान् मनुष्यादित्यादिसाध्याभाववत्पक्ष-वृत्तिहेतुमिवेत्यर्थः, न दृष्टो न केनाऽपि वीक्षितः अन्तो विरामो यस्य तत्तादृशम् अतिविस्तृतमित्यर्थः । पक्षे तु नास्ति दृष्टान्तो निश्चितसाध्यवान् दृष्टान्तसंज्ञको न्यायावयवविशेषो यत्र तत्, अश्वत्ववान् मनुष्यत्वादि-त्यादौ असद्धेतौ निश्चितसाध्य-(गोत्व) वत्स्थलं(दृष्टान्तः) नास्तीत्यर्थः, अत एवासत्साधनत्वमित्यभिप्रायः ।

इह तत्सरोवरस्यान्तावलोकन सम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः पूर्णोपमा चेत्युभयोः सङ्करः ।

अतीति । अतिमनोहरम् अतिसुन्दरं दृष्टेर्नेत्रस्य साह्लादनं प्रमोदजनकम्, अच्छानि निर्मलानि उदकानि तोयानि यस्य तदच्छोदं नाम सरः कासारं दृष्टवान् अवलोकितवान् ।


जिस प्रकार अनन्त, शतपत्र और पद्मनामक सर्पोंद्वारा शोभित है, वह सरोवर भी उसी प्रकार असंख्य शतदल (सैकड़ों पंखड़ी वाले) कमलद्वारा शोभित था। कंसकी सेनाओके मध्यमें जिस प्रकार भ्रमरगण-गुञ्जन-श्रवण-परायण कुवलयापीड नामक एक हाथी था, उस सरोवरमें भी उसी प्रकार नीलोत्पललूप उसके शिरोभूषणमें भ्रमर-गण गान (गुञ्जार) करते थे। कश्यपपत्नी कद्रूके स्तनयुगलसे जिस प्रकार सर्पगण दुग्ध पान करते थे, उस सरोवर से भी उसी प्रकार हस्तिगण जल-पान करते थे। मलयपर्वतमें जिस प्रकार शीतल चन्दनवन है, उस सरोवरमें भी उसी प्रकार शीतल जल था। असद्धेतु (हेत्वाभास) का जिस प्रकार दृष्टान्त नहीं है, उस सरोवर का भी उसी प्रकार शेषसीमा (अन्त) दृष्टिगोचर नहीं होता था। इस प्रकार वह अच्छोदसरोवर अत्यन्त सुन्दर और नेत्र का आह्लादजनक था।


१. '...उपगीयमान...' । २. कद्रू... ।