भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 414, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 414

च्छोदसरोवरवर्णना ४१ ] चन्द्रकला-विद्योतिनीसहिता । ३७५

चक्रलक्षणम्, षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, भारतमिव पाण्डु-धार्त्तरा- ष्ट्रकुल-पक्ष-कृत-क्षोभम्, अमृतमथनसमयमिव तीरावस्थित-शितिकण्ठ-पीयमानविषम्, कृष्ण- बाल-चरितमिव तट-कदम्ब-शाखारूढ-हरिकृत-जल-प्रपात-क्रीडम्, मदनध्वजमिव मकरा- धिष्ठितम्, दिव्यमिवानिमिषलोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्,

जलचरविशेषाः, कूर्माः कच्छपाः, चक्राः चक्रवाकाः, लक्ष्णाः सारस्यश्च यत्र तत्तादृशम्। पक्षे तु प्रकटानि स्फुटानि मीनमकर्कूर्मचक्रस्वरूपाणि लक्ष्णानि पाणिपादयोः रेखात्मकचिह्नानि यस्य तं तादृशम् ।

'लक्ष्मं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्' । इति मे०। 'ज्योत्स्नायां च सारस्यां स्त्री, क्लीवे नामचिह्नयोः । स्यादश्वे लक्षणः पुंसि सौमित्रौ, श्रीमति त्रिषु ॥' इति रभ०

षण्मुखेति । षण्मुखचरितं कार्तिकेयचरितमिव, श्रूयमाणः आकर्ण्यमानः क्रौञ्चवनितानां क्रुञ्चपक्षिणीनां प्रहारः कलरवो यत्र तत्तादृशम्, अन्यत्र तु श्रूयमाणः क्रौञ्चवनितानां क्रौञ्चसंज्ञकदैत्यस्त्रीणां प्रलापो रोदनं यत्र तत्तादृशम् । मयदैत्यसुतः क्रौञ्चदैत्यः कार्तिकेयेन मारित इति हरिवंशीया कथा ।

भारतमिति । भारतं महाभारतमितिहासमिव, पाण्डूनां पाण्डुवर्णानां धार्त्तराष्ट्राणां श्यामवर्णचञ्चुचरणयुक्तानां हंसानां यत् कुलं समूहः तस्य पक्षैः पतत्रैः कृतो विहितः क्षोभः सङ्क्षोभनं यस्य तत्तादृशम्। पक्षे तु पाण्डुकुलं पाण्डुराजवंशो धर्मराजादिः तथा धृतराष्ट्रस्येदमिति धार्त्तराष्ट्रं कुलं दुर्योधनादि तयाः पक्षाभ्यां सहायभूताभ्यां संग्रामकारिभ्यां कृतः क्षोभः सङ्ग्रामो यत्र तत्तादृशम् ।

'राजहंसास्तु ते चञ्चुचरणैर्लोहिताः सिताः । मलिनैर्मृत्तिकाङ्गाभै धार्त्तराष्ट्राः सितेतरैः ॥' इत्यमरः।

अमृतेति । अमृतमथनसमयमिव समुद्रमथनसमयमिव, तीरावस्थितैः तटावस्थानैः शितिकण्ठैः मयूरैः पीयमानानि आस्वाद्यमानानि विषाणि जलानि यस्य तत्तादृशम् । पक्षे तु तीरावस्थितेन शितिकण्ठेन शम्भुना पीयमानं विषं सागरोत्थितं गरलं यत्र तं तादृशम् । 'विषं तु गरले तोये' इति मेदिनी । पुरा मन्दराचलेन समुद्रमथनादाविर्भूतं गरलं महादेवः पपाविति भारतीया कथा ।

कृष्णेति । कृष्णस्य देवकीनन्दनस्य बालचरितं शैशवक्रीडितमिव, तटे तीरे ये कदम्बाः नीपाः तेषां शाखासु अधिरूढैः हरिभिः कपिभिः हरिणा तेनैव देवकीनन्दनेन च कृता जले प्रपात एव क्रीडा यत्र तत्तादृशम् ।

मदनेति । मदनः कामः तस्य ध्वजं पताकामिव, मकरैः तत्संज्ञकैर्जलचरविशेषैः मकरेण मकरसदृशपुत्तलिकया च अधिष्ठितम् आश्रितम् ।

दिव्येति । दिवि भवं दिव्यं स्वर्गीयं कञ्चिद्देवमिव, नास्ति निमिषः निमेषो ययोस्तथोक्ते लोचने नयने देषां तैः तयोर्हैतैर्मनोज्ञैर्मनोहरम् । पक्षे तु अनिमिषे ये लोचने ताभ्यां रमणीयम् । देवमीनयोर्द्वयोरेव निमेषाभावात् ।

अरण्येति । अरण्यं महाविपिनमिव, विजृम्भमाणानि प्रस्फुटं भजमानानि पुण्डरीकाणि सिताम्म्भोजानि यत्र तत्तादृशम् । पक्षे तु विजृम्भमाणा निद्रामङ्गानन्तरं निजाङ्गान्यावच्छूमाना पुण्डरीका व्याघ्रा यत्र तत्तादृशम् ।


रूप सुननेमें आती है, उस सरोवरमें भी इसी प्रकार क्रौञ्चकुल-पक्षिणियों का कलरव सुनाई देता था। महाभारत में जिसप्रकार पाण्डुवंश और धृतराष्ट्रवंश इन दोनों पक्षोंमे किये हुए युद्धों का वृत्तान्त है, उस सरोवरमें भी उसीप्रकार श्वेत-हंसगणके परोंकी वायुसे जलका उद्वेलन होता था। समुद्रमन्थनके समय जिसप्रकार शङ्करजी तीरमें रहकर कालकूट-विष पान किया था, उस सरोवर में भी उसी प्रकार मयूरगण तीरमें रहकर जल पान करते थे। श्रीकृष्ण शैशवचरितमें जिसप्रकार यमुनातीरस्थित कदम्बवृक्षकी शाखा पर चढ़कर ऊपरसे ही जल-प्रपात-रूप क्रीडा करते थे, उस सरोवरमें भी उसी प्रकार तीरस्थित कदम्ब वृक्षके शाखा पर चढ़कर पुनः वहीं से जलमें कूद कर वानरगण क्रीडा करते थे। कामदेव की ध्वजमें जिसप्रकार मकराकृति पुत्तलिका है, उस सरोवरमें भी उसी प्रकार मकर नामक जलजन्तु रहता है। स्वर्गीय देवगण जिसप्रकार निमेषरहित लोचनद्वारा शोभा पाते हैं, वह सरोवरभी उसीप्रकार मत्स्यद्वारा शोभा पाता था। महावनमें जिसप्रकार व्याघ्र निद्रामङ्गके अनन्तर जृम्भा (हाई) कर मुखविकास करते हैं, वह सरोवर भी उसी प्रकार श्वेतकमलसे विकसित होता था। सर्वोका कुल


१. मीन० प्रकटलक्षणम् । २. तीरेणसारायन्वित ० । ३. यत्कृत० ० ० । ४. ऽतट० ० ० ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 414, कुल 709 में से · BharatKosha