भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 413, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 413

३७४ कादम्बरी- [ कथायाम्-

सर्वदा सिद्ध-वधू-धौत-कल्पलता-वल्कल-पुण्योदकम्¹, उदकक्रीडादोहदागतानाञ्च गुह्यके- श्वरान्तःपुरकामिनीनां मकरकेतु-चापचक्राकृतिभिरतिविकटैरावर्त्तिभिर्नाभिमण्डलैरापीतसलि- लम्, क्वचिद्वरुण-हंसोपात्तकमलवनमकरन्दम्², क्वचिद्दिग्गजमज्जन-जर्जरित-जरन्मृणालदण्डम्³, क्वचित् त्र्यम्बक-वृषभ-विषाण-कोटि⁴-खण्डित-तट-शिलाखण्डम्, क्वचिद्यममहिष-शृङ्ग-शिखर- विक्षिप्त-फेन-पिण्डम्, क्वचिदैरावत-दशन-मुसलै⁵-खण्डित-कुमुद-षण्डम्, यौवनमिवोत्कलि- काबहुलम्, उत्कण्ठितमिव मृणालवलयालङ्कृतम्, महापुरुषमिव प्रकट-मीन-मकर-कूर्म-

सर्वदेति । सर्वदा सर्वकालं सिद्धानां देवयोनिविशेषाणां वधूभिः अङ्गनाभिः धौतैः क्षालितैः कल्पल- तावल्कलैः मन्दारवत्तत्वक्लैः पुण्योकृतानि पवित्रीकृतानि उदकानि सलिलानि यस्य तत्तादृशम् ।

उदकेति । उदकक्रीडादोहदेन जलक्रीडाभिलाषेण आगतानां प्राप्तानां गुह्यकेश्वरस्य कुबेरस्य अन्तः- पुरकामिनीनाम् अवरोधस्त्रीणां मकरकेतोः कामस्य चापचक्रस्य मण्डलीकृत ( आरोपित ) धनुषः आकृत्ति- राकारो येषां तैः तादृशैः, अतिविकटैरत्यन्तगम्भीरैः आवर्त्तौ वर्त्तुलस्वरूप एषामस्तीति तैः तादृशैः, नाभि- मण्डलैः तुन्दकूपिकासमूहैः आपीतानि अन्तर्गतकृतानि सलिलानि जलानि यस्य तत्तादृशम् । इहार्यो- पमालङ्कारः ।

क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसः हंसैस्तद्वाहनमरालैः उपात्ता गृहीताः कमल- वनस्य पद्मविपिनस्य मकरन्दा मधूनि यत्र तत्तादृशम् ।

क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे दिग्गजानां दिग्दन्तिनां मज्जनेन अवगाहनेन जर्जरिताः छिन्न- भिन्नाः जरन्तः बहुकालावस्थानेन स्वयं जीर्णाः मृणालदण्डा बिसदण्डा यत्र तत्तादृशम् ।

क्वचिदिति । त्र्यम्बकवृषभेण महेश्वरोक्षा विषाणकोटिभ्यां शृङ्गाग्रभागाभ्यां खण्डिताः त्रुटिताः तट- शिलाखण्डाः तीरप्रस्तरखण्डा यस्य तत्तादृशम् ।

क्वचिदिति । यममहिषेण कृतान्तकासरेण शृङ्गयोः विषाणयोः शिखराभ्याम् अग्रभागाभ्यां विक्षिप्ता मज्जनसमये विक्षीर्णाः फेनपिण्डाः डिण्डीरपुञ्जाः यत्र तत्तादृशम् ।

क्वचिदिति । ऐरावतेन इन्द्रगजेन, दशनौ दन्तौ मुसलौ इव दशनावैव मुसलौ वेति ताभ्यां खण्डितं त्रोटितं कुमुदषण्डं कैरववनं यत्र तत्तादृशम् । इहोपमारूपकयोः सन्देहसङ्करः । अच्छोदसरोवरस्योक्तवि- शेषणैः सुराणां विहारस्थानत्वमिति द्योतितम् ।

यौवनमिति । यौवनं तारुण्यसमयमिव उत्कलिका सञ्जातकूङ्मला अनुरागश्रोत्कण्ठाश्च यत्र तत्तादृशम् । 'उत्कण्ठोत्कलिके समे' इत्यमरः ।

उदिति । उत्कण्ठितं प्रियजनवियोगेनोन्मनस्कं लोकमिव, मृणालवलयेन बिससमूहेन वलङ्कृतं भूषितम्, एकत्र कामतापादग्यश्च स्वभावादित्याशयः ।

महेति । महापुरुषं भाग्यशालिनं नृपाहिमिव, प्रकटाः स्फुटमवलोक्यामाना, मीना मत्स्याः, मकरा

लताके वल्कल धोकर उसके जलको पवित्र किया था । जलक्रीडा की अभिलाषासे आई कुबेरके अन्तःपुरकी सुन्द- रियोंके-कामदेवके मण्डलीकृत धनुषके समान वर्तुलाकार अतिगम्भीर और भँवर के समान स्वरूपवाले-नाभि- मण्डलों ने उसका जल पिया था । उस सरोवरके किसी-किसी स्थानमें वरुणके हंसगण कमलवनका मधु-पान कर रहे थे । किसी-किसी भागमें दिग्गजोंके स्नान करने के समयमें पके मृणालदण्ड छिन्न-भिन्न हो गए थे । किसी किसी स्थलमें महादेवके बैलके सींगों के अग्रद्वारा तटकी शिलाएं टूट गई थीं । कहीं-कहीं यम-महिषने स्नान करनेके समयमें सींग के अग्रभागद्वारा फेन इधर-उधर फैला दिये थे । कहीं-कहीं ऐरावतके दन्तरूपी मूसलसे कुमुद-खण्ड टुकड़े-टुकड़े हो गए थे । यौवनकाल जिस प्रकार उत्कण्ठासे परिपूर्ण रहता है, वह सरोवर भी उसी प्रकार उत्पन्न कलिकासे परिपूर्ण था । प्रिय विरहसे उत्कण्ठित व्यक्तिके समान वह सरोवर भी मृणालवलय ( मृणा- लके वलय; मृणाल-रूपी वलय ) से अलङ्कृत था । महापुरुषके हाथ और पाँव में जिसप्रकार मत्स्य, मकर ( मगर ), कछुए और चक्रके चिह्न स्पष्ट देखनेमें आते हैं उस सरोवरमें भी उसी प्रकार मत्स्य, मकर, कछुए, चक्रवाक और सारस-पक्षियों सहस्रोंमें प्रकट थे । कार्त्तिकेयके चरित्रमें जिसप्रकार क्रौञ्च दैत्यके मर्मस्थलोंके विदारणकी


१. पुण्योदकम् ।
२. हंसक्रान्ताविकचकमलवनमकरन्दम्, हंसाक्रन्दकमलवनमकरन्दम्, हंसापादपद्मवन-मकरन्दम् ।
३. ॰मृणालनालदण्डम् ।
४. ॰॰धववृषभविषाणकोटिण्ट॰॰॰ ।
५. ॰मुसल॰॰॰ ।