भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 424, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 424

[शिवसिद्धायतनवर्णना ५० ] चन्द्रकला-विद्योतिनीसहिता । १८५

अकठोर-पत्र पुट-पूगं-विटपि-परिवृतैः, अनिवारितविहङ्ग-तुण्ड खण्डितखर्जूर-जालकैः, मदमुखर-मधुर रव विरावित्तान्तरैः अकल्लित-कलिका-कलाप-दन्तुरैः, अन्तरन्तरा कैलास-तरङ्गिणीतरङ्गित-सिकतिल-तल भूमिभागैः, वनदेवता-करतल-निवह-निभमलक्तक-जल-लव-सिक्तमिव किसलयनिकरमतिसुकुमारमुद्वहद्भिः, ग्रन्थिपर्ण-ग्रास-मुदितं-चमरीकुल-निषेवित-मूलैः, कर्पूरागुरुप्रायैः, इन्द्रायुधैरिव घनावस्थानैः, कुमुदैरिवार्दत्त-दिनकर-कर-प्रवेशैः शिशिराभ्यन्तरैः,

अकठोरेति । अकठोराणि मृदुलानि पत्रपुटानि पर्णपुटानि येषां तयोक्तैः पूगविटपिभिः क्रमुकवृक्षैः परिवृताः च परिवेष्टिताः तैः ।

अनिवारितेति । अनिवारितैः केनाऽप्यप्रतिरुद्धैः विहङ्गैः आकाशगामिभिः पक्षिभिः कर्तृभिः, तुण्डैः अग्रभिः करणैः खण्डितं खण्डखण्डीकृत्य भक्षितं पिण्डखर्जूराणां पिण्डीभूतखर्जूरफलानां जालकं समूहो येषु तैः ।

मदेति । मदेन मत्ततया मुखराणां शब्दायमानानां मयूराणां नीलकण्ठानां मधुररवैर्मनोहरकलरवैः विरावित्तानि समुत्पन्नशब्दानि अन्तराणि मध्यदेशा येषां तैः ।

अकलितेति । अकलिता अविकसिता याः कलिकाः कुङ्मलाः तासां कलापेन समूहेन दन्तुरा उच्चोन्नताः तैः ।

इह 'चञ्चित्तचकोरचञ्चु' इत्यादारभ्य 'अकल्लितकलिकाकलापदन्तुरैः' इत्यन्तं वृत्त्यनुप्रासोऽलङ्कारः। केवलं 'जलघरजले' त्यादौ भ्रान्तिमानलङ्कारोऽप्यभिव्यज्यते इत्यधिकम् ।

अन्तरेति । अन्तरान्तरा मध्ये मध्ये कैलासतरङ्गिणीनां कैलासादिस्यनदीनां तरङ्गिताः समुत्पन्नतरङ्गा अतएव सिकतिला बालुकायताः तलभूमिभागा अधःप्रदेशा येषां तैः । इह छेकानुप्रासः । सिकता इत्यत्र तद्धितलच् प्रत्ययः ।

वनदेवतेति । वनदेवतानाम् अरण्याधिष्ठात्रीणां करतलनिवहनिभंरक्तत्वसादृश्यात् पाणितलसमूहसदृशम् अत एवालक्तकजलानां यावकसलिलानां लवैर्विन्दुभिः सिक्तम् इव सेचितमिव विद्यमानम् , अतिसुकुमारम् अत्यन्तसुकुमारे अत्यन्तमृदुलं किसलयनिकरं किसलयपुञ्जम् , उद्वहद्भिर्धारगं कुर्वद्भिः ।

इह साध्योपमा क्रियोत्प्रेक्षा च, अनयोश्च द्वयोरङ्गाङ्गिभावेन सङ्करः ।

ग्रन्थीति । ग्रन्थिपर्णानां शुकनामकतरुविशेषाणां ग्रासेन अशनेन मुदितं हर्षितं यच्चमरीकुलं हरिणविशेषसमूहस्तेन निषेवितानि साश्रितानि मूलानि बुघ्नानि येषां तैः । 'ग्रन्थिपर्णं शुकं बर्हम्' इत्यमरः ।

कर्पूरेति । कर्पूरा अन्तर्निर्मितघनसारवृक्षाः, अगुरवो राजार्हा वृक्षाश्च प्रायेण बाहुल्येन येषु तैः । 'अगुर्र्गुरु राजार्हम्' इति हैमः ।

इन्द्रेति । इन्द्रायुधैः इन्द्रधनुर्भिरिव, घनं सान्द्रम् अवस्थानं स्थितिर्येषां तैः, अन्यत्र तु घनेषु मेघेषु अवस्थानं येषां तैः ।

कुमुदैरिति । कुमुदैः कैरवैरिव, अदत्तेन दिनकरकरप्रवेशेन सूर्यरश्मिपातेन कारणेन शिशिरं शीतलम् अभ्यन्तरं मध्यभागो येषां तैः, पादपपक्षे—घनावस्थानेन पर्णकिसलयैरूर्ध्वप्रदेशावरणाद्, कुमुदपक्षे तु—सङ्कोचेन प्रवेशासम्भवादित्याशयः ।

लगे थे। कोई निवारण नहीं करता था। इसलिए पक्षीगण चोंचोंसे पिण्डखजूर-समूहको कुतर डालते थे। उनके मध्य भागमें से मदसे शब्द करते मयूरी गणके मधुर स्वर निकलते थे। अविकसित कलिकासमूहसे वे विम्बित थे (अर्थात् उनमें अत्याधुक कलियां लग रहीं थीं) वहा के वालुकामय भूमि पर मध्यमें कैलास-पर्वतस्य नदियों की तरङ्गोंके झकोरे लगते थे। वन-देवताओंके पाणितल समूह (हथेली) के समान अलक्तकके रसकी बूंदोंसे मानो गीली हुई हो ऐसे-अत्यन्त कोमल पल्लवसमूह धारण किये (आ रहे) थे। शुक-नामक वृक्ष विशेष का पर्ण भक्षण कर चमरी हरिणगणके झुण्ड उनकी जड़के आगे प्रसन्न-चित्तसे बैठे थे, और उन वृक्षोंके बीचमें कर्पूर और अगर वृक्ष ही अधिकसंख्यक थे। इन्द्रधनुष जिस प्रकार मेघके ऊपरमें रहता है वे वृक्ष भी उसी प्रकार सघन भावसे स्थित थे; सङ्कुचित होनेसे सूर्यरश्मियोंके प्रवेश नहीं होनेके कारण कैरव-समूहके अभ्यन्तरमें जिस प्रकार शीतलता रहती है, उसी प्रकार पत्तोंके ऊपर भागसे आवृत होनेसे सूर्यरश्मियोंका प्रवेश नहीं होनेके कारण उन


१. ०-०पुट, पूर्ण०-० । २. ०-० विरावित्तान्तरैः चित । ३. आकल्लित०-०दन्तुरितैः । ४. ग्रन्थिपर्णक, ग्राससमुदित०-० । ५. घनावलोत्यानैः । ६. ०-०दिनकरप्रवेश०-० ।