कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 427, कुल 709 में से
संदर्भ में पढ़ें| ३८८ | कादम्बरी- | [ कथायाम्- |
|---|
क्रियैरिवोच्चशिखशिखिमण्डलपरिवृतैः, दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः, जरद्गृहमुनिभिरिव जटालवालकमण्डलधरैः,¹ इन्द्रजालिकैरिव दृष्टिकारिभिः, पादपैः परिवृतं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे कैलासपादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं तले-भागसन्निविष्टं भगवतः शूलपाणेः शून्यं³ सिद्धायतनमपश्यत् ।
तञ्च पवनोद्धूतैः⁴ इतस्ततः समापतद्भिः केतकीगर्भधूलिपटलैः⁵ धवलीक्रियमाणकायः पशुपतिदर्शनहेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतम्, आयतनप्रवेशपुण्यैरिव परिगृह्यमाणः
इत्यभिधीयन्ते तैरिवेत्यर्थः, उच्चताः शिखाश्रृङ्गा ज्वालाश्च यस्य तेन शिखिमण्डलेन मयूरसमूहेन वह्निरागेन च परिवृताः परिवेष्टितास्तैः ।
दीक्षितैरिति । दीक्षितैः यज्ञे गृहीतव्रतैर्यजमानैरिव, कृतं विहितं कृष्णसारैः शृङ्गविशेषैः कर्तृभिः, विषाणैः शृङ्गैः करणैः कण्डूयनं येषां तेः, अन्यत्र तु—कृतं कृष्णसारविषाणैः शृङ्गविशेषशृङ्गैः कण्डूयनं शरीरखर्जनं यैस्तैः । सञ्जातदीक्षाणां कृष्णसारविषाणेनैवाङ्गनिस्तर्जनं प्राप्तपादनार्थदाशयः । तथा च श्रुतिः—'कृष्णविषाणया कण्डूयते' इति । 'कण्डूः कण्डूयनं खर्जूः कण्डूया' इत्यभिधानचिन्तामणिः ।
जरदिति । जरन्तो वृद्धा ये गृहमुनयो गृहस्थतपस्विनः तैरिव, जटासु मूलेषु आलवालानां सलिलाधाराणां मण्डलं समुदाये धरन्तीति तेः, अन्यत्र तु—जटालं जरायुक्तं बालकमण्डलं बालकगणं धरन्ति परिपुष्णन्तीति तैः । तेषां दायुक्तया सुतजननसंम्भव इत्यवधेयम् । 'मूले लग्नकचे जटा' इत्यमरः ।
इन्द्रेति । इन्द्रजालिकैर्लोकैरिव, दृष्टिकारिभिः मनोज्ञत्वाल्लोचनाकर्षिभिः अन्यत्र तु प्रकृत्या जनानां यथायथदृष्टिसाम्प्र्धहारिभिः । इह 'इन्द्रायुधैरिव' इत्यारम्य 'इन्द्रजालिकैरिव' इत्यन्तं पूर्णोपमालङ्कारः ।
पादपैरिति । पादपैः उक्तविशेषणगुर्युक्तैर्वृक्षैः परिवृतं परिवेष्टितम् । तस्य सरसः पश्चिमे तीरे प्रतीच्यां तटे ज्योत्स्नावदातया चन्द्रिकावच्छुभ्रनया प्रभया स्वकान्त्या तं प्रदेशं तस्याश्चेवर्त्तिभूभागं धवलयतः शुभ्रं विदधतः, चन्द्रप्रभनाम्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य कैलासप्रत्यन्तपर्वतस्य तलभागसन्निविष्टम् अधोभागसंस्थितं भगवतः सर्वसमर्थस्य शूलपाणेः महेश्वरस्य, शून्यं जनवर्जितं सिद्धायतनं लोकसिद्धिप्राप्तिभवनम् अपश्यत् दृष्टवान् ।
तञ्चेति । नद्यायतनं प्रविश्य प्रवेशं कृत्वा च त्र्यम्बकम् अद्वादीदिति सम्बन्धः । पवनेन वायुना उद्धूतैः परिचालितैः इतस्ततः समापतद्भिः यत्र तत्र निपतद्भिः केतकीगर्भधूलिपटलैः केतकीपुष्पमध्यवर्तिपरागसमूहैः धवलीक्रियमाणः श्वेतीक्रियमाणः कायः शरीरं यस्य सः तादृशः, अतएव पशुपतिदर्शनहेतोः महेश्वरावलोकनार्थं केतकीगर्भधूलिपटलैरिव बलात् हठात् भस्मव्रतम् लवनवेपु विभूतिधारणनियमं प्रतिपद्यमान अङ्गीक्रियमाण इव सन्न् । पशुपतिपूजने भस्मधारणस्यावश्यकतानाह कात्यायनः—
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ॥
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥'
तथा तदायतनप्रवेशपुण्यैः सिद्धायतनप्रवेशसुकृतैः परिगृह्यमाण आश्लिष्यमाण इव च सन् । इह 'प्रतिपाद्यमान इव' 'परिगृह्यमाण इव' इत्युभयत्र क्रियोत्प्रेक्षालङ्कारः ।
ऊँची शिखावाले मयूरगणसे परिवेष्टित थे; यज्ञमें दीक्षित होकर यजमानगण जिसप्रकार शरीर-खुजलाने पर कृष्णसार (मृग) के सींगसे शरीर खुजलाते हैं, वे वृक्ष भी उसीप्रकार कृष्णसारगणके सींगोंसे खुजलाये जाते थे; वृद्ध गृहस्थ मुनिगण जिसप्रकार जटाधारी बालकोंका परिपालन करते हैं, उन वृक्षोंने भी उसीप्रकार बालवालोंको धारण किये हैं—अर्थात् जड़के पास क्यारी हैं और थाले बने हुए हैं; ऐन्द्रजालिकगण जैसे अपनी छन्ताइरते लोगोंके देखनेकी शक्ति हर लेते हैं, वे वृक्ष भी उसी प्रकार सुन्दर होनेसे दृष्टिका आकर्षण करते थे ।
चन्द्रापीडने जाकर उस मन्दिरके अन्दर प्रवेश किया, उस समय वायुसे उड़कर इधर उधर झरते आए हुए केतकीकुसुमके अभ्यन्तरके परागसे चन्द्रापोडका शरीर धवलवर्ण हो जानेके कारण ऐसा प्रतीत हो रहा था कि उससे मानो महादेवके दर्शनके लिए बलात्कार अपने शरीर पर भस्मको लगा दिया हो और मन्दिरमें प्रवेश करनेके पुण्य ही ने
१. दोर्ध्वज्व, ऽऽऽकमण्डलुधरैः ।
२. भूतलंऽऽऽ ।
३. क्वचिद् शून्यमिति पदं नोपलभ्यते ।
४. पवनोद्धूतैः, पवनोद्धतैः ।
५. ऽऽऽधूलिभिः, धूलिधवलैः ।