कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 443, कुल 709 में से
संदर्भ में पढ़ें| ४०४ | कादम्बरी- | [ कथायाम्- |
|---|
समयमिवै दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागम्, उत्फुल्लकुसुमेषु लतानिकुञ्जेषु कूजतां मन्दं मन्दं मदमत्त-मधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम्, अतिदूरपातिनीनाञ्चे धवल-शिलातल-प्रतिघातोत्पतनफेनिलानामपां प्रस्रवणैरुत्कोटि-ग्राव-विटङ्क-विपाट्यमानैरूच्चरद्ध्वनिभिरवशीर्यमाण तुषार-शिशिर-शीकरासारैराबध्यमाननीहाराम्, हिम-हार हर-हास-धवलैश्चो-भयतः क्षरद्भिर्निर्झरैर्द्वारोवलम्बित-चलचामरकलापामिवोपलक्ष्यमाणाम्, अन्त'स्थापित-मणि-कमण्डलु-मण्डलाम्, एकान्तावलम्बित-योग-पट्टिकाम्, विशाखिका-शिखर-निबद्धे-
किञ्चिदध्वानमतिक्रम्येव गत्वा व्रजित्वा 'गुहामद्राक्षीत्' इत्यग्रिमक्रियया सम्बन्धः। इह स्त्रीलिङ्गे द्वितीये-कवचनान्तानि पदानि 'गुहाम्' इत्यग्रेतनस्य विशेषणानि। निरन्तरैः सान्द्रैः अत एव दिवाऽपि दिनेऽपि रजनीसमयं रात्रिकालं दर्शयद्भिरवलोकयद्भिरिव विद्यमानैः, तमालतरुभिः तापिच्छवृक्षैः करणैः, अन्धका-रितः समुत्पादितान्धकारः पुरोभागः संमुखदेशो यस्यास्ताम्। इह 'दर्शयद्भिरिव' इति क्रियोत्प्रेक्षा।
उत्फुल्लेति। उत्फुल्लानि प्रस्फुटितानि कुसुमानि पुष्पाणि येषु तेषु, लतानिकुञ्जेषु वल्लीकुञ्जेषु मन्दं मन्दं शनैः शनैः कूजता शब्दं कुर्वतां मदमत्तमधुलिहां मधुमत्तभ्रमराणां विरुतिभिः झङ्कारैः मुखरीकृतः वाचालीकृतः पर्यन्तः प्रान्तदेशो यस्यास्ताम्।
अतिदूरेति। किञ्चेति चार्थः। अतिदूरात् दविष्ठात् पतितुं शीलं यासां तासाम्, धवलेषु विशदेषु शिलातलेषु पाषाणतलेषु प्रतिघातेन प्रतिस्खलनेन यत् उत्पतनमूर्ध्वगमनं तेन फेनिलानां फेनवत्तीनाम् अपां जलानाम्, उत्कोटयः उन्नताग्रा ये ग्रावाणः प्रस्तराः तेषां विटङ्कः ऊर्ध्वप्रदेशैः विपाट्यमानानि विदार्य-माणानि तैः, उच्चरन्तः स्खलनप्रतिस्खलनैर्जायमाना ध्वनयः शब्दा येषु तैः, तथा अवशीर्यमाणाः प्रस्तरेषु पतनात् जर्जरीभवन्तः तुषारवत् तुहिनवत् शिशिराः शीतलाः शीकरासाराः सलिलकणधारा येषां तैः प्रस्रवणैः गिरिनिर्झरैः, आवध्यमानाः सञ्जायमाना नीहाराः सलिलकणा यस्यां ताम्।
इह स्वभावोक्तिः, तुषारशिशिरपदयोः तुल्यार्थकतया श्रवणमात्रेण पौनरुक्त्यप्रतीतेरनन्तरञ्च तुपा-रवत् शिशिरा इति भेदप्रतीत्या पुनरुक्तवदाभासश्च, अनयोर्द्वयोर्मिंथोऽङ्गाङ्गिभावसङ्करः। अपुष्टार्थत्वदोष-निराकरणाय धवलपदपरित्याग एव समुचित इत्यवधेयम्।
हिमेति। किञ्चेति चार्थः हिमं तुहिनं हारो मुक्तामाला हरहासो महेशहास्यं तद्वत् धवलाः श्वेताः तैः, उभयतो द्वारपार्श्वयुगले क्षरद्भिः स्रवद्भिः निर्झरैः प्रस्रवणैः हेतुभिः, द्वारे प्रतीहारे अवलम्बितः सन् चलन् प्राच्छलन् चामराणां वालव्यजनानां कलापः समूहो यस्यास्तामिव उपलक्ष्यमाणां वीक्ष्यमाणाम्। 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः। इह चलच्चामरसमूहोत्प्रेक्षणाज्जात्युत्प्रेक्षा।
अन्तरिति। अन्तरभ्यन्तरे स्थापितं न्यस्तं मणिमयकण्डलूनां मणिनिर्मितकुण्डिकानां मण्डलं समूहो यस्यास्ताम्।
एकान्तेति। एकान्ते एकभागे अवलम्बिता स्थापिता योगपट्टिका योगसाधनसमयपरिधानाय क्षुद्रक्षौमवसनं यस्यास्ताम्।
विशासिकेति। विशाखिकायाः शिक्यायाः शिखरे ऊर्ध्वभागे निवद्धं संयतं नारिकेलीफलस्य लाङ्गली-
देखी। उसके सम्मुख भागमें लगातार लगे हुए होनेके कारण दिनमें भी मानो रात्रि प्रकट करते तमाल वृक्षोंने अन्धकार कर रक्खा था; लताकुञ्जों (बेलोंकी कुञ्जों) मे नानाविध फूल खिले हुए थे, उनमें मन्द-मन्द गुञ्जार करते हुए मदमत्त मधुकरोंके झङ्कारसे उस गुहाका प्रान्तभाग मुखरित हो रहा था; श्वेतवर्ण शिलाखण्ड (चट्टान) से टक्कर खाकर उछलनेसे फेनमय हुए, अत्यधिक दूरसे गिरते जलके प्रस्रवणों (झरनों) से एवं ऊँची उठी कोरवाले प्रस्तरोंकी नोकोंसे जर्जरित बहुतर शब्द करते टुकड़े-टुकड़े हुए हिमके समान शीतल कणोंकी वर्षासे नीहार (ओस) भर रही थी। उस गुहाद्वारके उभय पार्श्व (दोनों बगल) में झरे हुए हिम, मुक्ताकी माला और शङ्करके हास्यके समान धवलवर्ण झरनोंसे उसके द्वार पर मानो चञ्चल चमर लटकाये हों ऐसा प्रतीत होता था। इसके अभ्यन्तरमें कितने मणिमय कमण्डलु रक्खे थे। योगसाधन करनेके समयमें पहिननेके उपयुक्त छोटे एक पट्टवस्त्र एक स्थानमें
१. रजनीमयम् । २. गुञ्जता मन्दं, मधुमत्त ०। ३. पातिनीं । ४. धारा। ५.० चारुचलचामर ०। ६. विशासिकानिबद्ध ०।