भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 445, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 445

४०६ कादम्बरी- [ कथायाम्-

कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टो दिग्विजयमादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे। विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार। अचिरेण च^१ तस्याः स्वयं पतितैः फलैरपूर्यत भिक्षाभाजनम्। आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम्।

आसीच्च तस्य चेतसि-'नास्ति खल्वसाध्यं नाम तपसाम्। किमतः परमाश्चर्यम्, यदत्र^२ व्यपगतचेतना^३ अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः। चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम्' इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्य्याणं^४ नाविदूरे संयम्य निर्झरजलनिर्वर्त्तितै-^५


कृतेति। अपि च कृतं विहितम् आतिथ्यम् अतिथिसत्कारो यया तया, द्वितीयशिलातलोपविष्टया अपरपाषाणतलासीनाया तया, कन्यकया क्षणमिव क्षणकालमिव तूष्णीं मौनं स्थित्वा अवस्थाय क्रमेण परिपाट्या परिपृष्टः कृतप्रश्नश्चन्द्रापीडः दिग्विजयमादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेन किन्नरयुग्मानुगमनवशेन आत्मनः स्वस्य सर्वं निखिलम् आगमनम् आचचक्षे आख्यातवान्।

विदितेति। अपि चेति चार्थः। विदितो ज्ञातः सकलवृत्तान्तः समग्रोदन्तो यया सा तादृशी, सा कन्यका उत्थाय तत्स्थानादुत्थानं विधाय भिक्षाकपालं भिक्षापात्रम् आदाय गृहीत्वा तेषाम् आयतनतरूणां गुहासमीपवर्त्तिसिद्धालयायतनवृक्षाणां तलेषु अधःप्रदेशेषु विचचार पर्यटितवती। आगत्य तत एत्य तेषां फलानाम् उपभोगाय भक्षणाय चन्द्रापीडं नियुक्तवती प्रेरितवती।

आसीदिति। तस्य चन्द्रापीडस्य चेतसि मनसि आसीत् अभूत्। तपसां तपश्चर्याणां खलु निश्चयेन असाध्यम् अशक्यं नाम नास्ति न विद्यते। तथा च वचनम्—

'निश्चितं समवाप्नोति तपोभिः स्वमनोरथम्। तपस्यतो हि नासाध्यं किञ्चिज्जगति विद्यते॥
वृथा दौर्भाग्यमाप्नोति लोको हि सति साधने॥' इति।

नामेति कोमलामन्त्रणे। तथाप्यतः परम् एतदन्यत् किमाश्चर्यं किं चित्रम्, यद्यस्मात् कारणात् अत्र अस्मिन् प्रदेशे व्यपगता दूरीभूता चेतना चैतन्यं येषां तादृशा अपि सचेतना इव सचैतन्या इव अस्यै भगवत्यै देव्यै फलानि समतिसृजन्तः समर्पयन्तः वनस्पतयो वृक्षाः आत्मानुग्रहं निजसाफल्यम् उपपादयन्ति निष्पादयन्ति। एतत्खलु तपस एव फलमित्याशयः। अत एवेहार्थान्तरन्यासोऽलङ्कारः स च विशेषेण सामान्यसमर्थनरूपो बोध्यः।

चित्रमिति। अदृष्टपूर्वम् अवीक्षितपूर्वमिदं चित्रमाश्चर्यम् आलोकितं वीक्षितम् इति अधिकतरोऽतिभूयान् उपजातः समुत्पन्नो विस्मय आश्चर्यं यस्य स चन्द्रापीडः उत्थाय उत्थानं विधाय तमेव प्रदेशं पूर्वोक्तमेव स्थानम् इन्द्रायुधमश्वम् आनीय व्यपनीतपर्याणम् अपसारितपल्ययनं नातिदूरे निकटे संयम्य बद्ध्वा निर्झरजलेन प्रस्रवणसलिलेन निर्वर्त्तितो निष्पादितः स्नानविधिः आप्लवनविधिर्येन स तादृश


उस समय अतिथि-सत्कार सम्पन्न करके, एक द्वितीय शिलातल पर बैठ, थोड़ी देर चुप रह कर उस देवकन्याने जब राजकुमारसे उसका सब वृत्तान्त क्रमसे पूछा तब उसने दिग्विजयसे आरम्भ कर, किन्नर-मिथुनके अनुसरण-प्रसङ्गसे यहाँ तक अपने आनेका समस्त वृत्तान्त उससे कहा। बाद समस्त वृत्तान्तसे अवगत होकर वह कन्या उठी और अपना भिक्षापात्र लेकर, आश्रमके वृक्षोंके नीचे विचरण करने लगी। वहाँ थोड़े समयमें ही अपने आप गिरे फलोंसे उसका पात्र परिपूर्ण हो गया। उसके बाद लौटकर उसने राजकुमारसे उन फलोंका भक्षण करनेके लिए अनुरोध किया।

उस समय राजपुत्र विचारने लगा कि—'इस संसारमें वास्तवमें तपस्यासे कोई भी कार्य असाध्य नहीं है। जब चैतन्यरहित वृक्षसमूह भी आज सचेतनके समान इस देवी को फल समर्पण कर अपना अनुग्रह प्रकट करते हैं, तब इससे अधिक आश्चर्य क्या हो सकता है? आज यह तो मैंने अदृष्टपूर्व आश्चर्य वृत्तान्त देखा। इस प्रकार अत्यन्त विस्मित होकर वह उठा और बाहर जाकर इन्द्रायुधको वहीं ले आया। उसका पल्ययन (जीन)


१. क्वचित् 'च' कारो नास्ति।
२. यत्र च।
३. विगतचेतना अपि।
-४. 'पर्याणे च।
५. ॰॰॰निर्वर्त्तित॰॰॰।