कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 449, कुल 709 में से
संदर्भ में पढ़ें४१० कादम्बरी- [कथायाम्-
'शरीरधर्म्माणमुपतापाः। बलवती हि द्वन्द्वानां प्रवृत्तिः। इदमपरमधिकतरमुपजनितम्$^१$। अतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन। न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्त्तयः। नहि क्षुद्रनिर्घातपाताभिहता चलति वसुधे'ति। संवर्द्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छन्नुत्थाय प्रस्रवणादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये। सा तु तदनुरोधादविच्छिन्न$^४$बाष्पजलधारासन्तानापि किञ्चित्कषायितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णञ्च निःश्वस्य शनैः शनैः$^५$प्रत्यवादीत्-
'राजपुत्र! किमनेनातिनिर्घृण$^६$-हृदयायाः मम मन्दभाग्यायाः पापाया जन्मनः$^७$ प्रभृति
न स्पृशन्ति नापद्यन्ते इति न, किन्तु सर्वमेव शरीरिणमुपतापाः स्पृशन्तीत्यर्थः। अत एव तपस्विजनस्यापि सांसारिकक्लेशसम्भव इत्यभिप्रायः।
ननु तपस्वी स्वत्तपःप्रभावेण दुःखं कथं नाम न निवारयतीत्यत आह-बलेति। हि यस्मात्, द्वन्द्वानां सुखदुःखशीतोष्णादीनां प्रवृत्तिः देहिषूपस्थितिः बलवती बलिष्ठा। तपस्विन्वेऽपि देहिधर्मत्वादेव तत्र द्वन्द्वानां बलिष्ठा प्रवृत्तिः निवारयितुमशक्येत्याशयः।
इदमिति। मे मम मनसि चित्ते इदम् अपरमन्यत् अधिकतरं पूर्वस्मात्कुतूहलादतिरिक्तम् अतिमहत् कौतुकं कुतूहलमाश्चर्यमित्यर्थः। अस्याः कन्यकाया बाष्पसलिलपातेन अश्रुजलपतनेन उपजनितमुत्पादितम्। इहोत्पत्युत्पत्त्या नार्थगतपौनरुक्त्यम्।
ननु स्वल्पेनापि शुष्कशोकेन योषितामश्रुजलसम्भवात् कथं तवातिमहदाश्चर्यमित्यत आह-नहीति। हि यतः अल्पीयसा स्तोकेन शोककारणेन दुःखनिमित्तेन एवंविधा अनिर्वचनीयस्वरूपा मूर्त्तयः शरीराणि न क्षेत्रीक्रियन्ते आश्रयीक्रियन्ते अवलम्बितुं शक्यन्त इत्यर्थः। हि तथाहि, क्षुद्रण स्वल्पेन निर्घातपातेन निर्घातपवनस्पर्शेन अभिहता ताडिता वसुधा पृथिवी न चलति न कम्पते इति। इह साधर्म्येण दृष्टान्तः।
संवर्धितेति। संवर्धितं वृद्धिमपगतं कुतूहलम् आश्चर्यं यस्य तादृशश्चन्द्रापीडः, शोकस्मरणस्य दुःखस्मृतेः हेतुतां निमित्तत्वम् उपगतं प्राप्तम्, अत एव अपराधिनं सापरासमिव आत्मानं स्वम् अवगच्छन् जानन् उत्थाय प्रस्रवणात् निर्झरात् मुखप्रक्षालनाय वदनशुद्ध्यर्थम् उदकं जलम् अञ्जलिना पाणिपुटेन उपनिन्ये उपस्थापितवान्।
सेति। सा कन्याका (महाश्वेता) तु तदनुरोधात् चन्द्रापीडाग्रहात् अविच्छिन्नः विच्छेदमलभमानः बाष्पजलधाराया अश्रुजलासारस्य सन्तानः समूहो यस्याः सापि किञ्चित् कषायिते अश्रुपातेनेपद्विलीकृते रक्ते वा उदरे अभ्यन्तरयुगलं तयोस्ते लोचने नयने प्रक्षाल्य वल्कलोपान्तेन परिहिततरुत्वगग्रेण वदनं मुखम् अपमृज्य मार्जनं विधाय दीर्घम् आयतम् उष्णं तप्तं निःश्वस्य निःश्वासं विधाय च शनैः शनैः मन्दं मन्दं प्रत्यवादीत् प्रत्यवोचत्-
राजेति। हे राजपुत्र! अतिनिर्घृणं नितान्तनिर्दयं हृदयं चेतो यस्यास्तस्या मन्दभाग्यायाः क्षीणभागधेयायाः पापायाः पापिष्ठाया मम जन्मनः प्रभृति उत्पत्तेरारभ्य अश्रवणीयेन नितान्तनिष्ठुरतया श्रवणा-
सन्तापकारी दुःख अवश्य होते हैं—क्योंकि सुखदुःखादि द्वन्द्वोंकी प्रवृत्ति (उपस्थिति) अत्यन्त प्रवल है। इसके अश्रुवर्षण (रोने) से मेरे चित्तमें पहलेसे भी अधिक गुरुतर कौतुक उत्पन्न हो गया है; क्योंकि-अल्पमात्र शोकके कारणोंसे ऐसी मूर्ति अधीन नहीं हो सकती, अल्पमात्र निर्घात वायुके (वज्र) आघातसे आहत होकर पृथिवी कम्पित नहीं होती। इस क्रमसे चन्द्रापीडका कुतूहल बढ़ गया और अपनेको ही उस कन्याके शोक-स्मरणका कारण होनेते अपराधी समझ, अतएव उठकर, उसके मुख-प्रक्षालनके लिए झरनेमेंसे अञ्जलि भरकर जल ले आया। उस कन्याके अपने अश्रुजलके धारासमूह अविच्छिन्न भावसे बह रहे थे तो भी राजकुमारके अनुरोधसे, वह अन्दरते थोड़े लाल हुए अपने नयनोंको प्रक्षालन (धो) कर, वल्कल प्रान्तद्वारा अपना मुँह पोंछकर, लंबे और गरम साँस ले धीरे बोली-
राजपुत्र! मेरे समान अत्यन्त क्रूर-हृदया मन्दभागिनी पापिनी नारीके जन्मते वैराग्य ग्रहण करनेके
१. जनितम्। २. महन्मम मनसि कौतुकम्। ३. कुतूहलश्चात्या। ४. ॰॰॰अविच्छिन्न। ५. क्वचिद 'शनैः' इत्येकमेवास्ति पदम्। ६. अतिनिष्ठुर ॰॰। ७. जन्मतः।