कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 452, कुल 709 में से
संदर्भ में पढ़ेंमहाश्वेताजन्मोदन्तवर्णना ५७ ] चन्द्रकला-विद्योतिनीसहिता । [ ४१३
द्वितीये^१ गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्ये^२ तस्यापि स एव गिरिरधिवासः । यत्तु तत् सोममयूखसम्भवमप्सरसां कुलम्, तस्मात् किरणजालानुसार्रे-गलितेन सकलेनेव रजनिकर-कला-कलाप-लावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी, गौरीति नाम्ना^४ हिमकर-किरणावदातवर्णा कन्यका प्रसूता । ताञ्च द्वितीयगन्धर्वकुलाधिपतिः^६ हंसो मन्दाकिनीमिव क्षीरसागरः प्रणयनीमकरोत् । सा तु भगवता मकरकेतनेनेवँ^७ रतिः, शरत्समयेनेव कमलिनी, हंसेन संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती निखिलान्तःपुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयार्महात्मनोरहमहीदृशी^८ विगतलक्षणा शोकाय केवलमनेकदुःख-
देवगायकान्ववाये गन्धर्वराजेन देवगायकाधिपतिना चित्ररथेनैव अभिषिक्तः अभिषेकविषयीकृतः, अत एव बाल एव शिशुरेव राज्यपदं राजत्वम् आसादितवान् प्राप्तवान् ।
अपरीति । अपरिमितम् अगणितं गन्धर्वबलं गन्धर्वसेना परिवारः परिजनो यस्य तस्य, तस्यापि हंसस्यापि स एव पूर्वोक्त एव गिरिः हेमकूटाभिधानः पर्वतः, अधिवसन्त्यस्मिन्नित्यधिवासो निवासस्थलम् ।
यदिरित । तत् पूर्वप्रतिपादितम्, सोममयूखसम्भवं चन्द्रकिरणेभ्यः समुत्पन्नम् अप्सरसां गणिकानां कुलं वंशः । तस्मात् कुलात् किरणजालस्य रश्मिसमूहस्य अनुसारेण अनुसरणक्रमेण गलितं क्षरितं तेन, सकलेन समग्रेण, रजनिकरस्य चन्द्रस्य यः कलानां भागानां कलापः समूहः तस्य लावण्येन अन्तर्गतसारेण निर्मिता रचिता, अतीवनिर्मलधवलत्वादित्याशयः । त्रिभुवनस्य त्रिविष्टपनिवासिनो लोकस्य नयनाभिरामा लोचनाह्लादकरी, द्वितीया अपरा भगवती सर्वैश्वर्यवती गौरी पार्वतीव । हिमकरश्चन्द्रः तस्य किरणवत् रश्मिवत् अवदातो गौरो वर्णो यस्याः सा गौरीति नाम्ना कन्यका सुता प्रसूता जाता ।
इह ‘...लावण्येन निर्मितेव' इत्यत्र क्रियोत्प्रेक्षा । 'द्वितीया गौरिव' इत्यत्र द्रव्योत्प्रेक्षा । 'हिमकर किरणावदातवर्णा' इत्यत्र च लुप्तोपमा बोध्या ।
तामिति । किञ्चेति चार्थः । द्वितीयगन्धर्वकुलाधिपतिः अपरगन्धर्वकुलराजो हंसः क्षीरसागरो दुग्धसमुद्रो मन्दाकिनीमिव वियद्गङ्गामिव तां गौरीं प्रणयिनीं पत्नीम् अकरोत् कृतवान् । श्रौत्युपमा ।
सेति । भगवता मकरकेतनेन शक्तिशालिना कन्दर्पेण रतिरिव, शरत्समयेन घनात्ययकालेन कमलिनी पद्मिनीव, हंसेन सह संयोजिता सृष्टिकर्त्रा सङ्गमिता तु सा गौरी, सदृशेनानु रूपेण समागमेन संमेलनेन उपजनिताम् उत्पादिताम् अतिमहतीं गरीयसीं मुदम् आनन्दम् उपगतवती प्राप्तवती, तस्य हंसस्य निखिलीनां समस्तानाम् अन्तःपुराणां तस्थसुन्दरीणामित्यर्थः । स्वामिनी मुख्या च अभवत् जाता । इह श्रौतोपमयोः परस्पर निरपेक्षयेन विद्यमानतया संसृष्टिः ।
तयोरिति । अपि चेति चार्थः । तादृशयोस्तथाविधयोः महात्मनोर्विशालहृदययोः तयोर्हंसगौर्योः अहम्, ईदृशी एवम्भूता विगतलक्षणा करतलादिगतमसीध्वजवज्रतिलकाद्यभादिविह्वरहिता, एकैवात्मजा
गन्धर्वराज चित्ररथने अभिषिक्त करके बाल्यावस्थामें ही राजा बनाया । उनका भी अगणित गन्धर्वसैन्यके साथ उसी हेमकूट-पर्वत पर वासस्थान है । इधर, चन्द्र-रश्मियों से जो अप्सराओंका कुल उत्पन्न हुआ था, उसमें द्वितीय भगवती पार्वतीके समान एक कन्या उत्पन्न हुई, रश्मियोंके साथ ही गले हुए चन्द्रकलासमूहके समस्त लावण्यद्वारा ही मानो विधाताने उस कन्याकी सृष्टि की थी, एवं वह कन्या भुवनत्रयस्थ लोगोंके नेत्रोंको आनंद देती थी और वह चन्द्रकिरणके समान ही श्वेत-वर्ण थी। क्षीरसागर ने जिसप्रकार गङ्गाको प्रणयिनी बनाया है द्वितीय गन्धर्वकुलाधिपति महाराज हंसने भी उसीप्रकार उस गोराको प्रणयिनी बनाया था । भगवान् कामदेवके साथ रतिके समान एवं शरत्कालके साथ पद्मिनीके समान, महाराज हंसके साथ सम्मलित होकर वह गौरी, अनुरूपसम्मेलनजनित अत्यन्त आनन्दको अनुभव करने लगी एवं महाराज हंसकी अन्तःपुरवासिनी रमणियोंकी स्वामिनी हो गई। तदनन्तर उन दोनों (हंस और हंसीदेवी)-महात्माओंको केवल शोकातुर करनेके लिए ही,
१. तस्मिन् कुले द्वितीयेऽस्मिन् । २. ०परिवारकस्याप्यापि । ३. सोमपीयूषसम्भूतानामप्सरसां कुलम्, तस्मात् किरणजालानुसार...। ४. गौरीपतिनाम्ना । ५. हिमकिरण, रजनिकर...। ६. द्वितीयकुलाधिपतिः । ७. मकरकेतुना । ८. महात्मनोर्महता क्लेशेन नाभिलापेन कालेन च केवलम् ।