भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 453, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 453
'४१४कादम्बरी-[ कथायाम्-

सहस्रभाजनमेकैवात्मजो समुत्पन्ना। तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मम जन्माभिनन्दितवान्। अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथा- र्थमेव नाम कृतवान्। साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणा- मङ्कादङ्कं सञ्चरन्ती अविदित-स्नेह-शोकायासमनाेहरं^२ शैशवमतीतवती^३। क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम्।

अथ विजृम्भमाणं-नव-नलिन-वनेषु, अकठोरै-चूतकलिक-कलापकृत-कामुकोत्कलिकेषु^६


एकमात्रपुत्री अहम् अनेकं बहुविधं यद् दुःखसहस्रं क्लेशसमूहः तस्य भाजनं पात्रं केवलं शोकाय शोक-हेतवे समुत्पन्ना सञ्जाता।

तात इति। अनपत्यतया मदतिरिक्तसन्तानरहिततया सुतजन्मातिरिक्तेन पुत्रोत्पत्त्यतिरिक्तेन महोत्सवेन मम जन्म अभिनन्दितवान् प्रशंसितवान्। अवाप्ते प्राप्ते च दशमेऽहनि दिने कृतो विहितो यथोचितो यथायोग्यः समाचारः आभ्युदयिकश्राद्धादिर्व्यवहारो येन सः तात इत्यन्वयः, यथार्थमेव सत्य-मेव 'महाश्वेता' इति नाम संज्ञां कृतवान् विहितवान् मत्स्वरूपस्य नितान्तशुभ्ररूपत्वादित्याशयः।

सेति। साहं महाश्वेता पितृभवने तातगृहे बालतया शिशुत्वेन, वीणेव वहल्कीव कलमव्यक्तं मधुरं च प्रलपितुं भाषितुं शीलं यस्याः सा, गन्धर्वाणां देवगायकानाम् अङ्कादङ्कं क्रोडात्क्रोडं सञ्चरन्ती गच्छन्ती, अविदितैः विशेषज्ञानानुदयादनवगतैः स्नेहशोकायामैः प्रतिशोकपरिश्रमैः कारणैः मनोहरं तत्तत्कृतव्य-ग्रताभावात् रमणीयं शैशवं बाल्यम् अतीतवती अतिक्रान्तवती।

क्रमेणेति। किञ्चेति चार्थः। क्रमेण परिपाट्या वसन्ते पुष्पकाले इव मधुमासेन चैत्रमासेन, मधुमासे इव नवपल्लवेन नूतनकिसलयेन, नवपल्लवे इव कुसुमेन पुष्पेण, कुसुम इव मधुकरेण भ्रमरेण, मधुकरे तात्कालिकभ्रमरे इव मदेन, मे मम वपुषि शरीरे नवयौवनेन प्रथमतारुण्येन पदं स्थानं कृतं विहितम्। इह सरस्वतीकण्ठाभरणमते उत्तरोत्तरमुपमेयानामुपमानत्वकल्पनात् रशनोपमा, दर्पणकारमते तु मालो-पमा बोध्या।

अथेति। अथ अनन्तरम् अहं मधुमासदिवसेषु एकदा समये अम्बया सह इदम् अच्छोदं सरः स्नातुम् अभ्यागममिति सुदूरवर्त्तिन्या क्रियया सम्बन्धः। इह सप्तमीबहुवचनान्तानि पदानि मधुमास-दिवसेष्वित्यस्यैतानस्य विशेषणानि। विजृम्भमाणानि विकसन्ति नवानि नूतनानि नलिनानां कमलानां वनानि अरण्यानि येषु तेषु।

अकठोरैरिति। अकठोरैः नूतनोद्गतत्वात् कोमलैः चूतकलिकानम् आम्रकुड्मलानां कलापैः समूहैः कृता विहिता कामुकानां कामिजनानाम् उत्कलिका उत्कण्ठा येषु तेषु। उद्दीपकत्वादित्याशयः।


शुभलक्षणहीन और नानाविध दुःखसमूहकी पात्र मैं केवल एकमात्र पुत्री उत्पन्न हुई। अन्य सन्तान नहीं होनेके कारण पिताने पुत्रजन्मसे भी अधिक महोत्सवका अनुष्ठान कर मेरे जन्मको अभिनन्दित किया। एवं दशम दिन उपस्थित होने पर यथोचित आचार-सम्पादन-पूर्वक उन्होंने मेरा नाम 'महाश्वेता' यह यथार्थ नाम-करण किया। वह मैं शिशुत्व-निबन्धन वीणाके समान अस्पष्ट और मधुरभाषिणी होकर, गन्धर्वोंके मध्यमें एक की गोदमेंसे दूसरेकी गोदमें विचरण करती थी, एवं स्नेह, शोक और दुःखका ज्ञान न होनेसे मनोहर अपनी शैशवावस्थाको मैंने पिताके भवनमें ही विताया। उसके बाद वसन्त कालमें जिसप्रकार चैत्रमास, चैत्रमासमें जिसप्रकार नवपल्लव, नवपल्लवमें जिसप्रकार पुष्प, पुष्पमें जिसप्रकार भ्रमर एवं भ्रमरमें जिसप्रकार मद आकर आविर्भूत होता है, उसी प्रकार नवयौवन आकर मेरे शरीरमें आविर्भूत हुआ।

तदनन्तर, एक समय मैं अपनी माताके साथ वसन्तके कारण अत्यन्त शोभायमान, विकसित नूतन कमल कुमुद, कुवलय और कह्लारयुक्त इस अच्छोदसरोवरमें स्नान करनेके लिए आई। उस समय समस्त जीवलोकके


१. विप्रलंम्भा केवलम्···।
२. ···स्नेहशोकायासं।
३. अतिनीतवती।
४. ऽजृम्भमाण।
५. अनेके।
६. काम्युत्कलिकेषु।